________________
३३९
स्थानं - ५, - उद्देशकः -२ केशिमातुः केशवत्कण्डूयनार्थं रक्तनिरोधनार्थं वा तया प्रयुक्तं सदनुप्रविशेद् अनाभोगेन वा तथाविधं वस्त्रंपरिहितं सद्योनिमनुप्रविशेत्, तथा स्वय'मिति पुत्रार्थिनीत्वाच्छीलरक्षिकत्वाच्च 'से'ति सा शुक्रपुद्गलान् योनावनुप्रवेशयेत्,
तथा परोव'तिश्वश्रुप्रभृतिकः पुत्रार्थमेव से' तस्या योनावितिगम्यते, तथा वियर्ड'ति समयभाषया जलं तच्चानेकधेत्यत उच्यते-शीतोदकलक्षणं यद्विकट-पल्वलादिगतमित्यर्थः तेन वा 'से' तस्या आचमत्याः पूर्वपतिता-उदकमध्यवर्तिनः शुक्रपुद्गलाः अनुप्रविशेयुरिति, 'इच्चेएही'त्यादिनिगमनमिति अप्राप्तयौवनाप्रायआवर्षद्वादशकादार्त्तवाभावात्तथाऽतिक्रान्तयौवना वर्षाणां पञ्चपञ्चाशतः पञ्चशतो वा आर्त्तवाभावादेव, यतोऽवाचि-- ॥१॥ "मासि मासि रजः स्त्रीणामजनं न वति त्र्यहम् ।
वत्सराद् द्वादशादूर्वा, याति पञ्चाशतः क्षयम् ॥ ॥२॥ पूर्णषोडशवर्षा स्त्री, पूर्णविंशेन संगता।
शुद्धे गर्भाशये १ मार्गे २, रक्ते ४ शुक्रे ५ ऽनिले ५ हृदि ६॥ ॥३॥ वीर्यवन्तं सुतं सूते, ततो न्यूनाब्दयोः पुनः ।
रोग्यल्पायुरधन्यो वा, गर्भो भवति नैव वा ।।" इति, शुद्धे-निर्दोषे गर्भाशयादिषट्क इत्यर्थः, तथा जातेः-जन्मतआरभ्यवन्ध्या-निर्बीजाजातिवन्ध्या, तथा ग्लान्येन-ग्लानत्वेन स्पृष्टा ग्लान्यस्पृष्टा-रोगादिता, तथा दौर्मनस्यं-शोकाद्यस्ति यस्याः सा दौर्मनस्यिका तद्वा सातमस्या इति दौर्मनस्थितेति, 'इच्चेएही'त्यादि निगमनं । 'नित्यं' सदा न त्यहमेव ऋतू-रक्तप्रवृत्तिलक्षणो यस्याःसानित्युतुका, तथानविद्यते ऋतू-रक्तरूपः शास्त्रप्रसिद्धो वा यस्याः सा अनृतुका, तथाहि-- ॥१॥ "ऋतुस्तु द्वादश निशाः, पूर्वास्तिस्रोऽत्र निन्दिताः।
एकादशी च युग्मासु, स्यात्पुत्रोऽन्यासु कन्यका ।। ॥२॥ पद्मं सोचमायाति, दिनेऽतीते यथा तथा।
ऋतावतीते योनिः सा, शुक्रं नैव प्रतीच्छति ।। ॥३॥ मासेनोपचितं रक्तं, धमनीभ्यामृतौ पुनः।
ईषत्कृष्णं विगन्धं च, वायुर्योनिमुखानुदेद ॥” इति, तथा व्यापन्नं-विनष्टं रोगतः श्रोतो-गर्भाशयश्छिद्रलक्षणं यस्याः सा व्यापन्नश्रोताः, तथा व्यादिग्धं व्याविद्धं वा-वातादिव्याप्तं विद्यमानमप्युपहतशक्तिकं श्रोतः-उक्तरूपं यस्याः सा व्यादिग्धश्रोता व्याविद्धश्रोता वा, तथा मैथुने प्रधानमङ्गं मेहनंभगश्च तत्प्रतिषेधोऽनङ्गतेनानङ्गेनअहार्यलिङ्गादिना अनङ्गे वा-मुखादौ प्रतिषेवाऽस्ति यस्याः अनङ्ग वा-काममपरापरपुरुषसम्पर्कतोऽतिशयेन प्रतिषेवत इत्येवंशीलाऽनङ्गप्रतिषेविणी, तथाविधवेश्यावदिति, ऋतौऋतुकालेनो-नैवनिकामम्-अत्यर्थंबीजपातं यावत् पुरुषप्रतिषेवतइत्येवंशीला निकामप्रतिषेविणी 'वाऽपी'ति उत्तरविकल्पापेक्षया समुच्चये समागता वा 'से' तस्यास्ते प्रतिविध्वंसन्तेयोनिदोषादुपहतशक्तयो भवन्ति, मेहनविश्रोतसा वा योनेर्बहिः पतन्तो विध्वंसन्ते इति,
उदीर्णं च-उत्कटं तस्याः पित्तप्रधानं शोणितं स्यात् तच्चाबीजमिति, पुरा वा-पूर्वं वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org