________________
स्थानं ४, - उद्देशक: ४
-
२९९
सागरचन्द्रेणेव सा तथोच्यते, 'उयावइत्त' त्ति क्वचित्पाठस्तत्र ओजो बलं शारीरं विद्यादिसत्कं वा तत्कृत्वा प्रदर्श्य या दीयते सा ओजयित्वेत्यभिधीयते, 'पुयावइत्त' त्ति 'लुङ्गता' विति वचनात् प्लावयित्वा अन्यत्र नीत्वाऽऽर्यराक्षितवत्पू, तं वा दूषणव्यपोहेन कृत्वा या सा पूतयित्वेति, 'वुयावइत्त' ति सम्भाष्य गौतमेन कर्षकवत्, वचनं वा पूर्वपक्षरूपं कारयित्वा निगृह्य च प्रतिज्ञावचनं वा कारयित्वा या सा तथोक्ता, क्वचित् 'मोयावइत्त' त्ति पाठस्तत्र मोचयित्वा साधुना तैलार्थदासत्वप्राप्तभगिनीवदिति, 'परिवुयावइत्त' त्ति घृतादिभिः परिप्लुतभोजनः परिप्लुत एव तं कृत्वा परिप्लुतयित्वा सुहस्तिना रङ्कवत् या सा तथोच्यत इति ।
नटस्येव संवेगविकलधर्म्मकथाकरणोपार्जितभोजनादीनां 'खइय'त्ति खादितं भक्षणं यस्यां सा नटखादिता, नटस्येव वा ‘खइव' त्ति संवेगशून्यधर्मकथनलक्षणो हेवाकः स्वभावो यस्यां सा तथा, एवं भटादिष्वपि, नवरं भट" तथाविधबलोपदर्शनलब्धभोजनादेः खादिता आरभटवृत्तिलक्षहेवाको वा सिंहः पुनः शौर्यातिरेकादवज्ञयोपात्तस्य यथारब्धभक्षणेन वा खादिता तथाविधप्रकृतिर्वा श्रृ गालस्तु न्यग्वृत्तोयपात्तस्यान्यान्यस्थान भक्षणेन वा खादिता तत्स्वभावो वेति । कृषिः धान्यार्थं क्षेत्रकर्षणम्, 'वाविय'त्ति सकृद्धान्यवपनवती 'परिवाविय'त्ति द्विस्त्रिर्वा उत्पाट्य स्थानान्तरारोपणतः परिवपनवती शालिकृषिवत्, 'निंदिय'त्ति एकदाविजातीयतृणाद्यपनयनेन शोधिता निदाता, 'परिनिंदिय'त्ति द्विस्त्रिर्वा तृणादिशोधनेनेति,
प्रव्रज्या तु वाविया सामायिकारोपणेन परिवाविया महाव्रतारोपणेन निरतिचारस्य सातिचारस्य वा मूलप्रायश्चित्तदानतः, निन्दिया सकृततिचाकालोचनेन परिनिंदिया पुनः पुनरिति 'धन्नपुंजियसमाण 'त्ति खले लूनपूनविशुद्धपुञ्जीकृतधान्यसमाना सकलातिचारकचवरविहेण लब्धस्वस्वभावत्वात् एका, अन्या तु खलक एव यद्विरेल्लितं-विसारितं वायुना पूनमपुञ्जीकृतं धान्यं तत्समाना या हि लघुनापि यत्नेन स्वस्वभावं लप्स्यत इति, अन्या तु यद्विकीर्णं- गोखुरक्षुन्नतया विक्षिप्तं धान्यं तत्समाना या हि सहजसमुत्पन्नातिचारकचवरयुक्तत्वात् सामग्ग्रन्तरापेक्षितया कालक्षेपलभ्यस्वस्वभावा सा धान्यविकीर्णसमानोच्यते, अन्या तु यत्सङ्कर्षितं - क्षेत्रादाकर्षितं खलमानीतं धान्यं तत्समाना या हि बहुतरातिचारोपेतत्वाद् बहुतरकालप्राप्तव्यस्वस्वभावा सा धान्यसङ्कर्षितसमानेति, इह च पुञ्जितादेर्धान्यविशेषणस्य परनिपातः प्राकृतत्वादिति ।।
इयञ्च प्रव्रज्या एवं विचित्रा संज्ञावशाद्मवतीति संज्ञानिरूपणाय सूत्रपञ्चकं
मू. (३८३) चत्तारि सन्नाओ पं० तं०- आहारसन्ना भयसन्ना मेहुणसन्ना परिग्गहसन्ना १, चउहिं ठाणेहिं आहारसन्ना समुप्पजति, तं० ओमकोट्टताते १ छुहावेयणिजस्स कम्मस्स उदएणं २ मतीते ३ तदट्ठीवओगेणं ४, २, चउहिं ठाणेहिं भयसना समुप्पज्जति, तं०-हीनसत्तत्ताते भयवेयणिज्जस्स कम्मस्स उदएणं मतीते तदट्ठोवओगेणं ३, चउहिं ठाणेहिं मेहुणसन्ना समुप्पञ्जति, तं० - चितमंससोणिययाए मोहणिज्जस्स कम्मस्स उदएणं मतीते तदट्टोव ओगेणं ४, चउहिं ठाणेहिं परिग्गहसन्ना समुप्पज्जइ, तं०-अविमुत्तयाए लोभवेयणिज्जस्स कम्पस्स उदएणंमतीते तदट्टोव ओगेणं
५/
}
7
वृ. 'चत्तारी' त्यादि व्यक्तं केवलं संज्ञानं संज्ञा - चैतन्यं तच्चासातवेदनीयमोहनीयकर्म्मोदयजन्यविकारयुक्तमाहारसंज्ञादित्वेन व्यपदिश्यत इति, तत्राहारसंज्ञा - आहाराभिलाषः
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International