________________
स्थानं-४, - उद्देशकः-४
२८९ पापीयानित्येवंबुद्धिजनकत्वेन सशकः-अन्येन पापीयसा समानो न तु पापीयानेवेति द्वितीयः २, भावतः पापीयानप्यन्यः संवृताकारतया श्रेयानित्येवंबुद्धिजनकतया सध्शकोऽन्येन श्रेयसेति तृतीयः, चतुर्थः सुज्ञानः।
श्रेयानेकः सद्वृत्तत्वात्श्रेयानित्येवमात्मनांमन्यतेयथावद्वोधात्लोकेन वामन्यते विशदसदनुष्ठानाद, इहचमन्निज्जइत्तिवक्तव्ये प्राकृतत्वेनमन्नईत्युक्तम्, श्रेयानप्यन्य आत्मन्यरुचिपरायणत्वातपापीयानित्यात्मानं मन्यते, स एव वा पूर्वोपलब्धतदोषेण जनेन मन्यते ढप्रहारिवत् । पापीयानप्यपरो मिथ्यात्वाधुपहततया श्रेयानित्यात्मानं मन्यते, कुतीर्थिकवत्, तद्मक्तेन वेति २, पापीयानन्योऽविरतिकत्वात् पापीयानित्यात्मानं मन्यते, सद्बोधत्वात्, असंयतोवा मन्यते, संयतलोकेनेति३, श्रेयानेको भावतोद्रव्यतस्तुकिञ्चित्सदनुष्ठायित्वात् श्रेयानित्येवंविकल्पजनकत्वेन सशकोऽन्येन श्रेयसा मन्यते-ज्ञायते जनेनेति विभक्तिपरिमणामाद्वा सशकमात्मानं मन्यत इति एवं शेषाः ४, 'आघवइत्ते'ति आख्यायकः-प्रज्ञापकः प्रवचनस्य एकः-कश्चिन्न च प्रविभावयिताप्रभावयिता प्रभावकः शासनस्य उदारक्रियाप्रतिभादिरहितत्वात् प्रविभाजयिता वाप्रवचनार्थस्य नयोत्सर्गादिभिर्विवेचयितेति, अथवा आख्यायकः सत्रस्य प्रविभावयिता प्रविभाजयिता वाऽर्थस्येति । आख्यायकएकः सूत्रार्थस्यनचोज्छजीविकासम्पन्नो नैषणादिनिरत इत्यर्थः, स चापद्वतः संविग्नः संविग्नपाक्षिको वा, यदाह॥१॥ "होज हु वसणं पत्तो सरीरदुब्बल्लयाए असमत्यो ।
चरणकरणे असुद्धे सुद्धं मग्गं परूवेजा" ॥२॥ तथा - "ओसन्नोऽवि विहारे कम्मं सिढिलेइ सुलहबोही य।
चरणकरणं विसुद्धं उववूहंतो परवेंतो" इत्येकः द्वितीयो यथाच्छन्दः तृतीयः साधुः चतुर्थो गृहस्थादिरिति, पूर्वसूत्रे साधुलक्षणपुरुषस्याख्यापकत्वोञ्छजीविकासम्पन्नत्वलक्षणा गुणविभूषोक्ता अधुना तत्साम्यावृ. क्षविभूषामहा-'चउविहे' त्यादि, अथवा पूर्वमुञ्छजीविकासंपन्नः साधुपुरुष उक्तः, तस्य च वैक्रिय-लब्धिमतस्तथाविधप्रयोजने वृक्ष विकुर्वतोयद्विधा तद्विक्रिया स्यात्तमाह-'चउबिहे त्यादि पातनयैवोक्तार्थं, नवरं 'प्रवालतये'ति नवाङ्कुरतयेत्यर्थः
एते हि पूर्वोक्ता आख्यायकादयः पुरुषास्तीर्थिका इति तेषां स्वरूपाभिधानायाह
मू. (३६७) चत्तारिवातिसमोसरणा पं०२०-किरियावादीअकिरियावादी अन्नणितावादी वेणतियावादी । नेरइयाणं चत्तारि वादिसमोसरणा पं० २०-किरियावादी जाव वेणतितवादी, एवमसुरकुमाराणवि जाव थणियकुमाराणां एवं विगलिंदियवझंजाव वेमाणियाणं।
वृ. वादिनः-तीर्थिकाः समवसरन्ति-अवतरन्त्येष्विति समवसरणानि-विविधमतमीलकास्तेषांसमवसरणानि वादिसमवसरणानि, क्रियां-जीवाजीवादिरर्थोऽस्तीत्येवंरूपांवदन्तीति क्रियावादिनआस्तिका इत्यर्थः तेषांयत्समवसरणंतत्तएवोच्यन्ते अभेदादिति, तनिषेधादक्रियावादिनो-नास्तिका इत्यर्थः, अज्ञानमभ्युपगमद्वारेण येषामस्ति ते अज्ञानिकाः त एव वादिनोऽज्ञानिकवादिनः, अज्ञानमेव श्रेय इत्येवंप्रतिज्ञा इत्यर्थः, विनय एव वैनयिकं तदेव निःश्रेयसायेत्येवंवादिनो वैनयिकवादिन इति, एतद्भेदसङ्ख्या चेयं
13197
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org