________________
स्थानं-४, - उद्देशकः-३
२५७ मारणान्तिकी सा चेत्यपश्चिममारणान्तिकी सा चासौ सङ्लिख्यतेऽनया शरीरकषायादीति सङ्गलेखना-तपोविशेषः सा चेति अपश्चिममाराणान्तिकीसङ्लेखना तस्याः 'जूसण'त्ति जोषण सेवनालक्षणो यो धर्मस्तया 'जूसिय'त्ति जुष्टः सेवितः अथवा क्षपितः-क्षपितदेहो यः स तथा, तथा भक्तपाने प्रत्याख्याते येन स तथा, पादपवत् उपगतो-निश्चेष्टतया स्थितः पादपोपगतः, अनशनविशेष प्रतिपन्न इत्यर्थः, कालं-मरणकालंअनवकासन्तत्रानुत्सुक इत्यर्थः,विहरति तिष्ठति
मू. (३३७) चत्तारि पुरिसजाया पं० त० - उदितोदिते नाममेगे उदितत्यमिति नाममेगे अस्थमितोदिते नाममेगे अत्थमियत्थमिते नाममेगे, भरहे राया चाउरंतचक्कवट्टी णं उदितोदिते, बंभदत्ते णंराया चाउरंतचक्कचट्टी उदिअस्थमिते, हरितेसबले गंअनगारेणंअत्थमिओदिते, काले णं सोचरिये अत्थमितेत्थमिते।
. उदितश्चासी उन्नतकुलबलसमृद्धिनिरवद्यकर्मभिरभ्युदयवान् उदितश्च परमसुखसंदोहोदयेनेत्युदितोदितो यथा भरतः, उदितोदितत्वं चास्य प्रसिद्धं १, तथा उदितश्चासौ तथैव अस्तमितश्च भास्कर इवसर्वसमृद्धिभ्रष्टत्वात् दुर्गतिगतत्वाचेत्युदितास्तमितो ब्रह्मदत्तचक्रवर्तीव, सहिपूर्वमुदितउन्नतकुलोत्पन्नत्वादिनास्वभुजोपार्जितसाम्राज्यत्वेनच पश्चादस्तमितः अतथाविधकारणकुपितब्राह्मणप्रयुक्तपशुपालनधनुर्गोलिकाप्रक्षेपणोपायप्रस्फोटिताक्षिगोलकतया मरणानन्तराप्रतिष्ठानमहानरकमहावेदनाप्राप्ततयाचेति २,तथाअस्तमितश्चासौ हीनकुलोत्पत्तिदुर्भगत्वदुर्गतत्वादिना उदितश्च समृद्धिकीर्तिसुगतिलाभादिनेति अस्तमितोदितो यथा हरिकेशबलाभिधानोऽनगारः, स हि जन्मान्तरोपात्तनीधैर्गोत्रकर्मवशावाप्तहरिकेशाभिधानचाण्डाललुलतया दुर्भगतया दरिद्रतया च पूर्वमस्तमितादित्य इवानभ्युदयवत्त्वादस्तमित इति,
पश्चात्तु प्रतिपन्नप्रवज्यो निष्पकम्पचरणगुणावर्जितदेवकृतसान्निध्यतया प्राप्तप्रसिद्धितया सुगतिगततया च उदित इति ३, तथा अस्तमितश्चासौ सूर्य इव दुष्कुलतया दुष्कर्मकारितया च कीर्तिसमृद्धिक्षणतेजोवर्जितत्वादस्तमितश्चदुर्गतिगमनादित्यस्तमितास्तमितः, यथाकालाभिधानः सौकरिकः, स हि सूकरैश्चरति-मृगयां करोतीति यथार्थः सौकरिक एव दुष्कुलोत्पन्नः प्रतिदिनं महिषपञ्चशतीव्यापादक इतिपूर्वमस्तमितः पश्चादपिमृत्वासप्तमनरकपृथिवींगत इति अस्तमित एवेति ४, भरहेत्यादि तु उदाहरणसूत्रं भावितार्थमेवेति । ये एवं विचित्रभावैश्चिन्त्यन्ते ते जीवाः सर्व एव चतुर्यु राशिष्ववतरन्तीति तान् दर्शयन्नाह
मू. (३३८) चत्तारिजुम्मा पं० तं० - कडजुम्मे तेयोए दावरजुम्मे कलिओए, नेरतिताणं चत्तारिजुम्मा पं० तं०-कडजुम्मे तेओएदावरजुम्मे कलितोए, एवं असुरकुमाराणंजाव थणियकुमाराणं, एवं पुढविकाइयाणं आउ० तेउ० वाउ० वणस्सति० बेदिताणं तेदियाणंचउरिदियाणं पंचिदियतिरिक्खजोणियाणं मणुस्साणं वाणमंतरजोइसियाणवेमाणियाणं सव्वेसिंजहानेरइयाणं
वृ. 'चत्तारि जुम्मे त्यादि, जुम्मत्ति-राशिविशेषः, यो हि राशिश्चतुष्कापहारेण अपहियमाणश्चतुःपर्यवसितो भवति स कृतयुग्म इत्युच्यते, यस्तु त्रिपर्यवसितः स योजः द्विपर्यवसितो द्वापरयुग्मः एकपर्यवसितः कल्योज इति, इह गणितपरिभाषायां समराशियुग्ममुच्यते विषमस्तु ओज इति, इयश्च समयस्थितिः, लोके तु कृतयुगादीनि एवमुच्यन्ते
"द्वात्रिंशत्सहस्राणि, कलौ लक्षचतुष्टयम् । वर्षाणां द्वापरादौ स्यादेतद् द्वित्रिचतुर्गुणम्” इति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org