________________
२८८
स्थानाङ्ग सूत्रम् ४/४/३६६
॥२॥ दक्षो १ विज्ञातशास्त्रार्थो २, टेष्टका ३ शुचि ४ भिषक् ।
बहुकल्पं १ बहुगुणं २, सम्पन्नं ३ योग्यमौषधम् ४ ॥३॥ अनुरक्तः १ शुचि २ दक्षो ३, बुद्धिमान् ४ परिचारकः।
आढ्यो १ रोगी भिषग्वश्यो २, ज्ञापकः ३ सत्ववानपि ४"
-इति, इयं द्रव्यरोगचिकित्सा मोहभावरोगचिकित्सा त्वेवं,-- ॥१॥ __ निविगइ निब्बलोमे तउद्धट्ठाणमेव उब्मामे ।
वेयावच्चाहिंडण मंडलि कप्पट्टियाहरणं" इति चिकित्सका द्रव्यतो ज्वरादिरोगान् प्रति भावतो रागादीन् प्रतीति, तत्रात्मनो ज्वरादेः कामादेर्वा चिकित्सकः-प्रतिकर्तेत्यात्मचिकित्सक इति।अथात्मचिकित्सकान्भेदतः सूत्रत्रयेणाह
___ 'चत्तारित्यादिकण्ठ्यं, नवरंव्रणं देहे क्षतस्वयं करोतिरुधिरादिनिर्गालनार्थमितिव्रणकरो नो-नैव व्रणं परिमृशतीत्येवंशीलो व्रणपरिमीत्येकः, अन्यस्त्वन्यकृतं व्रणं परिमृशति न च तत् करोतीति, एवं भावव्रणं-अतिचारलक्षणं करोति कायेन न च तदेव परिमृशति-डसपुनः पुनः संस्मरणेन स्पृशति, अन्यस्तु तत्परिमृश्यत्यभिलाषान्न च करोति कायतः संसारभयादिभिरिति, व्रणं करोति न च तत्पट्टबन्धादिना संरक्षति, अन्यस्तु कृतं संरक्षति न च करोति, भावव्रणं त्वाश्रित्यातिचारंकरोतिनचतंसानुबन्धं भवन्तंकुशीलादिसंसर्गतन्निदानपरिहारतोरक्षत्येकोऽन्यस्तु पूर्वकृतातिचारंनिदानपरिहारतो रक्षति नवंचन करोति, 'नो' नैव व्रणं संरोहयत्यौषधदानादिनेति व्रणसरोही, भावव्रणापेक्षया तु नो व्रणरोही प्रायश्चित्ताप्रतिपत्तेः, व्रणरोही पूर्वकृतातिचारप्रायश्चित्तप्रतिपत्त्या, नो व्रणकरोऽपूर्वातिचाराकारित्वादिति । उक्ता आत्मचिकित्सकाः, अथ चिकित्स्यं व्रणं दृष्टान्तीकृत्य पुरुषभेदानाह
'चत्तारी' त्यादि चतुःसूत्री, सुगमा, नवरं, अन्तः-मध्ये शल्यं यस्य अदृश्य मानमित्यर्थः तत्तथा, 'बाहिं सल्ले'त्ति यच्छल्यं व्रणस्यान्तरल्पं बहिस्तु बहु तबहिरिव बहिरित्युच्यते, अन्तो बहिः शल्यं यस्य तत्तथा, यदि पुनः सर्वथैव तत्ततोबहिः स्यात् तदा शल्यतैवन स्याद्, उध्धृ तत्वे वा भूतभावितया स्यादपीति २, यत्र पुनरन्तर्बहु बहिरप्युपलभ्यते तदुभयशल्यं ३ चतुर्थः शून्य इति४,गुरुसमक्षमनालोचितत्वेनान्तःशल्यम्-अतिचाररूपंयस्य सतथा, बहिःशल्यंआलोचिततया यस्य तत्तथा, अन्तर्बहिश्च शल्यमालोचितानालोचितत्वेन यस्य स तथा, चतुर्थः शून्यः । अन्तर्दुष्टं व्रणंलूतादिदोषतः,नबही रागाद्यभावेन सौम्यत्वात्४, पुरुषस्तुअन्तर्दुष्टः शठतया संवृताकारत्वान्न बहिरित्येकः, अन्यस्तु कारणेनोपदर्शितवाक्पारुष्यादित्वाबहिरिवेति।
पुरुषाधिकारात् तद्देतप्रतिपादनाय षट्सूत्री कण्ठ्या च, किन्तु अतिशयेन प्रशस्यः श्रेयानेकः प्रशस्यभावः सद्बोधत्वात् पुनःश्रेयान्प्रशस्तानुष्ठानत्वात् साधुवदित्येकः १ अन्यस्तु श्रेयांस्तथैव अतिशयेनपापः पापीयान्, सचाविरतत्वेन दुरनुष्ठायित्वादिति २ अन्यस्तु पापीयान् भावतो मिथ्यात्वादिभिरुपहतत्वात् कारणवशात् सदनुष्ठायित्वाच श्रेयान् उदायिनृपमारकवत् ३चतुर्थःसएव कृतपाप इति४,अथवा श्रेयान्गृहस्थत्वे निष्क्रमणकालेवापुनःश्रेयान्प्रव्रज्यायां विहारकाले वेत्येवमन्येऽपि । श्रेयानेको भावतो द्रव्यतस्तु श्रेयान्प्रशस्यतर इत्येवंबुद्धिजनकत्वेन सध्शकः-अन्येन श्रेयसा तुल्यो न तु सर्वथा श्रेयानेवेत्येकः १, अन्यस्तु भावतः श्रेयानपिद्रव्यतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org