SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ स्थानं ४, - उद्देशकः -३ क्षेत्रस्य क्षेत्रीकरणोपायो लाङ्गलादिस्तथाविधसाधुव्यापारो वा तेनैव वा प्रवर्त्तितव्यमत्र तथाविधान्यक्षेत्रवदिति, एवं कालोपायः कालज्ञानोपायः, यथा अस्ति कालस्य ज्ञाने उपायः धान्यादेरिव, जानीहि वा कालं घटिकाच्छायादिनोपायेन तथा भूतगणितज्ञवदिति, एवं भावोपायो यथा भावज्ञाने उपायोऽस्ति भावं वोपायतो जानीहि, बृहत्कुमारिकाकथाकथनेन विज्ञातचौरादिभावाभयकुमारवदिति, तथाहि -किल राजगृहनगरस्वामिनः श्रेणिकराजस्य पुत्रोऽभयकुमाराभिधानो देवताप्रसादलब्धसर्वर्तुकफलादिसमृद्धारामस्यानफलानां अकालम्रफलदोहदवमार्यादोहदपूरणार्थं चाण्डालचौरेणापहरणे कृते चौरपरिज्ञानार्थं नाट्यदर्शननिमित्तमिलितबहुजनमध्ये बृहत्कुमारिकाकथामचकथत्, तथाहि काचिद् वृद्धकुमारिकावाञ्छितवरलाभाय कामदेवपूजार्थमारामे पुष्पाणि चोरयन्ती आरामपतिना गृहीता सद्भावकथने विवाहितया पत्या अपरिभुक्तया मत्पार्श्वे समागन्तव्यमित्यभ्युपगमं कारयित्वा मुक्ता ततः कदाचित् विवाहिता सती पतिमापृच्छय रात्रावारामपतिपार्श्वे गच्छन्ती चौरराक्षसाभ्यां गृहीता सद्भावकथने प्रतिनिवृत्तया भवत्पार्श्वे आगन्तव्यमितिकृताभ्युपगमा मुक्ता आरामे गता आरामिकेण सत्यप्रतिज्ञेत्यखण्डितशीला विसर्जिता इतराभ्यामपि तथैव विसर्जिता पतिसमीपमागतेति, ततो भो लोकाः पत्यादीनां मध्ये को दुष्करकारक इति चासौ पप्रच्छ तत ईष्यालुप्रभृतयः पत्यादीन् दुष्करकारित्वेनाभिदधुः, चौरचाण्डालस्तु चौरानिति, ततोऽसावनेनोपायेन भावमुपलक्ष्य धौर इतिकृत्वा तं बन्धयामासेति, अत्रापि गाथे 119 11 २७७ “एमेव चउविगप्पो होइ उवाओऽ वि तत्थू दव्वम्मि । धाउव्वाओ पढमो नंगलकुलिएहिं खेत्तं तु कालोऽवि नालियाईहिं होइ भावम्मि पंडिओ अभओ । चोरस्स कए नट्टि य वहुकुमारिं परिकहिंसु । " इति 'ठवणाकम्मे 'त्ति स्थापनं प्रतिष्ठापनं स्थापना तस्याः कर्म्म-करणं स्थापनाकर्म्म येन ज्ञातेन परमतं दूषयित्वा स्वमतस्थापना क्रियते तत्स्थापनाकर्मेति भावः, तच्च द्वितीयाङ्गे द्वितीय श्रुतस्कन्धे प्रथमाध्ययनं पुण्डरीकाख्यं तत्र ह्युक्तमस्ति - काचित्पुष्करिणी कर्द्दमप्रचुरजला तन्मध्यदेशे महत्पुण्डरीकं तदुद्धरणार्थं चतसृभ्यो दिग्भ्यश्चत्वारः पुरुषाः सकर्द्दममार्गः प्रवेष्टुमारब्धाः, ते चाकृततदुद्धरणा एवं पङ्के निमग्नाः, अन्यस्तु तटस्थोऽसंस्पृष्टकर्द्दम एवामोघवचनतया तदुध्धृ तवानितिज्ञातम्, ॥२॥ उपनयश्चायमत्र-कर्द्दमस्थानीया विषयाः पुण्डरीकं राजादिर्भव्यपुरुषः चत्वारः पुरुषाः परतीर्थिकाः पञ्चमः पुरुषः साधुः अमोधवचनं धम्मदेशना पुष्करिणी संसारः तदुद्धारो निर्वाणमिति, अनेन च ज्ञातेन विषयाभिष्वङ्गवतां तीर्थिकानां भव्यस्य संसारानुत्तारकत्वं साधोश्च तद्विपर्ययं वदता आचार्येण परमतदूषणेन स्वमतं स्थापितमतो भवतीदं ज्ञातं स्थापनाकर्मेति, अथवाऽऽपन्नं दूषणमपोह्य स्वाभिमतस्थापना कार्येत्येवंविधार्थप्रतिपत्तिर्यतो जायते तत्स्थापनाकर्म्म, किल मालाकारेण केनापि राजमार्गपुरीषोत्सर्गलक्षणापराधापोहाय तत्स्थाने पुष्पपुञ्जकरणेन किमिदमिति पृच्छतो लोकस्य हिंगुशिवो देवोऽयमिति वदता व्यन्तरायतनस्थापना कृतेति एतस्मात्किला For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy