________________
स्थानं - ५, - उद्देशक: - १
३२५
साहमितं पारंचितं करेमाणे नातिक्कमति, तं०-सकुले वसति सकुलस्स भेदाते अब्भुट्ठित्ता भवति गणे वसति गणरस भेताते अब्भुट्टेत्ता भवति २ हिंसप्पेही ३ छिद्दप्पेही ४ अभिक्खणं पसिणाततणाई परंजित्ता भवति ५ ।
वृ. साम्भोगिकं - एकभोजनमण्डलीकादिकं विसाम्भोगिकं मण्डलीबाह्यं कुर्वशातिक्रामति आज्ञामिति गम्यते, उचितत्वादिति, सक्रियं प्रस्तावादशुभकर्मबन्धयुक्तं स्थानं-अकृत्यविशेषलक्षणं प्रतिषेविता भवतीत्येकं प्रतिषेव्य गुरवे नालोचयाति न निवेदयतीति द्वितीयं, आलोच्य गुरूपदिष्टप्रायश्चित्तं न प्रस्थापयति-कर्तु नारभत इति तृतीयं, प्रस्थाप्य न निर्विशति-न समस्तं प्रवेशयत्यथवा 'निर्देशः परिभोग' इति वचनात्र परिभुङ्क्ते नासेवत इत्यर्थः इति चतुर्थं, यानीमानि सुप्रसिद्धतया प्रत्यक्षाणि 'स्थविराणां' स्थविरकल्पिकानां 'स्थिती' समाचारे' प्रकल्प्यानिप्रकल्पनीयानि योग्यानि विशुद्धपिण्डशय्यादीनि स्थितिप्रकल्प्यानि अथवा स्थितिश्चमासकल्पादिका प्रकल्प्यानि च-पिण्डादीनि स्थितिप्रकल्प्यानि तानि 'अइयंचिय अइयंचिय'त्ति अतिक्रम्यातिक्रमेत्यर्थः, प्रतिषेवते तदन्यानीति गम्यते, अथ सङ्घाटकादिः साधुरेवं पर्यालोचयतियथा नैतप्रतिषेवितुमुचितं गुरुन बाह्यौ करिष्यति, तत्रेतर आह- 'से' इति तदकल्प्यजातं 'इंदे 'त्ति कोलामन्त्रणं वचनं हमित्यकारप्रश्लेषादहं प्रतिषेवामि किं मम 'स्थविरा:' गुरवः करिष्यन्ति ?, न किञ्चित्तै रुटैरपि मे कर्त्तुं शक्यते इति बलोपदर्शनं पञ्चममिति ।
'पारंचियं 'ति दशमप्रायश्चित्तभेदवन्तमपहृतलिङ्गादिकमित्यर्थः कुर्वन्नातिक्रामति सामायिकमिति गम्यते, कुले - चान्द्रादिके वसति गच्छवासीत्यर्थस्तस्यैव 'कुलस्य भेदायान्योऽन्यमधिकरणोत्पादनेनाभ्युत्थाता भवति यतेत इत्यर्थ, इत्येकः, एवं गणस्यापीति द्वितीयं, तथा हिंसां वधं साध्वादेः प्रेक्षते - गवेषयतीति हिंसाप्रेक्षीति तृतीयं, हिंसार्थमेवापभ्राजनार्थं वा 'छिद्राणि'; प्रमत्ततादीनि प्रेक्षत इति छिद्रप्रेक्षीति चतुर्थं, अभीक्ष्मणमितीह पुनः शब्दार्थः ततश्चाभीक्ष्णमभीक्ष्णं पुनः पुनरित्यर्थः प्रश्ना- अङ्गुष्ठकुड्यप्रश्नादयः सावद्यनुष्ठानपृच्छा वा त एवायतनान्यसंयमस्य प्रश्नायतनानि प्रयोक्ता भवति, प्रयुङ्कत इत्यर्थः इति पञ्चमं ।
,
मू. (४३३) आयरियउवज्झायस्स णं गणंसि पंच वुग्गहट्टाणा पं० तं०-आयरियउवज्झाए णं गणंसि आणं वा धारणं वा नो सम्मं पउंजेत्ता भवति १ आयरियउवज्झाए णं गणसि आधारातिणियाते कितिकम्भं नो सम्मं परंजित्ता भवति २ आयरियउवज्झाते गणंसि जे सुत्तपञ्जवजाते धारेति ते काले २ नो सम्ममनुष्पवातित्ता भवति ३ आयरियउवज्झाए गणंसि गिलाण सेहवेयावच्चं नो सम्मममुट्ठित्ता भवति ४ आयरियउवज्झाते गणंसि अनापुच्छितचारी यावि हवइ नो आपुच्छियचारी ५ ।
आयरियउवज्झायस्स णं गणंसि पंचावुग्गहद्वाणा पं० तं०-आयरियउवज्झाए गणसि आणं वा धारणं वा सम्मं पउंजित्ता भवति, एवमधारायनिताते सम्मं किइकम्मं परंजित्ता भवइ आयरियउवज्झाए णं गणंसि जे सुतपज्जवजाते धारेति ते काले २ सम्म अनुपवाइत्ता भवइ आयरियउवज्झाए गणंसि गिलाणसेहवेयावच्चं सम्मं अब्भुट्ठित्ता भवति आयरियउवज्झाते गणंसि आपुच्छियचारी यावि भवति नो अनापुच्छिचारी
वृ. तथ आचार्योपाध्यायचस्येति समाहारद्वन्द्वः कर्मधारयो वा ततश्चाचार्यस्योपाध्यायस्य
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org