SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् ४/४/३८१ तथा सम्मुह्यतीति सम्मोहः- मूढात्मा देवविशेष एव तद्भावस्तत्ता तस्यै सम्मोहतायै सम्मोहत्वाय सम्मोहतया वेति, उन्मार्गदेशनया सम्यग्दर्शनादिरूपभावमार्गातिक्रान्तधर्म्मप्रथनेन मार्गान्तरायेण मोक्षाध्वप्रवृत्ततद्विधकरणेन, कामाशंसाप्रयोगेण शब्दादावभिलाषकरणेन, 'भिज्ज' त्ति लोभो गृद्धिस्तेन निदानकरणं एतस्मात्तपः प्रभृतेश्चक्रवत्यादित्वं मे भूयादिति निकाचनाकरणं तेनेति, इयमप्येवमन्यत्र || 9 || “उम्मग्गदेसओ मग्गनासओ मग्गविप्पडीवत्ती । मोहेण य मोहेत्ता संमोहं भावणं कुणइ' इति, देवानां मध्ये किल्बिषः पापोऽत एवास्पृश्यादिधर्म्मको देवश्चासी किल्बिषश्चेति वा देवकिल्विषः शेषं तथैव, अवर्णः - अश्लाधा असद्दोषोद्घट्टनमित्यर्थः, अयमर्थोऽन्यत्रैवमुच्यते"नाणस्स केवलीणं धम्मायरिआण सव्वसाहूणं । भासं अवन्नमाई किब्बिसियं भावणं कुणइ इति ॥ 11911 इह कन्दर्पभावना नोक्ता चतुःस्थानकत्वादिति, अवसरञ्चायमस्या इति सा प्रदर्श्यते119 11 "कंदप्पे कुक्कुडए दवसीले यावि हासणकरे य । विम्हाविंतो य परं कंदप्पं भावणं कुणइ" इति, अयञ्चापध्वंसः प्रव्रज्यान्वितस्येति प्रव्रज्यानिरूपणाय 'चउव्विहा पव्वज्ञे' त्यादि सूत्राटकंमू. (३८२) चउव्विहा पव्वज्जा पं० तं० - इहलोगपडिबद्धा परलोकपडिबद्धा दुहतो लोगपडिबद्धा अप्पडिबद्धा १, चउव्विहहा पव्वज्जा पं० तं० - पुरओपडिबद्धा मग्गओपडिबद्धा दुहतो पडबद्धा अपविद्धा २, चउव्विहपव्वज्जा पं० तं० - ओवायपव्वज्जा अक्खातपव्वज्जा संगारपव्वज्जा विहगगइपव्वज्जा ३, चउव्विहा पव्वज्जा पं० तं० - तुयावइत्ता पुयावइत्ता भोयावइत्ता पूरिपूयावइत्ता ४, । २९८ चउव्विहा पव्वज्जा पं० तं० - नडखइया भडखइया सीहखइया सियालक्खइया ५, चउव्विहा किसी पं० तं०- वाविया परिवाविया निंदिता परिनिंदिता ६, एवामेव चडव्विहा पव्वज्जा पं० तं०-वाविता परिवाविता निंदिता परिनिंदिता ७, चउव्विहा पव्वज्जा पं० तं० धन्नपुंजित समाणा धन्नविरल्लितसमाणा धन्नविक्खित्तसमाणा धन्नसङ्कट्टितसमाणा ८, । वृ. कण्ठ्यं, किन्तु इहलोकप्रतिबद्धा निर्वाहादिमात्रार्थिनां परलोकप्रतिबद्धा जन्मान्तरकामाद्यर्थिनां द्विधालोकप्रतिबद्धोभयार्थिनां अप्रतिबद्धा विशिष्टसामायिकवतामिति । पुरतः - अग्रतः प्रव्रज्यापर्यायभाविषु शिष्याहारादिषु या प्रतिबद्ध सा तथोच्यते, एवं मार्गतःपृष्ठतः स्वजनादिषु, द्विधाऽपि काचित्, अप्रतिबद्धा पूर्ववत् । 'ओवाय'त्ति अवपातः सद्गुरूणां सेवा ततो या प्रव्रज्या साऽवपातप्रव्रज्या, आख्यातस्य प्रव्रजेत्याद्युक्तस्य या स्यात् साऽऽख्यातप्रव्रज्या आर्यरक्षितभ्रातुः फल्गुरक्षितस्येवेति, 'संगार' त्ति सङ्केतस्तस्माद्या सा तथा मेतार्यादीनामिव यदिवा यदि त्वं प्रव्रजसि तदाऽहमपीत्येवं सङ्केततो या सा तथेति, 'विहगगइ' त्ति विहगगत्या पक्षिन्यायेन परिवारादिवियोगेनैकाकिनो देशान्तरगमनेन च या सा विहगगतिप्रव्रज्या, क्वचिद् 'विहगपव्वङ्गे' ति पाठस्तत्र विहगस्ये वेति दृश्यमिति, विहतस्य वा दारिद्यादिभिररिभिर्वृति 'तुयावइत्त' त्ति तोदं कृत्वा तोदयित्वा व्यथामुत्पाद्य या प्रव्रज्या दीयते मुनिचन्द्रपुत्रस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy