________________
३२१
स्थानं-५, - उद्देशकः-१ वीरासणिए नेसजिए, पंच ठाणाई० भवंति, तं०-दंडायतिते लगंडसाती आतावते अवाउडते अकंडूयते।
घृ.सुगमश्चार्य, नवरंपञ्चसुस्थानकेषु-आख्यानादिक्रियाविशेषलक्षणेषुपुरिमा-भरतैरावतेषु चतुर्विंशतेरादिमास्ते च पश्चिमकाश्च-चरमाः पुरिमपश्चिमकास्तेषां जिनानां-अर्हतां 'दुग्गमति दुःखेन गम्यत इति दुर्गम भावसाधनोऽयं कृच्छ्रवृत्तिरित्यर्थः तद्भवति विनेयानामृजुजडत्वेन वक्रजडत्वेन च, तानि चेमानि तद्यथे' त्यादि, इह चाख्यानं विभजनं दर्शनं तितिक्षणमनुचरणं चेत्येवं वक्तव्येऽपि येषु स्थानेषु कृच्छ्रवृत्तिर्भवति तानि तद्योगात् कृच्छ्रवृत्तीन्येवोच्यन्ते इति कृच्छ्रवृत्तियोतकदुःशब्दविशेषितानि कर्मसाधनशब्दाभिधेयान्याख्यानादीनि विचित्रत्वाच्छब्दप्रवृत्तेराह, 'दुआइक्ख'मित्यादि, तत्र दुराख्येयं-कृच्छ्राख्येयं वस्तुतत्त्वं, विनेयानां महावचनाटोपप्रबोध्यत्वेन भगवतामायासोत्पत्तेरित्येवमाख्याने कृच्छ्रवृत्तिरुक्ता, एवं विभजनादिष्वपिभावनीया, तथा-व्याख्यातेऽपितत्र दुर्विभजं-कष्टविभजनीयं, ऋजुजडत्वादेरेव तद्भावति दुःशङ्कशिष्याणांवस्तुतत्त्वस्य विभागेनावस्थापनमित्यर्थः, दुर्विभवमित्यत्र पाठान्तरे दुर्विभाव्यं दुःशका विभावना कर्तुं तस्येत्यर्थः,
तथा 'दुष्पस्सं'तिदुःखेन दर्श्यते इतिदुर्दर्श, उपपत्तिभिर्दुःशकंशिष्याणा प्रतीतावारोपयितुं तत्त्वमिति भावः, 'दुत्तितिक्खंति दुःखेन तितिक्ष्यते सह्यते इति दुस्तितिक्षं-परीषहादि दुःशक परीषहादिकमुत्पन्नं तितिक्षयितुं, शिष्यं तत्प्रति क्षमां कारयितुमिति भाव इति, 'दुरनुचरं'ति दुःखेनानुचर्यत-अनुष्ठीयत इति दुरनुचरमन्तभूतकारितार्थत्वेन दुःशकमनुष्ठापयितुमित्यर्थः, अथवा तेषां तीर्थे दुराख्येयं दुर्बिभजमाचार्यादीनां वस्तुतत्त्वं शिष्यान् प्रति, आत्मनापि दुर्दशं दुस्तितिक्षं दुरनुचरमित्येवं कारितार्थंविमुच्य व्याख्येयं, तेषामपि ऋजुजडादित्वादिति । मध्यमानांतुसुगमअकृच्छ्रवृत्तिः, तद्विनेयानामृजुप्रज्ञत्वेनाल्पप्कयलेनैव बोधनीयत्वा विहितानुष्ठाने सुखप्रवर्त्तनीयत्वाच्चेति, शेषं पूर्ववत्, नवरमकृच्छ्रार्थविशिष्टता आख्यानादीनां वाच्या,
तथा 'सुरनुचर'न्ति रेफः प्राकृतत्वादिति, नित्यं सदा वर्णितानि फलतः कीर्ततानिसंशब्दितानिनामतः, 'बुइयाई तिव्यक्तवाचोक्तानि स्वरूपतः 'प्रशस्तानि' प्रशंसितानिलाधितानि 'शंसुस्तुता विति वचनात् अभ्यनुज्ञातानि-कर्त्तव्यतया अनुमतानि भवन्तीति, अयंचसूत्रोत्क्षेपः प्रतिसूत्रं वैयावृत्यसूत्रं यावद् दृश्य इति, तत्र क्षान्त्यादयः क्रोधलोभमायामाननिग्रहाः तथा लाघवमुपकरणतो गौरवत्रयत्यागतश्चेति, तथाऽन्यानि पञ्च, सद्भ्यो हितं सत्यम्-अनलीकं, तच्चतुर्विधं, यतोऽवाचि॥१॥ "अविसंवादनयोगः कायमनोवागजिह्मता चैव ।
सत्यं चतुर्विधं तच्च जिनवरमतेऽस्ति नान्यत्र" इति, -तथा संयमनं संयमो-हिंसादिनिवृत्तिः, सच सप्तदशविधः, तदुक्तम्॥१॥ "पुढविदगअगणिमारुय वणप्फइ बितिचउपणिंदि अजीवे ।
पेहोपेहपमजणपरिट्ठवणमणोवई काए" ॥१॥ (अथवा) - "पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः।
दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः" 1321
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org