SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २६१ स्थान - ४, - उद्देशकः-३ सदसदुभयानुभयानुष्ठानरूपत्वात्, अथवा पथ्युत्पथयोः स्वपरसमयरूपत्वाद् यायित्वस्य च गत्यर्थत्वेन बोधपर्यायत्वात् स्वसमयपरसमय-बोधापेक्षयेयं चतुर्भङ्गी नेयेति, एकंपुष्पं रूपसम्पन्न न गन्धसम्पन्नमाकुलीपुष्वत् द्वितीयञ्च बकुलस्येव तृतीयं जातेरिव चतुर्थं बदयदिरिवेति, पुरुषो रूपसम्पनो-रूपवान् सुविहितरूपयुक्तो वेति ७ जाति ६ कुल ५ बल ४ रूप ३ श्रुत २ शील १ चारित्रलक्षणेषु सप्तसुपदेषु एकविंशतौ द्विकसंयोगेषुएकविंशतिरेव चतुर्भङ्गिकाः कार्याः सुगमाश्चेति, ___आमलकमिव मधुरं यदन्यत् आमलकमेव वा मधुरमामलकमधुरं 'मुद्दिय'त्ति मृद्वीकाद्राक्षा तद्वत्सव वा मधुरं मृद्वीकामधुरं क्षीरवत् खण्डवच्च मधुरमिति विग्रहः, यथैतानि क्रमेणेषद्बहुबहुतरबहुतममाधुर्यवन्ति तथा येआचार्या ईषद्बहुबहुतरबहुतमोपशमादिगुणलक्षणमाधुर्यवन्तस्ते तत्समानतया व्यपदिश्यन्त इति, आत्मवैयावृत्त्यकरोऽलसो विसम्भोगिको वा परवैयावृत्त्यकरः स्वार्थनिरपेक्षः स्वपरवैयावृत्त्यकरः स्थविरकल्पिकः कोऽपि उभयनिवृत्तोऽशनविशेषप्रतिपन्नकादिरिति, करोत्येवैकोवैयावृत्त्यं निःस्पृहत्वात् १ प्रतीच्छत्येवान्य आचार्यत्वग्लानत्वादिना २ अन्यः करोतिप्रतीच्छतिच स्थविरविशेषः ३ उभयनिवृत्तस्तु जिनकल्पिकादिरिति ४, 'अट्ठकरे'त्ति अर्थान्-हिताहितप्राप्तिपरिहारादीन राजादीनां दिग्यात्रादौ तथपदेशतः करोतीत्यर्थकर:-मन्त्री नैमित्तिको वा, स चार्थकरो नामेको न मानकरः, कथमहमनभ्यर्थितः कथयिष्यामीत्यवलेपवर्जितः, एवमितरे त्रयः, अत्र च व्यवहारभाष्यगाथा॥१॥ "पुढापुट्ठो पढमो जत्ताइ हियाहियं परिकहेइ। तइओ पुट्ठो सेसा उ निष्फला एव गच्छेवि" इति, गणस्य-साधुसमुदायस्यार्थान्-प्रयोजनानिकरोतीतिगणार्थकर:-आहारादिभिरुपष्टम्भकः, नच मानकरोऽभ्यर्थनानपेक्षत्वात्, एवं त्रयोऽन्ये, उक्तं च॥१॥ “आहारउवहिसयणाइएहिं गच्छस्सुवग्गहं कुणइ। बीओ न जाइ माणं दोनिवि तइओ न उचउत्थो;" इति, अथवा 'नो माणकरो'त्ति गच्छार्थकरोऽहमिति नमाद्यतीति । अनन्तरंगणस्यार्थ उक्तः, स च सङ्ग्रहोऽत आह-गणसंगहकरे'त्ति गणस्याहारादिना ज्ञानादिना च सङग्रहं करोतीति गणसङग्रहकरः, शेषं तथैव,स उक्तं च- । ॥१॥ "सो पुण गच्छस्सऽहो उ संगहो तत्थ संगहो दुविहो। दव्वे भावे नियमाउ होति आहारणाणादी" आहारोपधिशय्याज्ञानादीनीत्यर्थः, न माद्यति, गणस्यानवद्यसाधुसामाचारीप्रवर्त्तनेन वादिधर्मकथिनैमित्तिकविद्यासिद्धत्वादिना वा शोभाकरणशीलो गणशोभाकरो, नो मानकरोऽभ्यर्थनाऽनपेक्षितयामदाभावेन वा, गणस्य यथायचोगंप्रायश्चित्तदानादिना शोधि-शुद्धिं करोतीति गणशोधिकरः, अथवा शङ्किते भक्तादौ सति गृहिकुले गत्वाऽनभ्यर्थितो भक्तशुद्धिं करोति यः सप्रथमः, यस्तुमानानगच्छतिसद्वितीयः, यस्त्वभ्यर्थितोगच्छतिस तृतीयः, यस्तुनाभ्यर्थनापेक्षी नापि तत्र गन्ता स चतुर्थ इति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy