________________
स्थानं ४, उद्देशकः -३
-
२८१
जले निपतन्ति तानि जलचरा जीवा भवन्ति यानि च स्थले निपतन्ति तानि स्थलचरा इति, अन्यस्तदुपन्यस्तमेव तरुपत्रपतनवस्तु गृहीत्वा तदुकं विघटयति, तदुत- यानि पुनर्मध्ये तेषां का वार्त्तेत्येतदुपपत्तिमात्रमुत्तरभूतं तद्वस्तुक उपन्यासोपनयो, ज्ञातत्वं चास्य ज्ञातनिमित्तत्वात्, अथवा यथारूढमेव ज्ञातमेतत्, तथा हि एवं प्रयोगोऽस्य - जलस्थलपतितपत्राणि न जलचरादिसत्त्वाः सम्भवन्ति, जलस्थलमध्यपतितपत्रवत्, तन्मध्यपतितपत्राणां हि जलस्थलपतितपत्रजलचरत्वादिप्राप्तिवदुभयरूपप्रसङ्गो, न चोभयरूपाः सत्त्वा अभ्युपगता इति, अथवा नित्यो जीवः अमूर्त्तत्वादाकाशवदित्युक्ते आह-अनित्य एवास्तु अमूर्त्तत्वात् कर्म्मवदिति ।
तथा 'तयन्नवत्थुए 'त्ति तस्मात् परोपन्यस्ताद् वस्तुनोऽन्यदुत्तरभूतं वस्तु यस्मिन्नुपन्यासोपनये स तदन्यवस्तुको यथा जले पतितानि जलचरा इत्युक्ते एतद् विघटनाय पतनादन्यदुत्तरमाह- यानि पुनः पातयित्वा खादति नयति वा तानि किं भवन्ति ?, न किञ्चिदित्यर्थोऽयमपि ज्ञापकतया ज्ञातमुक्तः, अथवा यथारूढमेव ज्ञातमेषः, तथाहि न जलस्थलपतितानि पत्राणि जलचरादिसत्त्वाः सम्भवन्ति, मनुष्याद्याश्रितानीव, अयमभिप्रायो यथा जलाद्याश्रितत्वात् जलचरादितया तानि सम्पद्यन्ते तथा मनुष्याद्याश्रिततया मनुष्यादिभययूकादितयाऽपि सम्पद्यन्ताम्, आश्रितत्वस्याविशेषात्, नच तानि तथाऽभ्युपगम्यन्त इति जलादिगतानामपि जलचरत्वाद्यसम्भव इति, तथा 'पडिनिभे' त्ति यत्रोपन्यासोपनये वादिनोपन्यस्तव स्तुनः सध्शं वस्तूत्तरदानायोपनीयते प्रतिनिभो यथा कोऽपि प्रतिजानीने यदुत-यो मामपूर्वं श्रावयति तस्मै लक्षमूल्यमिदं कटोरकं ददामीति, स च श्रावितोऽपि तन्त्रापूर्वमिति प्रतिपद्यते, तत एकेन सिद्धपुत्रेणोक्तम्"तुज्झ पिया मज्झ पिउणो, धारेइ अनूनयं सयसहस्सं । जइ सुयपुव्यं दिजउ अह न सुयं खोरयं देहि ।।" इति,
11911
प्रतिनिभताचास्य सर्वस्मिन्नप्युक्ते श्रुतपूर्वमेवेदं ममेत्येवमसत्यं वचो ब्रुवाणस्य परस्य निग्रहाय तव पिता मम पितुर्द्धारयति लक्षमित्येवंविधस्य द्विपाशरज्जुकल्पस्यासत्यस्यैव वचस उपन्यस्तत्वादिति, अस्य चोपपत्तिमात्ररूपस्याप्यर्थज्ञापकतया ज्ञातत्वमुक्तमिति, अथवा यथारूढमेव ज्ञातमेषः, तथाहि अत्रायं प्रयोगः- नास्त्यश्रुतपूर्वं किञ्चित् श्लोकादि ममेत्येवमभिमानधनं ब्रूमो वयम्-अस्ति तवाश्रुतपूर्वं वचनं तव पिता मम पितुर्द्धारयत्यनूनं शतसहस्रमिति यथेति । तथा 'हेउ' त्ति यत्रोपन्यासोपनये पर्यनुयोगस्य हेतुरुत्तरतयाऽभिधीयते स हेतुरिति, यथा केनापि कश्चित् पर्यनुयुक्तः - अहो किं यवाः क्रीयन्ते त्वया ?
सत्वाह-येन मुधैव न लभ्यन्तेइति, तथा कस्मात् ब्रह्मचर्यादिकष्टमनुष्ठीयते ?, यस्मादकृततपसां नरकादी गुरुतरा वेदना भवतीति, इदमपि उपपत्तिमात्रमेव ज्ञातत्वेनोक्तमर्थज्ञापकत्वादिति, अथवाऽयमपि यथारूढं ज्ञातमेव, तथाह्यस्यैवं प्रयोगः कस्मात् त्वया प्रव्रज्या क्रियत इति पृष्टः सन् केनापि साधुराह-यतस्तां विना मोक्षो न भवति, एतत्समर्थनायैव साधुस्तामाह भी यवग्राहिन् किमिति त्वया यवाः क्रीयन्ते ?, स त्वाह-येन मुधा न लभ्यन्ते, साधोश्चायमभिप्रायो यथामुधालाभाभावात् तान् क्रीणासि त्वमेवमहं तां विना तदभावात्तां करोमीति, इह च मुधा यवालाभस्य क्रयणे हेतोः सतो दृष्टान्ततयोपन्यस्तत्वाद्वेतूपन्यासोपनयज्ञाततेति, इह च किश्चिद्विशेषेणैवंविधा ज्ञातबेदाः सम्भवन्त्यन्येऽपि किन्तु ते न विवक्षिताः अन्तर्भावो वा कथञ्चित् गुरुभिर्विवक्षितो न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org