________________
स्थानं-५, - उद्देशकः-२
३५३
नन्तरोदितान्तरः शीतोदामहानदीमध्यभागवर्ती दक्षिणोत्तरतोयोजनसहनमायतः पूर्वापरतः पञ्च योजनशतानि विस्तीर्णः वेदिकावनखण्डद्वयपरिक्षिप्तो दश योजनावगाहो नानामणिमयेन दशयोजननालेनाद्धयोजनबाहल्येन योजनविष्कम्भेनार्द्धयोजनविस्तीर्णयाक्रोशोच्छ्रितयाकर्णिकया युक्तेन निषधाभिधानदेवनिवासभूतभवनभासितमध्येन तदर्द्धप्रमाणाष्टोत्तरशतसङ्ख्यपौस्तदन्येषां च सामानिकादिदेवनिवासभूतानां पद्मानामनेकलक्षैः समन्तात् परिवृतेन महापद्मन विराजमानमध्यभागोनिषधो महाइदः,एवमन्येऽपि निषधसमानवक्तव्यताः स्वसमानाभिधानदेवनिवासा उक्तान्तराः समवसेयाः,
__नवरं नीलवन्महाइदो विचित्रकूटचित्रकूटपर्वतसमवक्तव्यताभ्या यमकाभिधानाभ्यां स्वसमाननामदेवावासाभ्यां पर्वताभ्यामनन्तरं द्रष्टव्यस्ततो दक्षिणतःशेषाश्चत्वार इति, एते ध सर्वेऽपि प्रत्येकं दशभिर्दशभिः काञ्चनकाभिधानैः योजनशतोच्छ्रितैर्योजनशतमूलविष्कम्भैः पञ्चाशद्योजनमानमस्तकविस्तारैः स्वसमाननामदेवाधिवासैः प्रत्येकं दशयोजनान्तरैः पूर्वापरव्यवस्थितैः गिरिभिरुपेताः, एतेषांच विचित्रकूटादिपर्वतदनिवासिदेवानामसद्ध्येयतमजम्बूद्वीपे द्वादशयोजनसहनप्रमाणास्तन्नामिकानगर्यो भवन्तीति, सव्वेविण मित्यादि, सर्वेऽपिजम्बूद्वीपादिसम्बन्धिनः, 'तेणं'ति शीताशीतोदे महानद्यो प्रतीते लक्षणीकृत्य नदीदिशीत्यर्थः, मन्दरं वामेरुं या पर्वतं प्रति तद्दिशीत्यर्थः, तत्र मालवत्सौमनसविद्युत्प्रभगन्धमादनागजदन्ताकारपर्वता मेरुं प्रतियथोक्तस्वरूपाः,शेषास्तु वक्षारपर्वता महानद्यौ प्रतीति,
इयं चानन्तरोदिता सप्तसूत्री धातकीखण्डस्य पुष्करार्द्धस्य च पूर्वापराद्धयोर्दश्येत्यत एवोक्तम्-‘एवं जहा जंबू' इत्यादि।
समयः-कालस्तद्विशिष्टं क्षेत्रसमयक्षेत्रं-मनुष्यक्षेत्रंतस्यैवादित्यगतिसमभिव्यायऋत्वयनादिकालयुक्तत्वात्, 'जावपंचमंदर'त्ति इह यावत्करणात्पञ्चहैमवतानिपञ्च हैरण्यवतानीत्यादि पञ्चशब्दापातिनइत्यादिचोपयुज्यसर्वचतुःस्थानकद्वितीयौद्देशकानुसारेणवाच्यं, नवरं उसुयार' त्ति चतुःस्थानके चत्वार इषुकारपर्वता उक्ताः इह तुते न वाच्याः, पञ्चस्थानकत्वादस्येति ।
मू. (४७३) उसभेणं अरहा कोसलिए पंचधणुसताई उद्धं उच्चत्तेणं होत्था १/भरहेणं राया चाउरंतचक्कवट्टी पंच धणुसयाई उद्धं उच्चत्तेणं हुत्था २ / बाहुबली नामनगारे एवं चेव३ बंभीनामज्जा एवं चेव ४ एवं सुंदरीवि ५,।
वृ.अनन्तरं मनुष्यक्षेत्रेवस्तून्युक्तानीति तदधिकाराद्भरतक्षेत्रवर्तमानावसर्पिणीभूषणभूतमृषभजिनवस्तुतत्सम्बन्धादन्यानिचपञ्चस्थानकेऽवतारयन्सूत्रपञ्चकमाह-'उसमेण मित्यादिः कण्ठयं, नवरं कोसलि'त्तिकोशलदेशोत्पन्नत्वात्कौशलिको, भरतादयश्चऋषभापत्यानि।बुद्धाश्चैते, बुद्धश्च भावतो मोहक्षया द्रव्यतो निद्राक्षयादिति द्रव्यबोधं कारणत उपदर्शयत्राह
मू. (४७४) पंचहिं ठाणेहिं सुत्तेविबुझेजा, तं०-सद्देणंफासेणंभोयणपरिणामेणं निदक्खएणं सुविणदंसणेणं।
वृ. 'पंचही त्यादि कण्ठ्यं, नवरमिह निद्राक्षयोऽनन्तरकारणंशब्दादयस्तु तत्कारणत्वेन तत्कारणतयोक्ताः, भोजनपरिणामोबुभुक्षा अनन्तरंद्रव्यप्रबुद्धः कारणत उक्तो, अथ भावप्रबुद्धमनुष्ठानत आज्ञाननतिक्रमिणं दर्शयितुमाह13123
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org