SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् ४/३/३६० इहान्यथाऽनुपपन्नत्वलक्षणहेतुजन्यत्वादनुमानमेव कार्ये कारणोपचाराद्धेतुः, स च चतुर्विधः, चतुर्भङ्गीरूपत्वात्, तत्र अस्ति-विद्यते तदिति-लिङ्गभूतं धूमादिवस्तु इतिकृत्वा अस्ति सः - अग्न्यादिकः साध्योऽर्थ इत्येव हेतुरिति अनुमानं, तथा अस्ति तदग्न्यादिकं वस्त्वतो नास्त्यसी तद्विरुद्धः शीतादिरर्थ इत्येवमपि हेतुरनुमानमिति, तथा नास्ति तदग्न्यादिकमतः शीतकालेऽस्ति स शीतादिरर्थ इत्येवमपि हेतुरनुमानमिति, तथा नास्ति तद्वृक्षत्वादिकमिति नास्ति शिशपात्वादिकोऽर्थइत्यपि हेतुरनुमानमिति, इह च शब्दे कृतकत्वस्यास्तित्वादस्त्यनित्यत्वं घटवत्तथा धूमस्यास्तित्वादिहास्त्यग्निर्महानस इवेत्यादिकं स्वभावानुमानं कार्यानुमानञ्च प्रथमभङ्गकेन सूचितम् १, तथा अग्नेरस्तित्वाद्धूमास्तित्वाद्वा नास्ति शीतस्पर्श इत्यादि विरुद्धोपलम्भानुमानं विरुद्धकार्योपलम्भानुमानञ्च तथाऽग्नेर्धूमस्य वाऽस्तित्वान्नास्ति शीतस्पर्शजनितदन्तवीणारोमहर्षादिः पुरुषविकारो महानसवदित्यादि कारणविरुद्धोपलम्भानुमानम् कारणविरुद्धकायोपलम्भानुमानं च द्वितीयभङ्गकेनाभिहितं २, २८४ तथा छत्रादेरग्नेर्वा नास्तित्वादस्तिक्वचित्कालदिविशेषे आतपः शीतस्पर्शो वा पूर्वोपलब्धप्रदेश इवेत्यादिकं विरुद्धकारणानुपलम्भानुमानं विरुद्धानुपलम्मानुमानञ्च तृतीयभङ्गकेनोपात्तं ३ तथा दर्शनसामग्यां सत्यां घटोपलम्भस्य नास्तित्वान्नास्तीह घटो विवक्षितप्रदेशवदित्यादि स्वभावानुपलब्ध्यनुमानं तथा धूमस्य नास्तित्वान्नास्त्यविकलो धूमकारणकलापः प्रदेशान्तरवदित्यादि कार्यानुपलब्ध्यनुमानम्, तथा वृक्षनास्तित्वात्, शिंशषा नास्तीत्यादि व्यापकानुपलम्भानुमानं तथाऽग्रेर्नास्तित्वाद्धूमो नास्तीत्यादि कारणानुपलम्भानुमानञ्च चतुर्थभङ्गकेनावरुद्धमिति, न च वाच्यं न जैनप्रकियेयं, सर्वत्र जैनाभिमतान्यथानुपपन्नत्वरूपस्य हेतुलक्षणस्य विद्यमानत्वादिति ४ । अनन्तरं हेतुशब्देन ज्ञानविशेष उक्तस्तदधिकाराद् ज्ञानविशेषनिरूपणायाह मू. (३६१) चउव्विहे संखाणे पं० तं०- पडिकम्मं १ ववहारे २ रज्जू ३ रासी ४ । अहोलेगे पंचत्तारि अंधगारं करेति, तं० - नरगा नेरइया पावाइं कम्माई असुभा पोग्गला १, तिरियलोगेणं चतारि उज्जोतं करेति, तं० - चंदा सूरा मणि जोसी २, उड्डलोगे णं चतारि उज्जोतं करेति, तं०देवा १ देवीओ २ विमाणा ३ आभरणा ४, ३ ॥ — वृ. 'चउव्विहे' इत्यादि, सङ्ख्यायते-गण्यते अनेनेति सङ्ख्यानं गणितमित्यर्थः, तत्र परिकर्म सङ्कलनादिकं पाटीप्रसिद्धं, एवं व्यवहारोऽपि मिश्रकव्यवहारादिरनेकधा, रज्जुरिति रज्जुगणितं क्षेत्रगणितमित्यर्थः, राशिरिति त्रैराशिकपञ्चराशिकादीति । रज्जुरिति क्षेत्रगणितमुक्तमिति क्षेत्रसम्बन्धाल्लोकलक्षणक्षेत्रस्य त्रिधा विभक्तस्यान्धकारोद्योतावाश्रित्य सूत्रत्रयेण प्ररूपणामाह 'अहे' इत्यादि सुगमं, किन्तु अधोलेके - उक्तलक्षणे चत्वारि वस्तूनीति गम्यते नरकानरकावासा नैरयिका-नारका एते कृष्णस्वरूपत्वात् अन्धकारं कुर्वन्ति, पापानि कर्माणि ज्ञानावरणादीनि मिथ्यात्वाज्ञानालक्षणभावान्धकारकारित्वादन्धकारं कुर्वन्तीत्युच्यते, अथवा अन्धकारस्वरूपे अधोलेके प्राणिनामुत्पादकत्वेन पापानां कर्म्मणामन्धकारकर्तृत्वमिति, तथा अशुभाः पुद्गलाः-तमिश्रभावेन परिणता इति । 'मणि' त्ति मणयः - चन्द्रकान्ताद्याः, 'जोइ' त्ति ज्योतिरग्निरिति स्थानं-४- उद्देशकः - ३ समाप्तः For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy