________________
३३६
स्थानाङ्ग सूत्रम् ५/२/४५१ मित्यर्थः, पर्युषणाकल्पश्चन्यूनोदरताकरणं विकृतिनवकपरित्यागः पीठफलकादिसंस्तारकादानमुच्चारादिमात्रकसंग्रहणंलोचकरणंशैक्षाप्रव्राजनंप्राग्गृहीतानां भस्मडगलकादीनांपरित्यजनमितरेषां ग्रहणं द्विगुणवर्षापग्रहोपकरणधरणमभिनवोपकरणाग्रहणं सक्रोशयोजनात् परतो गमनवर्जनमित्यादिकः, उक्तंच॥१॥ “दव्वट्ठवणाऽऽहारे विगई संथारमत्तए लोए।
__सचित्ते अच्चित्ते वोसिरणं गहणधरणाइ ।" इति 'दब्वट्ठवण'त्ति निशीथे द्वारपरामर्श इति । ज्ञानमेवार्थो यस्य स ज्ञानार्थस्तद्भावस्तत्ता तयाज्ञानार्थतया-ज्ञानार्थत्वेन तत्रापूर्वः श्रुतस्कन्धोऽन्यस्याचार्यदरस्तिसच भक्तंप्रत्याख्यातुकामस्ततो यद्यसौ तत्सकाशान गृह्यते ततोऽसौ व्यवच्छिद्यते अतस्तद्ग्रहणार्थं ग्रामानुग्रामं द्रोतुं कल्पते, एवं दर्शनार्थतया-दर्शनप्रभावकशास्त्रर्थित्वेन, चारित्रार्थतया तु तस्य क्षेत्रस्यानेषणास्त्र्यादिदोषदुष्टतया तद्रक्षणार्थं, तथा 'आयरियउवज्झाए'त्ति समाहारद्वन्द्वत्वादाचार्योपाध्याय वा 'से' तस्य भिक्षोः वीसुंभेज'त्ति विष्वक्-शरीरात् पृथग्भवेत् जायते नियेतेत्यर्थः,
ततस्तत्र गच्छेअन्यस्थाचार्यादेरभावाद्गणान्तराश्रयणार्थं अथवा 'वीसुंभेजत्तिविश्रम्भेत तस्य साधोराचार्यादिर्विश्रब्धो भवेत्ततोऽत्यन्तरहस्यकार्यकरणायेति, तथा आचार्योपाध्यायानां वा बहिस्ताद् वर्षा क्षेत्रस्य वर्तमानानां वैयावृत्त्यकरणतायै प्रेषितस्याचार्यादिना द्रोतुं कल्पतं इति, उक्तंच॥१॥ “असिवे ओमोयरिए, रायदुढे भए व गेलन्ने ।
नाणाइतिगस्सट् ३ वीसुंभण ४ पेसणेणं च ५॥" इति मू. (४५२) पंचअनुग्घातितापं० तं०-हत्याकम्भकरेमाणे मेहुणं पडिसेवेमाणे रातीभोयणं भुंजेमाणे सागारितपिंडं भुंजमाणे रायपिडं भुंजेमाणे ।
वृ. 'अणुघाइय'त्ति न विद्यते उद्घातो-लघूकरणलक्षणो यस्य तपोविशेषस्य तदनुद्घातं यथाश्रुतदानमित्यर्थः तद्येषां प्रतिषेवाविशेषतोऽस्ति तेऽनुद्घातिकाः, 'हस्तकर्म' समयप्रसिद्धं तत्कुर्वाणः, मैथुनम्-अब्रह्म अतिक्रमादिना सेवमानः, तथा भुज्यत इति भोजनं रात्रौ भोजनं रात्रिभोजनं तच्च द्रव्यतोऽशनादि, क्षेत्रतः समयक्षेत्रे कालतो दिवा गृहीतं दिवा भुक्तं दिवा गृहीतं रात्रौ भुक्तं रात्रौ गृहीतं दिवा भुक्तं रात्रौ गृहीतं रात्रौ भुक्तमित्येवंचतुर्भङ्गरूपंभावतो रागद्वेषाभ्यां तद्भुआनोऽश्नन्नित्यर्थः, अत्र दोषाः-“संतिमे सुहुमा पाणा' इत्यादिश्लोकत्रयं, तथा॥१॥ “जइवि हुफासुगदव्वं कुंथू पणगा तहावि दुप्पस्सा ।
पञ्चक्खं नाणीविहु राईभत्तं परिहरंति ॥ जइवि यपिवीलिगाइ दीसंति पईवजोइउज्जोए।
तहवि खलु अणाइन्नं मूलवयविराहणा जेणं ।।" तथा अगारं-गृहं सह तेन वर्तत इति सागारः स एव सागारिकः शय्यातरस्तस्य पिण्ड:आहारोपधिरूपः, अन्यस्त्वसौ न भवति, उक्तंच॥१॥ "तणछारङगलमल्लगसेज्जासंथारपीढलेवाई।
सेज्जायरपिंडो सो न होइ सेहो य सोवहिओ॥” इति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org