________________
२७८
स्थानाङ्ग सूत्रम् ४/३/३६०
ख्यानकादुक्तार्थः प्रतीयत इतीदं स्थापनाकर्मेति तथा नित्यानित्यं वस्त्वित्यसङ्गतं जनमतं विरुद्धधर्माध्यासादिति दूषणमापन्नमेतद्वयपोहायोच्यतेविरुद्धधर्माध्यासो न भेदनिबन्धनं विकल्पस्येव, विकल्पो हि क्रमभाविवर्णोल्लेखवान् विरुद्धधम्र्म्मोपेतो भवति, न च कथञ्चिदेको न भवति, खण्डशो विभक्तस्य तस्य स्वरूपलाभाभावात् प्रवृत्तिनिवृत्त्योरकारणता स्यादसमञ्जसं चैवमिति, एवञ्च विरुद्धधर्माध्यासस्य कथञ्चिदभेदकत्वे सति न केवलं नित्यानित्यं न भवतीति दूषणमपोढमपि तु सर्वमनेकान्तात्मकमिति विकल्पज्ञानेन स्वमतं प्रसाधिमत्, अतो विकल्पज्ञातं स्वमतस्थापनेन स्थापनाकम्र्मेति, अत्र नियुक्तिगाथा:
॥१॥
“ठवणाकम्मं एक्कं दिट्टंतो तत्थ पुंडरीयं तु ।
अहवाऽवि सन्त्रढक्कण हिंगुसिवकयं उदाहरणं " इति, सव्यभिचारो हेतुर्यः सहसोपन्यस्तस्तस्य समर्थनार्थं यो दृष्टान्तः पुनरुपन्यस्यते स स्थापनाकर्मेति, उक्तं च
॥१॥
" सव्वभिचारं हेउं सहसा वोत्तुं तमेव अन्नेहिं । उववूहइ सप्पसरं सामत्थं चऽप्पणो नाउं "ति,
तद्यथा-अनित्यः शब्दः कृतकत्वात्, अथ वर्णात्मके शब्दे कृतकत्वं न विद्यते वर्णानां नित्यतयाऽभिहितत्वादिति व्यभिचारः, समर्थना पुनर्वर्णात्मा शब्दः कृतको निजकारणभेदेन भिद्यमानत्वात् घटपटादिवत्, घटादिदृष्टान्तेन हि वर्णानां कृतकत्वं स्थापितमिति भवत्ययं स्थापनाकर्मेति, 'पडुप्पनविणासि ' त्ति प्रत्युत्पन्नस्य तत्कालोत्पन्नवस्तुनो विनाशोऽभिधेयतया यत्रास्ति तत्प्रत्युत्पन्नविनाशीति, यथा केनापि वणिजा दुहित्रादिस्त्रीपरिवारशीलविनाशरक्षार्थं तदासक्तिनिमित्तस्वगृहासन्नराजगान्धर्विकगुणानिकायाः स्वगृहे कुलदेवतनिवेशनाद् गुणनिकाकाले तस्या देवताया अग्रतः आतोद्यनादव्याजेन राजापराधपरिहारेण विनाशः कृतः, एवं गुरुणा शिष्यान् क्वचिद् वस्तुन्यध्युपपद्यमानानुपलभ्य तस्य तदासक्तिनिमित्तत्वमुपहन्तव्यमित्येवं प्रत्युत्पन्नविनाशनीयताज्ञापकत्वात् प्रत्युत्पन्नविनाशिज्ञातता गन्धर्विकाख्यानकस्यावगन्तव्येति, उक्तञ्च “होति पडुप्पन्नविणासणंमि गंधव्विया उदाहरणं ।
11 9 11
सीसोऽवि कत्थई जई अज्झोवज्जेज्ज तो गुरुणा ।।
वारेयव्यो उवावरणं' इति, अथवा अकर्त्ताऽऽत्मा अमूर्त्तत्वादाकाशवदित्युत्पन्ने आत्मनोऽकर्तृत्वापत्तिलक्षणे दूषणे तद्विनाशायोच्यते कर्त्तवात्मा कथञ्चिन्मूर्त्तत्वाद्देवदत्तवदिति । व्याख्यातमाहरणं, आहरणता चैतद्मेदानां देशेन दोषवत्तया चोपनयनाभावादिति । अथाहरणतद्देशी व्याख्यायते स च चतुर्द्धा तत्र अनुशासनमनुशास्तिः- सद्गुणोत्कीर्त्तनेनोपबृंहणं सा विधेयेति यत्पोपदिश्यते साऽनुशास्तिः, यथा गुणवन्तोऽनुशासनीया भवन्ति, यथा साधुलोचनपतितरजःकणापनयनेन लोकसम्भावितशीलकलङ्का तत्क्षालनायाराधितदेवताकृतप्रातिहार्या चालनीव्यवस्थापितोदकाच्छोटनोद्घाटितचंपागोपुरत्रया सुभद्रा अहो शीलवतीति महाजनेनानुशासितेति, उक्तं च-
119 11
Jain Education International
"आहरणं तद्देसे छउहा अनुसट्टि तह उवालंभो । पुच्छा निस्सावयणं होइ सुभद्दाऽनुसट्ठीए
For Private & Personal Use Only
www.jainelibrary.org