SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ स्थानं-५, - उद्देशकः-२ ३४९ अहवा भवं समाए निव्वत्तं तेण तंमयं वावि। जंतप्पओयणं वा तेण व सामाइयं नेयं" इति, अथवा समानि-ज्ञानादीनि तेषु तैर्वा अयनमयः समायाः स एव सामायिकमिति, अवादिच॥१॥ “अहवा समाइ सम्मत्तनाणचरणाइ तेसुतेहिं वा। अयणं अओ समाओ स एव सामाइयं नामा।।" इति, अथवा समस्य-रागादिरहितस्याऽऽयो-गुणानां लाभः समानांवा-ज्ञानादीनामायः समायः स एव सामायिक, अभाणि च॥१॥ अहवा समस्स आओ गुणाण लाभोत्ति जो समाओ सो। अहवा समाणमाओ नेओ सामाइयं नाम ।।" इति, अथवा साम्नि-मैत्र्यां साम्ना वा अयस्तस्य वा आयः सामायः स एव सामायिकं,अभ्यधायिच॥१॥ “अहवा सामं मेत्ती तत्थ अओ तेण वत्ति सामाओ। अहवा सामस्साओ लाभा सामाइयं नाम ।।" इति सावद्ययोगविरतिरूपं सर्वमपि चारित्रमविशेषतः सामायिकतमेव, छेदादिविशेषैस्तु विशिष्यमाणमर्थतःशब्दतश्चनानात्वं भजते, तत्रप्रथमं विशेषणाभावात् सामान्यशब्दएवावतिष्ठते सामायिकमिति, तच्च द्विधा-इत्वरकालिकं यावज्जीविकंच, तनेत्वरकालिकं सर्वेषुप्रथमपश्चिमतीर्थकरतीर्थेष्वनारोपितव्रतस्ययावजीविकंतुमध्यमविदेहीर्थकरतीर्थेषु भवति इति, तेषूपस्थापनाऽभावादिति, सामायिकं च तत्संयमश्चेत्येवं सर्वत्र वाक्यं कार्यमिति, भवन्ति चात्र गाथाः॥१॥ "सव्वमिणं सामाइय छेदादिविसेसओ पुण विभिन्नं । अविसेसियमादिमयं ठियमिह सामन्त्रसन्नाए ।। ॥२॥ सावजजोगविरइत्ति तत्थ सामाइयं दुहा तं चं। इत्तरमावकहतिय पढम पढमंतिमजिणाणं ।। ॥३॥ तित्थेसु अणारोवियवयस्स सेहस्स थोवकालीयं । सेसाणमावकहियं तित्थेसु विदेहयाणंच॥" इति, तथा छेदश्च पूर्वपर्यायस्योपस्थापनं चव्रतेषु यत्र तच्छेदोपस्थापनं तदेव छेदोपस्थापनिकं तेवा विद्येते यत्रतच्छेदोपस्थापनिकमथवा पूर्वपर्यायच्छेदेनोपस्थाप्यते-आरोप्यतेयन्महाव्रतलक्षणं चारित्रंतच्छेदोपस्थापनीयं, तदपि द्विधा-अनतिचारं सातिचारंच, तत्रानतिचारं यदित्वरसामायिकस्य शिक्षकस्यारोप्यतेपार्श्वनाथसाधोपञ्चयामधर्मप्रतिपत्ती, सातिचारंतुयन्मूलप्रायश्चित्तप्राप्तस्येति. इहापि गाथे-- ॥१॥ "परियायस्स उ छेओ जत्थोवट्ठावणं वएसुंच। छेओवट्ठावणमिह तमनइयारेतरं दुविहं ।।। ॥२॥ सेहस्स निरइयारं तित्थंतरसंकमे व तं होज्जा । मूलगुणघाइणो साइयारमुभयं च ठियकपे॥" तथा परिहरणं परिहारः-तपोविशेषः तेन विशुद्धं परिहारो वा विशेषेण शुद्धो यस्मिंस्तपरिहारविशुद्धं तदेवपरिहारविशुद्धिकं, परिहारेण वा विशुद्धिर्यस्मिंस्तत्परिहारविशुद्धिक, तच्च For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy