________________
स्थानं-५, - उद्देशकः-२
३३५ मू. (४५१) नो कप्पइ निग्गंधाण वा ग्गिंथीण वा पढमपाउसंसि गामानुगामं दूइजित्तए, पंचहिं ठाणेहिं कप्पइ, तं०-भयंसि वा दुब्भिक्खंसि वा जाव महता वा आरितेहिं ५ । वासावासं पजोसविताणं नो कप्पइ निग्गंधाण वा २ गामाणुगामं दूइजित्तए, पंचहि ठाणेहिं कम्पइ, तं०नाणवायाए दसणट्टयाए चरित्तट्टयाए आयरियउवज्झाया वा से वीसुभेजा आयरितउज्झायाण वा बहिता वेआवञ्चं करणताते।
वृ. 'पढमपाउसंसित्ति इह आषाढश्रावणौ प्रावृट्, आषाढस्तु प्रथमप्रावृट्, ऋतूनां वा प्रथमेति प्रथमप्रावृट्,अथवा चतुर्मासप्रमाणोवर्षाकालःप्रावृडिति विवक्षितः, अत्रसप्ततिदिनप्रमाणे प्रावृषो द्वितीये भागेतावन्न कल्पतएव गन्तुं, प्रथमभागेऽपिपञ्चाशद्दिनप्रमाणे विंशतिदिनप्रमाणे वा न कल्पते जीवव्याकुलभूतत्वाद्, उक्तंच॥४॥ "एत्य य अनभिग्गहियं वीसइराइं सवीसयं मासं ।
तेण परमभिग्गहियं गिहिनायं कत्तियं जाव"त्ति,
-अनभिगृहीतं-अनिश्चितमशिवादिभिर्निर्गमभावाद्, आह च॥१॥ “असिवादिकारणेहिं अहवा वासं न सुटु आरद्धं ।
अभिवड्डियंमि वीसा इयरेसु सवीसई मासा'॥ इति, यत्र संवत्सरे अधिकमासो भवति तत्र आषाढ्या विंशतिदिनानि यावदनभिग्रहिक आवासोऽन्यत्र सविंशतिरात्रं मासं-पञ्चाशतं दिनानीति, अत्र चैते दोषाः॥१॥ “छक्कायविराहणया आवडणं विसमखाणुकंटेसु ।
वुझण अभिहण रुक्खोल्लसावए तेण उवचरए ।। ॥२॥ अक्खुन्नेसु पहेसु पुढवी उदगं च होइ दुविहं तु ।
उल्लपयावणअगनी इहरा पणओ हरियकुंथू"।। इति, __ ततस्तत्रप्रावृषिकिमत आह-एकस्माद्ग्रामादवधिभूतादुत्तरग्रामाणामनतक्रमोग्रामानुग्राम तेन ग्रामपरम्परयेत्यर्थः, अथवा एकग्रामाल्लघुपश्चाद्भावाभ्यां ग्रामोऽणुग्रामो, गामोयअनुगामो य गामाणुगाम, तत्र 'दूइजित्तए'त्ति द्रोतुं-विहर्तुमित्युत्सर्गः, अपवादमाह-‘पंचेत्यादि, तथैव, नवरमिह प्रव्यथेत-ग्रामाच्चालयेन्निष्काशयेत् कश्चित् उदकौधे वा आगच्छति ततो नश्येदिति, ॥१॥ (उक्तं च) - "आवाहे दुभिक्खे भए दओघंसि वा महंतंसी।
परिभवणतालणं वा जया परो वा करेजासि ।।" इति, तथा वर्षासु-वर्षाकाले वर्षों-वृष्टिवर्षावर्षो वर्षासु वा आवासः-अवस्थानं वर्षावासस्तं, सचजघन्यतःआकार्तिक्याः दिनसप्ततिप्रमाणोमध्यवृत्या चतुर्मासप्रमाणः उत्कृष्टतः षण्मासमानः, तदुक्तम्॥१॥ "इअ सत्तरी जहन्ना असिइ नउई वीसुत्तरसयं व ।
जइ वासे मग्गसिरे दस राया तिन्नि उक्कोसा ।।" काऊण मासकर्पतत्येव ठियाण तीत मग्गसिरे।
सालंबणाणा छम्मासिओ उजेझुग्गहो होइ ।। 'पजोसवियाणं'ति परीति-सामस्त्येनोषितानां पर्युषणाकल्पेन नियमवद्वस्तुमारब्धाना
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only