________________
स्थानं - ४, “ उद्देशक:- -४
-: स्थानं-४ - उद्देशक:-४
वृ. व्याख्यातस्तृतीयोद्देशकः, तदनन्तरंचतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशके विविधा भावाश्चतुः स्थानकतयोक्ता इहापि त एव तथैवोच्यन्त इत्येवंसम्बन्धस्यास्योद्देशकस्येदमादिसूत्रं -
२८५
मू. (३६२) चत्तारि पसप्पगा पं० तं० - अनुप्पन्नाणं भोगाणं उप्पाएता एगे पसप्पए पुव्युप्पन्नाणं भोगाणं अविप्पतोगेणं एगे पसप्पते अनुप्पन्नाणं सोक्खाणं उप्पाइत्ता एगे पसप्पए पुव्युप्पन्नानं सोक्खाणं अविप्पओगेणं एगे पसप्पए ।
बृ. 'चत्तारि पसप्पगे' त्यादि, अस्य चानन्तरसूत्रेण सहायं सम्बन्धः - अनन्तरसूत्रे देवा देव्यश्च निर्दिष्टाः, ते च भोगवन्तः सुखिताश्च भवन्तीति भोगान् सुखानि चाश्रित्य प्रसर्प्यकभेदाभिधानायेदमुच्यते, इत्येवंसम्बन्धस्यास्य व्याख्या प्रकर्षेण सर्पन्ति गच्छन्ति भोगाद्यर्थं देशानुदेशं सञ्चरन्ति आरम्भपरिग्रहतो वा विस्तारं यान्तीति प्रसपकाः, 'अनुष्पन्नाणं' ति द्वितीयार्थे षष्ठीति अनुत्पन्नान्असम्पन्नान् भोगान्-शब्दादीन् तत्कारणद्रविणाङ्गनादीन् वा 'उप्पाइत्त' त्ति उत्पादयितुं सम्पादनाय अथवाऽनुत्पन्नानां भोगानामुत्पादयिता- उत्पादकः सन् एकः कोऽपि प्रसर्पति-प्रगच्छति, प्रसर्पको, वा प्रगन्ता भवतीति गम्यते, प्रसर्प्पयन्ति च भोगाद्यर्थिनो देहिनः, उक्तञ्च - "धावेइ रोहणं तरइ सागरं भमइ गिरिनिगुंजेसु ।
॥१॥
भाइ बंधवंपिहु पुरिसो जो होज धणलुद्धो ॥ अडइ बहुं वह भरं सहइ छुहं पावमायरइ धिट्टो । कुलसीलजातिपच्चयट्टिइं च लोभहुओ चयइ ॥' इति,
तथा पूर्वोत्पन्नानां पाठान्तरेण प्रत्युत्पन्नानां वा 'अविप्पओगेणं' ति अविप्रयोगाय रक्षणार्थमिति ‘सौख्याना’मिति भोगसम्पाद्यानन्दविशेषाणां, शेषं सुगमं । भोगसौख्यार्थञ्च प्रसर्पन्तः कर्म बद्धवा नारकत्वेनोत्पद्यन्त इति नारकानाहारतो निरूपयन्नाह -
॥२॥
सू. (३६३) नेरतिताणं चउव्विहे आहारे पं० तं० - इंगालोवमे मुम्भरोमे सीतले हिमसीतले, तिरिक्खजोणियाणं चउव्विहे आहारे पं० तं० - कंकोवमे बिलोवभे पाणमंसोवमे पुत्तमंसोवमे, मस्साणं चउव्विहे आहारे पं० तं० - असणे जाव सातिमे, देवाणं चउव्विहे आहारे पं० तं० - वनमंते गंधमंते रसमंते फासमंते ।
वृ. 'नेरइयाण' मित्यादि व्यक्तं, केवलं अङ्गारोपमः अल्पकालदाहत्वात् मुर्मुरोपमः स्थिइरतरदाहत्वात् शीतलः शीतवेदनोत्पादकत्वात् हिमशीतलोऽत्यन्तशीलतवेदनाजनकत्वात् अधोऽध इति क्रम इति । आहाराधिकारात् तिर्यग्मनुष्यदेवानामाहारनिरूपणाय सूत्रत्रयं- 'तिरिक्खजोणियाण' मित्यादि व्यक्तं, नवरं कङ्कः पक्षिविशेषः तस्याहारेणोपमा यत्र स मध्यपदलोपात् कङ्कोपमः, अयमर्थो यथा हि कङ्कस्य दुर्जरोऽपि स्वरूपेणाहारः सुखभक्ष्यः सुखपरिणामश्च भवति एवं यस्तिरश्चा सुभक्षः सुखपरिणामश्च स कङ्कोपम इति, तथा बिले प्रविशद्रव्यं बिलमेव तेनोपमा यत्र स तथा बिले हि अलब्धरसास्वादं झगिति यथा किल किञ्चित् प्रविशति एवं यस्तेषां गलबिले प्रविशति स तथोच्यते, पाणो मातङ्गस्तन्मांसमस्पृश्यत्वेन जुगुप्सया दुः स्वाद्यं स्यादेवं यस्तेषां दुःखाद्यः स पाणमांसोपमः, पुत्रमांसं तु स्नेहपरतया दुःखाद्यतरं स्यादेवं यो दुःखाद्यतरः स पुत्रमांसोपमः,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International