________________
३२२
स्थानाङ्ग सूत्रम् ५/१/४३०
इति, तथा तप्यतेऽनेनेति तपः, यतोऽभ्यधायि॥१॥ "रसरुधिरमांसमेदोऽस्थिमजशुक्राण्यनेन तप्यन्ते ।
कर्माणि वाऽशुभानीत्यतस्तपो नाम नैरुक्तम."
-तच द्वादशधा, यथाऽऽह-- "अनसनमूनोयरिया वित्तीसंखेवणं रसच्चाओ।
कायकिलेसो संलीणया य बज्सो तवो होइ ।। ॥२॥ पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ
झाणं उस्सग्गोऽविय अमितरओ तवो होइ" इति 'चियाए'त्ति त्यजनं त्यागः-संविग्नैकसाम्भोगिकानां भक्तादिदानमित्यर्थः, गाथे चात्र॥१॥ "तो कयपनक्खाणो आयरियगिलाणबालवुड्ढाणं ।
देजाऽसणाइ संते लाभे कयवीरियायारो ॥२॥ संविग्गअन्नसंभोइयाण दैसिञ्ज सहगकुलाणि ।
अतरंतो वा संभोइयाण देसे जहसमाही" इति ब्रह्मचर्ये-मैथुनविरमणेतेनवावासोब्रह्मचर्यवास इत्येषपूर्वोक्तैः सह दशविधः श्रमणधर्म इति, अन्यत्र त्वयमेवमुक्तः॥१॥ "खंती यमद्दवऽजव मुत्ती तवसंजमे यबोद्धव्वे ।
सच्चं सोयं आकिंचणं च बंभच जइधम्मो " इति इतश्च साधुधर्मभेदस्य बाह्यतपोविशेषस्य वृत्तिस पाभिधानस्य भेदाः 'उक्खत्तचरए'इत्यादिना अभिधीयन्ते, तत्र उत्क्षिप्त-स्वप्रयोजनाय पाकमाजनादुध्धृतंतदर्थमभिग्रहविशेषाचरति-तद्गवेषणाय गच्छतीत्युक्षिप्तचरकः, एवं सर्वत्र, नवरं निक्षिप्तं-अनुध्धृतं अन्ते भवमान्तं-भुक्तावशेषं वल्लादि प्रकृष्टमान्तं प्रान्तं-तदेव पर्युषितं, रूक्ष-निःस्नेहमिति, इह च भावप्रत्ययप्रधानत्वेन उत्क्षिप्तचरकत्वमित्यादिद्रष्टव्यमेवमुत्तरत्रापिभावप्रधानताश्या, इहचाद्यौ भावाभिग्रहावितरे द्रव्याभिग्रहाः, यतोऽभाणि॥१॥ “उक्खित्तमइचरगा भावजुया खलु अभिग्गहा होति।
गायंतो व रुयंतो जं देइ निसण्णमाई वा" ॥२॥ तथा "लेवडमलेवडं वा अमुगंदव्वं च अञ्ज घेच्छामि।
अमुगेण उ दव्वेणं अह दव्वाभिग्गहो नामं" इति एवमन्यत्रापि विशेष ऊह्य इति, अज्ञातः-अनुपदर्शितस्वाजन्यर्द्धिमत्प्रव्रजितादिभावः सन् चरति-भिक्षार्थमटतीत्यज्ञातचरकः, तथा अन्नइलायचरए'त्ति अन्नग्लानको दोषान्नभुगिति भगवतीटीप्पनके उक्तः, एवंविधः सन्, अथवा अनं विना ग्लायकः-समुत्पन्नवेदनादिकारण एवेत्यर्थः अन्यस्मै वा ग्लायकाय भोजनार्थं चरतीति अन्नग्लानकचरकोऽनग्लायकचरकोऽन्यग्लायकचरको वा, क्वचित् पाठः 'अन्नवेल'त्ति तत्रान्यस्या-भोजनकालापेक्षयाऽऽद्यावसानरूपायां वेलायां-समये चरतीत्यादि श्यं, अयंच कालाभिग्रह इति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org