________________
३२६
स्थानाङ्ग सूत्रम् ५/१/४३४
'गणंसि'त्ति गणे 'विग्रहस्थानानि कलहाश्रयाः, आचार्योपाध्यायौ द्वयं वा 'गणे गणविषये 'आज्ञां' हे साधो! भवतेदं विधेयमित्येवंरूपामादिष्टिं 'धारणां' न विधेयमिदमित्येवंरूपां'नो'नैव सम्यग्-औचित्येन प्रयोक्ता भवतीतिसाधवः परस्परंकलहायन्तेअसम्यग्नियोगातदुर्जयन्त्रितत्त्वाच्च, अथवा अनौचित्यनियोक्तारमाचार्योदिकमेव कलहायन्ते इत्येवं सर्वत्रेति, अथवा गूढार्थपदैरगीतार्थस्य पुरतोदेशान्तरस्थगीतानिदनायगीतार्थोयदतिचारनिवेदनंकरोतिसाऽऽज्ञा, असकृदालोचनादानेन यप्रायश्चित्तविशेषावधारणं सा धारणा, तयोर्न सम्यक् प्रयोक्तेति स कलहभांगिति प्रथम,
तथास एव 'आहाराइणियाए त्तिरलानिद्विधा-द्रव्यतोभावतश्च, तत्रद्रव्यतः कर्केतनादीनि भावतो ज्ञानादीनि, तत्र रलैः-ज्ञानादिभिर्व्यवहरतीति रालिकः-बृहत्पर्यायो यो यो रालिको यथारलिकंतद्भावस्तत्ता तया यथारालिकतया यथाज्येष्ठंकृतिकर्म-वन्दनकंवियन एववैनयिकं तच्च न सम्यक् प्रयोक्ता, अन्तर्भूतिकारितार्थत्वाद्वा प्रयोजयिता भवतीति द्वितीयं, तथा स एव यानि श्रुतस्य पर्यवजातानि-सूत्रार्थप्रकारान् ‘धारयति' धारणाविषयीकरोति तानि काले कालेयथावसरंन सम्यगनुप्रवाचयिता भवति-नपाठयतीत्यर्थः इतितृतीयं, काले अनुप्रवाचयितेत्युक्तं तत्र गाथा:॥१॥ "कालक्कमेण पत्तं संवच्छरमाइणा उजंमि।
तं तंमिचेव धीरो वाएज्जा सोय कालोऽयं ॥ ॥२॥ तिवरिसपरियागस्स उआयारपकप्पनाममज्झयणं ।
चउवरिसस्स य सम्मंसूयगडं नाम अंगति ।। ॥३॥ दसकप्पव्ववहारा संवच्छरपणगदिक्खियस्सेव ।
ठाणं समवाओऽविय अंगे ते अट्टवासस्स।। ॥४॥ दसवासस्स विहाहो एकारसवासयस्स य इमेउ ।
खुड्डियविमाणमाई अज्झयणा पंच नायव्वा॥ बारसवासस्स तहा अरुणुवचायाइपंच अज्झयणा।
तेरसवासस्स तहा उद्याणसुयाइया चउरो॥ चोद्दसवासस्स तहा आसीविसभावणं जिणा विन्ति ।
पन्नरसवासगस्स य दिट्ठीविसभावणं तहय ।। ॥७॥ सोलसवासाईसुय एक्कोत्तरवुड्डिएसुजहसंखं ।
चारणभावणमहासुविणभावणा तेयगनिसग्गा ।। ॥८॥ एगूणवीसवासगस्स उ दिडिवाओ दुवालसममंगं ।
संपुण्णवीसवरिसो अनुवाई सब्बसुत्तस्स" ति, तथा स एव ग्लानशैक्षवैयावृत्त्यं प्रति न सम्यक् स्वयमभ्युत्थाता-अभ्युपगन्ता भवतीति चतुर्थं, तथास एवगणं अनापृच्छ्य चरति-क्षेत्रान्तरसङ्क्रमादिकरोतीत्येवंशीलोऽनापृच्छ्यचारी, किमुक्तं भवति ? -नो आपृच्छ्यचारीति पञ्चमं विग्रहस्थानं । एतदेव व्यतिरेकेणाह-अविग्रहसूत्रं गतार्थ ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org