________________
२८३
स्थानं-४, - उद्देशकः -३ तित्तिरीशकटतित्तिरीतिगृहीतत्वादिति,ततोविषन्नःशाकटिक इति, अत्रोक्तम्- “सासगडतित्तिरी वंसगंमि हेमि होइ नायव्वा ॥" इति,
सचैवं-अस्तिजीवोऽस्तिघटइत्युभ्युपगमे जीवघटयोरस्तित्वमविशेषेण वर्तते ततस्तयोरेकत्वं प्राप्तमभिन्नशब्दविषयत्वादिति व्यंसको हेतुःघटशब्दविषयघटस्वरूपवत्, अथास्तित्वं जीवादीन वर्ततेततोजीवाद्यभावः स्यादस्तित्वाभावादितिव्यंसकः प्रतिवादिनोव्यामोहकत्वादिति, तथा 'लूसए'त्ति लूषयति-मुष्णाति व्यंसकापादितमनिटमिति लूषको हेतुः, स एव शाकटिको, यथा-धूर्तान्तरशिक्षितेन हिशाकटिकेन तेन याचितोऽसौधूर्ततर्हि देहिमेतर्पणालोडिकामिति, ततो धूर्तेनोक्ता स्वभार्या-देह्यस्मै सत्तूनालोड्येति, ताञ्च तथा कुर्वन्तीं तद्भार्यां गृहीत्वाऽसौ प्रस्थितोऽवादीच्च धूर्तमभि-मदीयेयं तर्पणमिति सत्कूनालोडयतीति तर्पणालोडिकेति भवतैव दत्तत्वादिति, सचायं यदिजीवघटयोरस्तित्ववृत्त्या एकत्वं सम्भावयसि तदा सर्वभावानामेकत्वं स्यात्, सर्वेष्वप्यस्तित्ववृत्तेरविशेषात्, न चैवमिति,
इहास्तित्ववृत्तेरविशेषादित्ययं लूषकोजीवघटयोरेकत्वापादनलक्षणस्याभावापत्तिलक्षणस्य वाऽनिष्टस्य परापादितस्यानेन लूषितत्वादिति, अथवेति हेतोः प्रकारान्तरताद्योतको विकल्पार्थो हिनोति-गमयति प्रमेयमर्थं स वा हीयते-अधिगम्यते अनेनेति हेतुः-प्रमेयस्य प्रमिती कारणं प्रमाणमित्यर्थः, स चतुर्विधः स्वरूपादिभेदात्, तत्र ‘पञ्चक्खे'त्ति अश्नाति अश्नुते-व्याप्नोत्य
नित्यक्षः-आत्मा तंप्रति यद्वर्त्तते ज्ञानंतप्रत्यक्ष निश्चयतोऽवधिमनः पर्यायकेवलानि, अक्षाणि वेन्द्रियाणि प्रति यत्तप्रत्यक्ष व्यवहारतस्तचक्षुरादिप्रभवमिति, लक्षणमिदमस्य -
“अपरोक्षतयाऽर्थस्य, ग्राहकं ज्ञानमीशम् ।
प्रत्यक्षमितरत् ज्ञेयं, परोक्षं ग्रहणेक्षया ।।" ग्रहणापेक्षयेति भावः,अन्विति-लिङ्गदर्शनसम्बन्धानुस्मरणयोः पञ्चान्मानं-ज्ञानमनुमानम्, एतल्लक्षणमिदम्॥१॥ “साध्याविनामुवो लिङ्गात्, साध्यनिश्याकं स्मृतम् ।
अनुमानं तदभ्रान्तं, प्रभाणत्वात् समक्षवद् ।।" इति, एतच्चसाध्याविनाभूतहेतुजन्यत्वेनाप्युपचाराद्धेतुरिति, तथा उपमानमुपमासैवोपम्यंअनेन गवयेन सशोऽसौ गौरिति साश्यप्रतिपत्तिरूपं, उक्तश्च - ॥७॥ "गांदृष्टवाऽयमरण्येऽन्यं, गवयं धीक्षते यदा।
भूयोऽवयवसामान्यभाजं वर्तुलकण्ठकम्॥ ॥२॥
तस्यामेव त्ववस्थायां, यद्विज्ञानं प्रवर्तते।
पशुनैतेन तुल्योऽसौ, गोपिण्ड इति सोपमा।" इति, अथवा श्रुतातिदेशवाक्यस्य समानार्थोपलम्भने संज्ञासंज्ञिसम्बन्धज्ञानमुपमानमुच्यत इति, आगम्यन्ते-परिच्छिद्यन्ते अर्था अनेनेत्यागमः-आप्तवचनसम्पाद्यो विप्रकृष्टार्थप्रत्ययः, उक्तञ्च॥१॥ "टेष्टाव्याहताद् वाक्यात्परमार्थाभिधायिनः ।
तत्त्वग्राहितयोत्पन्नं, मानं शाब्दं प्रकीर्तितम् ।। ॥२॥ ___ आप्तोपज्ञमनुलायमहटेष्टविरोधकम्।
तत्त्वोपदेशकृत् सार्व, शास्त्र कापथघट्टनम् ॥" इति,
॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org