SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ३३३ स्थानं-५, - उद्देशकः-१ केवलं ज्ञानान्तरासहायत्वात् संशुद्धत्वाद्वा अत एव वरं-प्रधानं केवलवरं ज्ञानं चविशेषावभासं दर्शनं च-सामान्यावभासं ज्ञानदर्शनं तच्च तत्तच्चेति केवलवरज्ञानदर्शनं समुत्पन्नंजातं चैत्रशुद्धपञ्चदश्यां, तथा परिनिर्वृतो-निर्वाणं गतः मार्गशीर्षबहुलैकाश्यामादेशान्तरेण फाल्गुनबहुलचतुर्थ्यामिति । एवंचेव'त्तिपद्मप्रभसूत्रमिवपुष्पदन्तसूत्रमप्यध्येतव्यं, एवं' अनन्तरोक्तस्वरूपेण एतेन-अनन्तरत्वात् प्रत्यक्षेणाभिलापेन सूत्रपाठेनेमास्तिस्रः सूत्रसङ्ग्राहणिगाथा अनुगन्तव्याः-अनुसतव्याः, शेषसूत्राभिलापनिष्पादनार्थं । मू. (४४६) पउमप्पभस्स चित्ता १ मूले पुण होइ पुष्पदंतस्स २ । पुव्वाइं आसाढा ३ सीयलस्सुत्तरं विमलस्स भद्दवता ४॥ मू. (४४७) रेवतिता अनंतजिनो ५ पूसो धम्मस्स ६ संतिणो भरणी ७। कुंथुस्स कत्तियाओ ८ अरस्स तह रेवतीतो य ९॥ मू. (४४८) मुनिसुव्वयस्स सवणो १० आसिणि नमिणो ११ य नेमिणो चित्ता १२ ॥ पासस्स विसाहाओ १३ पंच यहत्युत्तरो वीरो १४।। वृ. 'पउमप्पभस्से' त्यादि, तत्र पद्मप्रभस्यचित्रानश्रत्रंच्यवनादिषु पञ्चसुस्थानकेषु भवतीत्यादिगाथाक्षरार्थो वक्तव्यः, सूत्राभिलापस्त्वाद्यसूत्रद्वयस्य साक्षाद्दर्शित एव, इतरेषांत्वेवं-'सीयले णं अरहा पंचपुव्वासाढे होत्था, तंजहा-पुव्वासाढाहिंचुए चइत्ता गब्भं वक्ते, पुव्वासाढाहिं जाए' इत्यादि, एवं सर्वाण्यपि इति, व्याख्या त्वेवं-पुष्पदन्तो-नवमतीर्थकरः आनतकल्पादेकोनविंशतिसागरोपमस्थितिकात् फाल्गुनबहुलनवम्यांमूलनक्षत्रेच्युतश्चयुत्वा काकन्दीनगर्यां सुग्रीवराजभार्यायाः रामाभिधानाया गर्भत्वेन व्युत्क्रान्तः?, मूलनक्षत्रे मार्गशीर्षबहुलपञ्चम्यां जातः, तथा मूल एव ज्येष्ठशुद्धप्रतिपदि मतान्तरेण मार्गशीर्षवहुलषष्ठयां निष्क्रान्तः, तथा मूल एव कार्तिकशुद्धतृतीयायां केवलज्ञानमुत्पन्नं, तथा अश्वयुजः शुद्धनवम्यामादेशान्तरेण वैशाखवहुलषष्ठयां निवृत इति २, तथा शीतलोदशमजिनः प्राणतकल्पाविंशतिसागरोपम-स्थतिकाद्वैशाखबहुलषष्ठयां पूर्वाषाढानक्षत्रे च्युतः च्युत्वा च भद्दिलपुरे दृढरथनृपतिभाया नन्दाया गर्भतया व्युत्क्रान्तः, तथा पूर्वाषाढास्वेव माघवहुलद्वादश्यां जातः, तथा पूर्वाषाढास्वेव माघबहुलद्वादश्यां निष्क्रान्तः, तथा पूर्वाषाढास्वेव पौषस्य शुद्ध मतान्तरेण बहुले पक्षे चतुर्दश्यां ज्ञानमुत्पन्नं, तथा तत्रैव नक्षत्रे श्रावणशुद्धपञ्चम्यां मतान्तरेण श्रावणवहुलद्वितीयायां निर्वत इति, एवं गाथात्रयोक्तानां शेषाणामपि सूत्राणां प्रथमानुयोगपदानुसारेणोपयुज्य व्याख्या कार्या, नवरं चतुर्दशसूत्रे अभिलापविशेषोऽस्तीति तद्दर्शनार्थमाह मू. (४४९) समणे भगवं महावीरे पंचहत्थुत्तरे होत्था-हत्युत्तराहिं धुए चइत्ता गब्भं वक्ते हथुत्तराहिं गन्भाओ गब्भंसाहरिते हत्थुत्तराहिंजाते हत्युत्तराहिं मुंडे भवित्ताजाव पव्वइए हत्युत्तराहिं अनंते अनुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने ।। वृ.'समणे त्यादि, हस्तोपलक्षिताउत्तरा हस्तोवोत्तरोयासांता हस्तोत्तराः-उत्तराः फाल्गुन्यः, पञ्चसुच्यवनगर्भहरणादिषुहस्तोत्तरायस्यसतथा गर्भात् गर्भस्थानात् 'गर्भ'न्ति गर्भगर्भस्थानान्तरे संहतो-नीतः, निवृतस्तु स्वातिनक्षत्रे कार्त्तिकामावास्यायामिति ।। स्थानं - ५ - उद्देशकः-१ समाप्तः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy