________________
२८२
स्थानाङ्गसूत्रम् ४/३/३६०
च तं वयं सम्यग् जानीम इति।
अथ ज्ञातानंतरंज्ञातवद्धतोः साध्यसिद्धयङ्गत्वात्तभेदान्हेऊ इत्यादिना सूत्रत्रयेणाहव्यक्तं चैतत्, नवरं हिनोति-गमयत्ति ज्ञेयमिति हेतुः-अन्यथाऽनुपपत्तिलक्षणः, उक्तञ्च॥१॥ “अन्यथाऽनुपपन्नत्वं, हेतोर्लक्षणमीरितम् ।
तदप्रसिद्धिसन्देहविपर्यासरतदाभता ।।" इति, प्रागुक्तश्च हेतुः पर्यनुयुक्तस्योत्तररूपमुपपत्तिमात्रमयं तु साध्यं प्रत्यन्वयव्यतिरेकवान् तथाविधष्टान्तस्मृततद्भाव इति, स चैकलक्षणोऽपि किञ्चिद्विशेषाचतुर्द्धा, तत्र 'जावएत्ति यापयति-वादिनः कालयापनां करोति, यथा काचिदसती एकैकरूपकेण एकैकमुष्ट्रलिण्डं दातव्यमिति दत्तशिक्षस्य पत्युस्तहिक्रयार्थमुज्जयनीप्रेषणोपायेन विटसेवायांकालयापनांकृतवतीति यापकः, उक्तञ्च-“उमामियायमहिला जावगहेउम्मिउट्टलिंडाई॥” इति, इह वृद्धव्यार्खयातम्प्रतिवादिनं ज्ञात्वा तथा तथा विशेषणबहुलो हेतुः कर्तव्यो यथा कालयापना भवति, ततोऽसौ नावगच्छतिप्रकृतमिति,सचेशः सम्भाव्यते-सचेतना वायवः अपरप्रेरणेसतितिर्यगनियतत्वाभ्यां गतिमत्त्वात् गोशरीरवदिति, अयं हि हेतुर्विशेषणबहुलतया परस्य दुरधिगमत्वात् वादिनः कालयापनां करोति, स्वरूपमस्यानवबुध्ध्यामानो हि परो न झगित्येवानैकान्तिकत्वादिदूषणाद्भावनाय प्रवर्तितुंशक्नोति, अतो भवत्यस्माद्, वादिनः कालयापनेति, अथवायोऽप्रतीतव्याप्तिकतयाव्याप्तिसाधकप्रमाणन्तरसव्यपेक्षत्वान्न झगित्येवसाध्यप्रतीतिंकरोति अपितुकालक्षेपेणेत्यसौ साध्यप्रतीतिं प्रति कालयापनाकारित्वाद्यापकः,
यथा क्षणिकं वस्त्विति पक्षे बौद्धस्य सत्त्वादिति हेतुः, नहि सत्त्वक्षवणादेव क्षणिकत्वं प्रत्येति पर इत्यतो बौद्धः सत्त्वं क्षणिकत्वेन व्याप्तमिति प्रसाधयितुमुपक्रमते, तथाहि-सत्त्वं नामार्थक्रियकारित्वमेव, अन्यथा वन्ध्यासुतस्यापिसत्त्वप्रसङ्गः, अर्थक्रियातुनित्यस्यैकरूपत्वान्न क्रमेण नापियोगपधेन क्षणान्तरे अकर्तृत्वप्रसङ्गादित्योऽर्थक्रियालक्षणं सत्त्वमक्षणिकान्निवर्तमान क्षणिकएवावतिष्ठत इत्येवंक्षेपेण साध्यसाधनेकालयापनाकारित्वाद्यापकः सत्त्वलक्षणोहेतुरिति तथास्थापयतिपक्षमक्षेपेण प्रसिद्धव्याप्तिकत्वात् समर्थयति, यथा परिव्राजकधूर्तेलोकमध्यभागे दत्तं बहुफलं भवति तचाहमेव जानामीति मायया प्रतिग्राममन्यान्यं लोकमध्यं प्ररूपयति सति तन्निग्रहाय कश्चित् श्रावको लोकमध्यस्यैकत्वात्कथंबहुषुग्रामादिषुतत्सम्भव इत्येवंविधोपपत्त्या त्वद्दर्शितो भो लोकमध्यभागोन भवतीतिपक्षस्थापितवानिति स्थापको हेतुः, उक्तञ्च-"लोगस्स मन्झजाणण थावगहे. उदाहरणं" इति, स चायं-अग्निरत्र धूमात् तथा नित्यानित्यं वस्तु द्रव्यपर्यायतस्तथैवप्रतीयमानत्वादिति,अनयोश्चप्रतीतव्याप्तिकतयाअकालक्षेपेण साध्यस्थापनात् स्थापकत्वमिति।
तथाव्यंसयति-परंव्यामोहयति शकटतित्तिरीग्राहकधूतवद्यः सव्यंसक इति, तथाहिकश्चिदन्तराललब्धमृततित्तिरीयुक्तेन शकटेन नगरं प्रविष्टः उक्तो धूर्तेन यथा-शकटतित्तिरी कथं लभ्यते?,सच किलायंशकटस्यसत्कांतित्तिरीयाचत इत्यभिप्रायादवोचत्-तर्पणालोडिकयेति, सक्त्वालोडनेनजलाद्यालोडितसक्तुभिरित्यर्थः, ततोधूतः साक्षिण आहृत्य सतित्तिरीकं शकट जग्राह, उक्तवांश्च मदीयमेतद्, अनेवैव शकटतित्तिरीति दतत्वात, मया तु शकटसहिता
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only