________________
२९४
स्थानाम सूत्रम् ४/४/३७२ बहलच्छायत्वासेव्यत्वादयो यस्य सः शालपर्याय इत्येकः, शालो नामैक इति तथैव एरण्डस्येव पर्याया धर्माअबहलच्छावत्वाऽऽसेव्यत्वादयो यस्यसएरण्डपर्याय इति द्वितीयः, एरण्डोनामैक एरण्डाभिधानवृक्षजातीयत्वात्सालपर्यायोबहलच्छायत्वादिधर्ममयुक्तत्वादितितृतीयः, एरण्डो नामैकस्तथैव एरण्डपर्यायः अबहलच्छायत्वाघेरण्डधर्मयुक्तत्वादिति चतुर्थः १८, आचार्यस्तु साल इवसालोयथाहि सालोजातिमानेवमाचार्योऽपियः सत्कुलः सद्गुरुकुलश्चससालएवोच्यते तथा सालपर्यायः-सालधर्मा यथा हि सालः सच्छायत्वादिधर्मयुक्त एवं यो ज्ञानक्रियाप्रभवयशःप्रभृतिगुणयुक्तो भवति स तथोच्यते इत्येकः, तथा सालो नामैक इति तथैव एरण्डपर्यायस्तूक्तविपर्ययादिति द्वितीयः, एवमितरावपीति १९,तथा सालस्तथैवसाल एव परिवारः-परिकरो यस्य स सालपरिवारः, एवं शेषत्रयमिति २०, आचार्यस्तुसाल इवसालो गुरुकुलश्रुतादिभिरुत्तमत्वात्सालपरिवारःसालकल्पमहानुभावसाधुपरिकरत्वात्, तथा एरण्डपरिवारः एरण्डकल्पनिगुणसाधुपरिकरत्वात् एवमेरण्डोऽपि श्रुतादिमिहीनत्वादिति, चतुर्थः सुज्ञानः, उक्तचतुर्भङ्गया एव भावनार्थ 'सालदुमे'त्यादि गाथाचतुष्कं, व्यक्तं नवरं मङ्गुलम्-असुन्दरं २१,
मू. (३७६) चत्तारि गच्छा पं० तं०-अनुसोयचारी पडिसोयचारी अंतचारी मज्झचारी, २२ एवामेव चत्तारि भिक्खागा पं० २०-अणुसोयचारी पडियोचारी अंतचारी मज्झचारी, २३ चत्तारिगोलापं० २०-मधुसित्थगोलेजउगोलेदारुगोलेमट्टियागोले, २४एवामेवचत्तारिपुरिसजाया पं० २०-मधुसित्थगोलसमाणे४,२५ चत्तारिगोलापं० तं०-अयगोलेतउगोले तंबगोले सीसगोले, २६ एवामेव चत्तारि पुरिसजाया पं० तं०-अयगोलसमाणे जाव सीसगोलसमाणे, २७ चत्तारि गोला पं० २०-हिरनगोले सुवन्नगोले रयणगोले वयरगोले, २८ एवामेव चत्तारिपुरिसजाया पं० तं०-हिरनगोलसमाणेजाव वइरगोलसमाणे, २९ चत्तारिवत्तापं०२०-असिपत्ते करपत्तेखुरपत्ते कलम्बचीरितापत्ते, ३० एवामेव चत्तारि पुरिसजाया पं० तं०-सुंब कडे विदलकडे चम्मकडे कंबलकडे, ३२ एवामेव चत्तारिपुरिसजायापं० २०-सुंबकडसमाणेजाव कंबलकडसमाणे ३३
वृ.अनुश्रोतसाचरतीत्यनुश्रोतश्चारी-नद्यादिप्रवाहगामीएवमन्ये त्रयः२२,एवं भिक्षाकःसाधुः, यो ह्यभिग्रहविशेषादुपाश्रयसमीपात्क्रमेण कुलेषुभिक्षतेसोऽनुश्रोतश्चारिमत्स्यवदनुश्रोतथारी प्रथमो, यस्तूक्रमेण गृहेषु भिक्षमाण उपाश्रयमायाति स द्वितीयो, यस्तु क्षेत्रान्तेषुभिक्षतेस तृतीयः, क्षेत्रमध्येचतुर्थः,२३, मधुसित्थु-मदनंतस्य गोलो-वृत्तपिण्डोमधुसित्यगोल एवमन्येऽपि, नवरंजतु-लाक्षा दारुमृत्तिके प्रसिद्ध इति २४, यथैते गोला मृदुकठिनकठिनतरकठिनतमाः क्रमेण भवन्त्येवं ये पुरुषाः परीषहादिषु मृदुढढतरढतमसत्वा भवन्ति ते मधुसित्थगोलसमाना इत्यादिभिव्यपदेशैव्यपदिश्यन्तइति २५, अयोगोलादयः प्रतीताः २६, एतैश्चायोगोलकादिभिः क्रमेणगुरुगुरतरगुरुतमात्यन्तगुरुभिः आरम्भादिविचित्रप्रवृत्युपार्जितकर्मभाराये पुरुषा भवन्ति तेऽयोगोलसमाना इत्यादिव्यपदेशवन्तो भवन्ति पितृमातपुत्रकलत्रगतसनेहभारतो वेति २७,
__ हिरण्यादिगोलेषुक्रमेणाल्पगुणगुणाधिकगुणाधिकतरगुणाधिकतमेषुपुरुषाः समृद्धितो ज्ञानादिगुणतो वा समानतया योज्याः २८, पत्राणि-पर्णानि तद्वतनुतया यानि अस्यादीनि तानि पत्राणीति, असिः-खगः स एव पत्रमसिपत्रं करपत्रं-क्रकचं येन दारु छिद्यते सुर-छुरःस एव पत्रंक्षुरपत्रं, कदम्बचीरिकेति शस्त्रविशेष इति २९, तत्र द्राक्छेदकत्वादसेर्यः पुरुषो द्रागेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org