________________
३३२
स्थानाङ्ग सूत्रम् ५/१/४४४ हेतवः स्वरूपत उक्ताः ४, [मिथ्याष्टि-सम्यष्टियुग्मापेक्षया सूत्रयुगलता अन्यथा सूत्रचतुष्टयं] तथा पञ्चाहेतवः यः सर्वज्ञतया अनुमानानपेक्षः स धूमादिकं हेतुं नायं हेतुर्ममानुमानोत्थापक इत्येवंजानातीत्यतोऽहेतुभूतं तंजाननहेतुरेवासावुच्यते, एवं दर्शनबोधाभिसमागमापेक्षयाऽपि
तदेवम् हेतुचतुष्टयं छद्मस्थमाश्रित्य देशनिषेधत आह-'अहेतु'मिति, धूमादिकं हेतुमहेतुभावेन नजानाति-नसर्वथाऽवगच्छति, कथञ्चिदेवावगच्छतीत्यर्थःनगो देशनिषेधार्थत्वात, ज्ञातुश्चावध्यादिकेवलित्वेनानुमानाव्यवहर्तृत्वादित्ये-कोऽयमहेतुर्देशप्रतिषेधत उक्तः, एवमहेतुं कृत्वा धूमादिकं न पश्यतीति द्वितीयो, न बुध्यत्ते-न श्रद्धत्ते इति तृतीयो, नाभिसमागच्छतीति चतुर्थः, तथा अहेतु-अध्यवसानादिहेतुनिरपेक्षं निरुपक्रमतया छद्मस्थमरणम्-अनुमानव्यवहर्तृत्वेऽप्यकेवलित्वात् तस्य, अयं च स्वरूपत एव पञ्चमोऽ- हेतुरुक्तः ५ । तथा पञ्चाहेतवो योऽहेतुना-हेत्वभावेन केवलित्वात् जानात्यसावहेतुरेवेत्येवं पश्य- तीत्यादयोऽपि, एवं च छद्मस्थमाश्रित्य पदचतुष्टयेनाहेतुचतुष्टयं देशप्रतिषेधत आह-तथा अहेतुना-उपक्रमाभावेन छद्मस्थमरणं म्रियत इति पञ्चमोऽहेतुः स्वरूपत एवोक्तः ६।
तथा पञ्चाहेतवः अहेतुं न हेतुभावेनविकल्पितं धूमादिकं जानाति केवलितया योऽनुमानाव्यवहारित्वात् सोऽहेतुरेव, एवं यः पश्यतीत्यादि, तथा अहेतुं निर्हेतुकमनुपक्रमत्वात् केवलिमरणमनुमानाव्यवहारित्वान्नियते-यात्यसावहेतुः पञ्चमः, एते पञ्चापीह स्वरूपत उक्ताः,७। एवं तृतीयान्तसूत्रमप्यनुसतव्यमिति ८ । गमननिकामात्रमेतत्, तत्त्वं तु बहुश्रुता विदन्तीति । तथान सन्त्युत्तराणि-प्रधानानियेभ्यस्तान्यनुत्तराणि, यथास्वंसर्वथाऽऽवरणक्षयात्, तत्राद्यज्ञानदर्शनावरणक्षयाद्, अनन्तरेमोहक्षयात्, तपसश्चारित्रभेदत्वात्, तपश्च केवलिनामनुत्तरं शैलेश्यवस्थायांशुक्लध्यानभेदस्वरूपं, ध्यानस्याभ्यन्तरतपोभेदत्वात्, वीर्यंतुवीर्यान्तरायक्षयादिति ९ केवल्यधिकारात् तीर्थकरसूत्राणि चतुर्दश
मू. (४४५) पउमप्पहे णंअरहा पंचचित्ते हुत्था, तं०-चित्ताहिं चुते चइत्ता गब्भं वक्कते चित्ताहिं जाते चित्ताहि मुंडे भवित्ताअगाराओअनगारितंपव्यइए चित्ताहिं अनंते अनुत्तरे निव्वाधाए निरावरणे कसिणे पडिपुन्ने केवलवरनाणदंसणे समुप्पन्ने चित्ताहिं परिनिव्वुते, पुष्पदंते णं अरहा पंचमूले हुत्था, मूलेणं चुते चइत्ता गब्भं वक्ते, एवं चेव एवमेतेणं अभिलावेणं इमातो गाहातो अनुगंतव्वातो।
१. कण्ठ्यानि चैतानि नवरं पद्मप्रभः-ऋषभादिषु षष्ठः, पञ्चसु च्यवनादिदिनेषु चित्रानक्षत्रविशेषो यस्य स पञ्चचित्रः, चित्राभिरिति रूढ्या बहुवचनं, च्युतः-अवतीर्णः उपरिमोपरिमग्रैवेयकादेकत्रिंशत्सागरोपमस्थितिकात्च्युत्वाच 'गब्झतिगब्भेकुक्षौव्युत्क्रान्तः-उत्पन्नः, कौशाम्ब्यां धराभिधानमहाराजभार्यायाः सुसीमानामिकायाः माघमासबहुलषष्ठयां, जातो गर्भनिर्गमनेन कार्तिकबहुलद्वादश्यां, तथा मुण्डो भूत्वा केशकषायाद्यपेक्षयाअगारानिष्कम्यानगारितां श्रमणतां प्रव्रजितो-गतः अनगारितया या प्रव्रजितः कार्तिकशुद्धत्रयोदश्यां, तथाऽनन्तंपर्यायानन्तत्वात् अनुत्तरं सर्वज्ञानोत्तमत्वात् नियाघातमप्रतिपातित्वात् निरावरणं सर्वथा स्वावरणक्षयात् कटकुड्याधावरणाभावाद्वा कृत्स्नं सकलपदार्थविषयत्वात् परिपूर्ण स्वावयवापेक्षया अखण्डं पौर्णमासीचन्द्रबिम्बवत्, किमित्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org