________________
स्थान - ४, - उद्देशकः -४
२९७ नवरं राक्षसो-व्यन्तरविशेषः, चतुर्भङ्गिकासूत्राणि देवासुरेत्येवमादिसंयोगतः षड् भवन्ति!
मू. (३८१) चउविहे अवद्धंसे पं० तं०-आसुरे आभिओगे संमोहे देवकिब्बिसे चउहिं ठाणेहिं जीवा आसुरत्ताते कम्मं पगरेति, तं०-कोवसीलताते पाहुडसील याते संसत्ततवोकम्मेणं निमित्ताजीवयाते, चउहि ठाणेहिं जीवा आभिओगतातेकम्मंपगरेतितं०-अत्तुकोसेणंपरपरिवातेणं भूतिकम्मेणं कोउयकरणेणं, चउहि ठाणेहिं जीया सम्मोहत्ताते कम्मं पगरेति, तं०-उम्मग्गदेसणाए मग्गंतराएणं कामासंसपओ गेणं भिजानियाणकरणेणं, चउहि ठाणेहिं जीवा देवकिब्बिसियत्ताते कम्मं पगरेंतितं०-अरहताणं अवनं वयमाणे अरहंतपन्नत्तस्स धम्मस्स अवनं वयमाणे आयरियउवज्झायाणमवत्रं वदमाणे चाउवनस्स संघस्स अवन्नं वदमाणे।
वृ. पुरुषक्रियाधिकारादेवापध्वंससूत्रं तत्रापध्वंसनमपध्वंसः-चारित्रस्य तत्फलस्य वा असुरादिभावनाजनितो विनाशः, तत्रासुरभावनाजनितआसुरः, येषुवाऽनुष्ठानेषुवर्तमानोऽसुरत्वमर्जयति तैरात्मनो वासनमासुरभावना,एवं भावनान्तरमपि, अभियोगभावनाजनित आभियोगः, सम्मोहभावनाजनितःसाम्मोहः, देवकिल्बिषभावनाजनितोदैवकिल्बिषइति, इहचकन्दर्पभावनाजनितः कान्दोऽपध्वंसः पञ्चमोऽस्ति, सच सन्नपि नोक्तः, चतुःस्थानकानुरोधाद्, भावना हि पञ्चागमेऽभिहिताः, आह च॥१॥ "कंदप्प १ देवकिव्विस २ अभिओगा ३ आसुरा य ४ संमोहा ५।
एसा उ संकिलिट्ठा पंचविहा भावणा भणिया " आसाञ्च मध्ये यो यस्यां भावनायां वर्ततेसतद्विधेषुगच्छतिचारित्रलेशप्रभावाद्, उक्तञ्च॥१॥ “जो संजओऽवि एयासु अप्पसत्थासु वट्टइ कहंचि ।
सो तविहेसु गच्छइ सुरेसु भइओ चरणहीणा" इति, आसुरादिरपध्वंस उक्तः, स चासुरत्वादिनिबन्धन इत्यसुरादिभावनास्वरूपभूतान्यसुरादित्वसाधनकर्मणां कारणानि सूत्रचतुष्टयेनाह
'चउहि ठाणोही'त्यादि कण्ठ्यं, नवरं असुरेषुभव आसुरः-असुरविशेषस्तद्मावः आसुरत्वं तस्मै आसुरत्वायतदर्थमित्यर्थः, अथवा असुरतायै असुरतया वा कर्म-तदायुष्कादि प्रकुर्वन्तिकर्तुमारभन्ते, तद्यथा-क्रोधनशीलतया-कोपस्वभावत्वेन प्राभृतशीलतया-कलहनसम्बन्धतया संसक्ततपःकर्मणा-आहारोपधिशय्यादिप्रतिबद्धभावतपश्चरणेन निमित्ताजीवनतयाकालिकलाभालाभादिविषयनिमित्तोपात्ताहाराद्युपजीवनेनेति, अयमर्थोऽन्यत्रैवमुक्त॥१॥ "अनुबद्धविग्गहोविय संसत्ततवो निमित्तमाएसी।
निक्किवनिरानुकंपो आसुरियं भावणं कुणइ" इति, तथाअभियोग-व्यापारणमर्हन्तीत्याभियोग्याः-किङ्करदेवविशेषास्तद्मावस्तत्तातस्यै तया वेति, आत्मोत्कर्षण-आत्मगुणाभिमानेन परपरिवादेन-परदोषपरिकीर्तनेन भूतिकर्मणांज्वरितादीनांभूत्यादिभीरक्षादिकरणेन कौतुककरणेन-सौभाग्यादिनिमित्तंपरस्नपनकादिकरणेनेति, इयमप्येवमन्यत्र॥१॥ “कोउय भूईकम्मे पसिणा इयरे निमित्तमाजीवी।
इतिरससायगरुओ अभिओगंभावणं कुणइ इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org