SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २७६ स्थानाङ्ग सूत्रम् ४/३/३६० वाप्तद्रव्यलुब्धभगिन्या मत्स्यच्छेदकशस्त्राभिघातेन तदुद्दालनप्रवृत्तमारितमातृकायास्तथाविधव्यतिकरदर्शनोत्पन्नसंवेगात्प्रतिपन्नप्रव्रज्ययोर्धातृवणिजोरिव, तत्परिहारश्च प्रव्रज्यया तत्त्यागादिति, आहरणताचास्य देशेनोपनयस्याविवक्षणादिति,तथा क्षेत्रात क्षेत्रेवा क्षेत्रमेववाऽपायः क्षेत्रापायः, शेषं तथैव, एवमुत्तरत्रापि, तत्पप्रयोगः-उपायवत् क्षेत्रं वर्जयेत् जरासन्धाभिधानप्रतिवासुदेवात् सम्भावितापायां मथुरानगरी यथादशार्हचक्रं वर्जयामासेति, अथवा सम्भवत्यपायः सप्रत्यनीकक्षेत्रेससर्पगृहवत्, कालापायो यथा-सापायकालवर्जने यतेत, द्वैपायनो द्वारकामावर्षद्वादशकाद्धक्ष्यतीति श्रुतनेमिनाथवचनो द्वादशवर्षलक्षणसापायकालपरिजिहीर्षयोत्तरापथप्रवृत्तो द्वैपायनो यथेति, अथवा सापायोऽपि भवति कालो रुद्रादिवदिति, तथा भावापायो यथा भावापायं परिहरेत् महामागवत् नागदत्तक्षुल्लकवद्वेति, तथाहि-किल कश्चित क्षपकः प्रस्तुतपारणकः सक्षुल्लकः समारब्धभिक्षार्थभ्रमणकः कथञ्चिन्मारितमण्डूकिकः क्षुल्लकप्रेरितोऽप्रतिपन्नतद्वचनः पुनरावश्यककाले स्मारिततदर्थः समुत्पन्नकोपः क्षुल्लकोपघातायाभ्युत्थितो वेगादागच्छन् स्तम्भ आपतितो मृतो ज्योतिष्केषूत्पनोऽनन्तरं च्युतो जातिस्मरष्टिविषसप्तयोत्पन्नः सर्पदष्टमृतपुत्रेण च सर्पेषु कुपितेन राज्ञाऽऽदिष्टजनमार्यमाणेषु नागेषु नागविनाशकनरेण केनाप्योषधिबलादाकृष्यमाणो हटकोपविपाकतयाच मष्टिविषेण माघातकपुरुषविघातो भवत्वितिभावनयापुच्छतो निर्गच्छन् यथानिर्गमं च खण्ड्यमानः कोपलक्षणभावापायं परिहतवानिति, तथा स एवानन्तरं, नागदत्ताभिधानराजसुततयोत्पन्नो बालत्व एव प्रतिपन्नप्रव्रज्योऽत्यन्तसंविग्नस्तिर्यग्भवाभ्यासाचात्यन्तक्षुधालुरादित्योदयादस्तमयं यावद् भोजनशीलोऽसाधारणगुणावर्जितदेवताभिवन्दितोऽत एव तद्गच्छगतमासादिक्षपकचतुष्टयस्येविषयीभूतो विनयार्थं तेषामुपदर्शितस्वार्थानीतभोजनः तैश्च मत्सराभोजनमध्यनिष्ठयूतनिष्ठीवनोत्यन्तोपशान्तचित्तवृत्तितया यः सञ्जातकेवलः पुर्देवतावन्दितस्तेषामपि क्षपकाणां संवेगहेतुत्वेन केवलज्ञानदर्शनसमृद्धिसम्पादकः कोपरूपं भावापायं परिजहारेति अथवा कोपादिलक्षणो भावोऽपायो भवति क्षपकस्येवेति, गाथे इह॥१॥ “दव्वावाए दुन्नि उवाणियगा मायरो धननिमित्तं । ___ वहपरिणयमेक्कमिक्वं दहमि भच्छेण निव्वेओ ॥२॥ खित्तमि अवक्कमणं दसारवग्गस्स होइ अवरेणं । वायणो व काले भावेमंडुकियाखमओ" इति, 'उवाए'त्ति उपायः- उपेयं प्रति पुरुषव्यापारादिका साधनसामग्री स यत्र द्रव्यादावुपेये अस्तीत्यभिधीयते यथैतेषु द्रव्यादिविशेषेषु साधनीयेष्वस्त्युपायो विवक्षितद्रव्यादिविशेषवत, उपादेयता वाऽस्य यत्राभिधीयते तदाहरणमुपाय इति, सोऽपि द्रव्यादिभिश्चतुर्द्धव, तत्र द्रव्यस्य सुवणदिः प्रासुकोदकादेर्वा द्रव्यमेव वा उपायो द्रव्योपायः, एतत्साधनमेतदुपादेयतासाधनं वाऽऽहरणमपि तथोच्यते, तअयोगश्चैवम्-अस्ति सुवर्णादिचूपायः उपायेनैव वा सुवर्णादी प्रवर्तितव्यं, तथाविधधातुवादसिध्यादिवदिति, एवं क्षेत्रोपायः क्षेत्रपरिकर्मणोपायोयथाअस्त्यस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy