________________
स्थानं - ५, उद्देशक: - १
·
३१९
पर्वतोपरि गृहं कन्दरगृहं गिरिगुहा गिरिकन्दरं वा शान्तिगृहं यत्र राज्ञां शान्तिकर्म-होमादि क्रियते शैलगृहं पर्वतमुत्कीर्य यत्कृतं, उपस्थानगृहं आस्थानमण्डपोऽथवा शैलोपस्थानगृहं पाषाणमण्डपः भवनगृहं यत्र कुटुम्बिनो वास्तव्या भवन्तीति, अथवा शान्त्यादिविशेषितानि भवनानि गृहाणि च, तत्र भवनं चतुःशालादि गृहं तु-अपवरकादिमात्रं ते, सन्निक्षिप्तानि त्यस्तानि दृष्ट्वा क्षुभ्येद् अदृष्टपूर्वतया विस्मयाल्लोभाद्वेति, 'इच्चेएही' त्यादि निगमनमिति । केवलज्ञानदर्शनं तु न स्कम्नीयात् केवली वा याथाल्येन वस्तुदर्शनात् क्षीणोहनीयत्वेन भयविस्मयलोभाद्यभावेन अतिगम्भीरत्वाच्चेति, अत आह- 'पंचही 'त्यादि सुगममिति ।
तथा नारकादिशरीराणि बीभत्सान्युदाराणि च दृष्ट्वाऽपि न केवलदर्शनं स्कभ्नातीति शरीरप्ररूपणाय 'नेरइयाण'मित्यादि सूत्रप्रपञ्चः
मू. (४२९) नेरइयाणं सरीरगा पंचवन्ना पंचरसा पं० तं० किण्हा जाव सुकिल्ला, तित्ता जाव मधुरा, एवं निरंतरं जाव वेमाणियाणं । पंच सरीरगा पं० तं०- ओरलिते वेउव्विते आहारते तेयते कम्मते, ओरालितसरीरे पंचवने पंचरसे पं० तं० किण्हे जाव सुक्किल्ले तित्ते जाव महुरे, एवं जाव कम्मगसरीरे, सव्वेविणं बादरबोंदिधरा कलेवरा पंचवत्रा पंचरसा दुगंधा अट्ठफासा ।
वृ. गतार्थश्चायं, नवरं पञ्चवर्णत्वं नारकादिवैमानिकान्तानां शरीराणां निश्चयनयात्, व्यवहारतस्तु एकवर्णप्राचुर्यात् कृष्णादिप्रतिनियतवर्णतैवेति, 'जाव सुकिल्ल'त्ति किण्हा नीला लोहिता हालिद्दा सुकिल्ला 'जाव महुर' त्ति तित्ता कडुया कसाया अंबिला महुरा 'जाव वेमाणियाणं' ति चतुर्विंशतिदण्डकसूत्रम् । 'सरीर' त्ति उत्पत्तिसमयादारभ्य प्रतिक्षणमेव शीर्यत इति शरीरं, 'ओरालिय'त्ति उदारं- प्रधानं उदारमेवैौदारिकं, प्रधानता चास्य तीर्थकरादिशरीरापेक्षया, न हि ततोऽन्यत् प्रधानतरमस्ति, प्राकृतत्वेन च ओरालियंति १, अथवा उरालं नाम विस्तरालं विशालं सातिरेकयोजन सहस्त्रप्रमाणत्वादस्य अन्यस्य चावस्थितस्यैवमसम्भवात्, उक्तञ्च - "जोयणसहस्समहियं ओहे एगिंदिए तरुगणेसु ।
॥१॥
मच्छजुयले सहस्सं उरेसु य गब्मजाएसु " इति
वैक्रियस्य लक्षप्रमाणत्वेऽप्यनवस्थितत्वात्, तदेव ओरालिकं २, अथवा उरलमल्पप्रदेशोपचितत्वादूबृहत्त्वाच्च भिण्डवदिति तदेव ओरालिकं निपातनात् ३, थवा ओरालंमांसास्थिस्नाय्वाद्यवबद्धं तदेव ओरालिकमिति ४, उक्तञ्च
119 11 " तत्थोदार १ मुरालं २ उरलं ३ ओरालमहव ४ विज्ञेयं ।
ओदारियंति पढमं पडुच्च तित्थेसरसीरं भन्नइय तहोरालं वित्थरवंतं वणस्सई पप्प । पगईए नत्थि अनं एद्दमत्तं विसालंति उरलं थेवपएसोवचियंपि महल्लगं जहा भिंडं । मंसहिहारुबद्धं ओरालं समयपरिभासा इति ।
119 11
'वेउब्विय'त्ति विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रियं, उक्तं च"विविहा व विसिट्ठा वा किरिया विक्किरिय तीए जं भवं तमिह । वेडव्वियं तयं पुण नारगदेवाण पगईए "इति,
For Private & Personal Use Only
॥२॥
॥३॥
Jain Education International
www.jainelibrary.org