________________
२६२
स्थानाम सूत्रम् ४/३/३४३ __रूप-साधुनेपथ्यं जहाति-त्यजति कारणवशात् न धर्म-चारित्रलश्रणं बोटिकमध्यस्थितमुनिवत्, अन्यस्तुधर्मन रूपं निहववत्, उभयमपिउप्रव्रजितवत्, नोभयंसुसाधुवत, धर्म त्यजत्येको जिनाज्ञारूपं न गणसंस्थिति-स्वगच्छकृतां मर्यादां, इह कैश्चिदाचार्यः तीर्थकरानुपदेशेन संस्थितिः कृतायथा नास्माभिर्महाकल्पाद्यतिशयश्रुतमन्यगणसत्कायदेयमिति, एवं च योऽन्यगणसत्काय न तद्ददाविति स धर्म त्यजति न गणस्थितिं, जिनाज्ञाननुपालनात्, तीर्थकरोपदेशो ह्येवं-सर्वेभ्यो योग्येभ्यः श्रुतंदातव्यमिति प्रथमो, यस्तु ददाति सद्वितीयः, यस्त्वयोग्येभ्यः तद्ददाति स तृतीयः, यस्तु श्रुताव्यवच्छेदार्थं तदव्यवच्छेदसमर्थस्य परशिष्यस्य स्वकीयदिग्बन्धं कृत्वा श्रुतं ददाति तेन न धर्मो नापि गणसंस्थितिस्त्यक्तेति स चतुर्थं इति, उक्तं
॥१॥ “सयमेव दिसाबंधं काऊण पडिच्छगस्स जो देइ ।
उभयमवलंबमाणं कामं तु तयंपि पूएमो" त्ति, प्रियो धर्मो यस्य तत्रप्रीतिभावेन सुखेन च प्रतिपत्तेः सप्रियधानच ढो धर्मोयस्य, आपद्यपि तत्परिणामाविचलनात्, अक्षोभत्वादित्यर्थः स दृढधर्मेति, उक्तंच॥१॥ "दसविहवेयावच्चे अन्नतरे खिप्पमुज्जमं कुणति ।
अच्चंतमनेव्वाणि धिइविरियकिसो पढमभंगो" अन्यस्तु हेढधा अङ्गीकृतापरित्यागात् न तु प्रियधर्मा कष्टेन धर्मप्रतिपत्तेः, इतरी सुज्ञानी, उक्तंच॥१॥ "दुक्खेण उगाहिजइ बीओ गहियं तुनेइ जा तीरं।
उभयं तो कल्लाणो तइओ चरिमो उपडिकुट्ठो” इति, आचार्यसूत्रचतुर्थभङ्गे यो न प्रव्राजनया न चोत्थापनयाचार्यः स क इत्याह - धर्माचार्य इति, प्रतिबोधक इत्यर्थः, आह च॥१॥ "धम्मोजेणुवइट्ठो सो धम्मगुरू गिही व समणो वा ।
कोवि तिहिं संपउत्तो दोहिवि एकेकगेणेव " इति, त्रिभिरिति-प्रव्राजनोत्थापनाधर्माचार्यत्वैरिति, उद्देशनम्-अङ्गादेः पठनेऽधिकारित्वकरणं तत्रतेन वाऽऽचार्यो-गुरुः उद्देशनाचार्यः,उभयशून्यः को भवतीत्याह-धर्माचार्य इति, अन्तेगुरोः समीपे वस्तुं शीलमस्यान्तेवासी-शिष्यः प्रव्राजनया-दीक्षया अन्तेवासी प्रव्राजनान्तेवासी दीक्षित इत्यर्थः, उपस्थापनान्तेवासीमहाव्रतारोपणतःशिष्य इति, चतुर्थभनकस्थःकइत्याह-धान्तेवासी धर्मप्रतिबोधनतः शिष्यः, धार्थितयोपसम्पन्नोवेत्यर्थः, यो नोद्देशनान्तेवासी न वाचनान्तेवासीति चतुर्थः, सक इत्याह-धर्मान्तेवासीति, निर्गताबाह्याभ्यन्तरग्रन्थानिर्ग्रन्थाः-साधवो, रलानिभावतो ज्ञानादीनि तैव्यवहरतीति रालिकः पर्यायज्येष्ठ इत्यर्थः श्रमणो-निर्ग्रन्थो महान्ति-गुरूणि स्थित्यादिभिस्तथाविधप्रमादाद्यभिव्यङ्गयानि कर्माणि यस्य स महाका, महती क्रियाकायिक्यादिका कर्मबन्धहेतुर्यस्य स महाक्रियः, न आतापयति-आतापनां शीतादिसहनरूपां करोतीत्यनातापी मन्दश्रद्धत्वादिति, अतएवासमितःसमितिभिः, सचैवंभूतो धर्मास्यानाराधको भवतीत्येकः, अन्यस्तु पर्यायज्येष्ठ एवाल्पका-लघुका अल्पक्रिय इति द्वितीयः, अन्यस्तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org