________________
स्थानं ४, - उद्देशक: ३
२७५
ज्ञातहेतुत्वात्, चतुर्विधं दर्शयति तत्र आ-अभिविधिना ह्रियते प्रतीती नीयते अप्रतीतोऽर्थोऽनेनेत्याहरणं, यत्र समुदित एव दान्तिकोऽर्थः उपनीयते यथा पापं दुःखाय ब्रह्मदत्तस्येवेति, तथा तस्य - आहरणार्थस्य देशस्तद्देशः स चासावुपचारादाहरणं चेति प्राकृतत्वादाहरणशब्दस्य पूर्वनिपाते आहरणतद्देश इति, भावार्थश्चात्र यत्र दृष्टान्तार्थदेशेनैव दार्शन्तिकार्थस्योपनयनं क्रियते तत्तद्देशोदाहरणमिति, यथा चन्द्र इव मुखमस्या इति, इह हि चन्द्रे सौम्यत्वलक्षणेनैव देशेन मुखस्योपनयनं नानिष्टेन नयननासावर्जितत्त्वकलङ्कादिनेति, तथा तस्यैवआहरणस्य सम्बन्धी साक्षात्प्रसङ्गसम्पन्नो वा दोषस्तद्दोषः स चासौ धमर्मे धर्म्मिणः उपचारादाहरणं चेति प्राकृतत्वेन पूर्वनिपातादाहरणतद्दोष इति, अथवा तस्य- आहरणस्य दोषो यस्मिंस्तत्तथा, शेषं तथैव, अयमत्र भावार्थः यत्साध्यविकलत्वादिदोषदुष्टं तद्दोषाहरणं, यथा नित्यः शब्दोऽ मूर्त्तत्वात् घटवत्, इह साध्यसाधवैकल्यं नाम ध्ष्टान्तदोषो, यच्चासमाभायिदवचनरूपं तदपि तद्दोषाहरणं; यथा सर्वथाऽहमसत्यं परिहरामिगुरुमस्तककर्त्तनवदिति यद्वा साध्यसिद्धि कुर्वदपि दोषान्तरमुपनयति तदपि तदेव, यथा सत्यं धर्म्ममिच्छन्ति लौकिकमुनयोऽपि
॥१॥
"वरं कूपशताद्वापी, वरं वापीशतात्क्रतुः । वरं क्रतुशतात्पुत्रः, सत्यं पुत्रशताद्वरम्
इति वचनवक्तृनारदवदिति, अनेन च श्रोतुः पुत्रक्रतुप्रभृतिषु प्रायः संसारकारणेषु धर्म्मप्रतीतिराहितेति आहरणतद्दोषतेति, यथा वा बुद्धिमता केनापि कृतमिदं जगत् सन्निवेशविशेषवत्त्वात् घटवत् स चेश्वरइति, अनेन हि स बुद्धिमान् कुम्भकारतुल्यो ऽनीश्वरः सिद्धतीति, ईश्वरश्च स विवक्षित इति, तथा वादिना अभिमतार्थसाधनाय कृते वस्तूपन्यासे तद्विघटनाय यः प्रतिवादिना विरुद्धार्थोपनायः क्रियते पर्यनुयोगोपन्यासे वा य उत्तरोपनयः स उपन्यासोपनयः, उत्तररूपमुपपत्तिमात्रमपि ज्ञातभेदो ज्ञाततत्वादिति, यथा अकर्त्ताऽऽत्मा अमूर्त्तत्वादाकाशवदित्युके अन्य आह-आकाशवदेवाभोक्तेत्यपि प्राप्तमनिष्टं चैतदिति,
यथा वामांसभक्षणमदुष्टं प्राण्यङ्गत्वादोदनादिवत्, अत्राहान्यः - ओदनादिवदेव स्वपुत्रादिमांसभक्षणमप्यदुष्टमिति, यथा वा त्यक्तसङ्गा वस्त्रपात्रादिसङग्रहं न कुर्वन्ति ऋषभादिवत्, अत्राहकुण्डिकाद्यपि ते न गृह्णन्ति तद्वंदेवेति, तथा कस्मात्कर्म कुरुषे यस्माद् धनार्थीति, इह प्रथमं ज्ञातं समग्रसाधर्म्यं द्वितीयं देशसाधर्म्यं तृतीयं सदोषं चतुर्थं प्रतिवाद्युत्तररूपमित्ययमेषां स्वरूपविभाग इति, इहब देशतः संवादगाथा -
॥१॥
"चरियं च कप्पियं वा दुविहं तत्तो चउव्विहेक्वेक्कं । आहरणे तसे तद्दोसे चेबुवन्नासा" इति,
'अवाये' अपायः - अनर्थः स यत्र द्रव्यादिष्वभिधीयते यथैतेषु द्रव्यादिविशेषेष्वस्त्यपायो विवक्षितद्रव्यादिविशेषेष्विव, हेयता वाऽस्य यन्त्राभिधीयते तदाहरणमपाय इति, स च चतुर्धा द्रव्यादिभिः-तत्र द्रव्यात् द्रव्ये वाऽपायो द्रव्यमेव वा तत्कारणत्वादपायो द्रव्यापायः, एतद्धेयतासाधकं एतत्साधकं वाऽऽहरणमपि तथोच्यते, तत्प्रयोगो-द्रव्यापायः परिहार्यस्तत्र वाऽपायो वर्त्तते देशान्तरगमनेनोपार्जितद्रविणयोस्तल्लोभात्परस्परमारणपरिणतयोः स्वग्रामाद् बहिः प्राप्तावनुतापात् ह्रदत्यक्तमत्स्यगिलिततद्वित्तयोर्मत्स्यबन्धकपार्श्वात् गृहीतस्य तस्य मत्स्यस्य विदारणेऽ
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International