SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २५६ स्थानाङ्ग सूत्रम् ४/३/३३६ पत्ते ४, एवामेव समणोवासगस्स चत्तारि आसासा पं० तं० जत्थ णं सीलव्वतगुणव्वत वेरमणपञ्चक्खाणपोसहोववासाइं पडिवज्जेति तत्थविअ से एगे आसासे पन्नत्ते १, जत्थविय णं सामाइयं देसावगासियं सम्ममनुपालेइ तत्थविय से एगे आसासे पं० २, जत्थवियं णं चाउद्दसमुद्दिपुन्नमासिणीसु पडिपुत्रं पोसहं सम्मं अनुपालेइ तत्थवि य से एगे आसासे पन्नत्ते ३, जत्थवि य णं अपच्छिममारणंतितसंलेहणाजूसणाजूसिते भत्तपाणपडितातिक्खिते पाओवगते कालमनवकखमाणे विहरति तत्थविय से एगे आसासे पन्नत्ते ४ वृ. भारं धान्यमुक्तोल्यादिकंवहमानस्य- देशाद्देशान्तरं नयतः पुरुषस्य आश्वासा-विश्रामाः, भेदश्च तेषामवसरभेदेनेति, यत्रावसरे अंसाद्-एकस्मात् स्कन्धादंसमिति-स्कन्धान्तरं संहरतिनयति भारमिति प्रक्रमः तत्रावसरे अपिचेति उत्तराश्वासापेक्षया समुच्चये 'से' तस्य वोदुरिति १, परिष्ठापयति व्युत्सृजति २, नागकुमारावासादिकमुपलक्षणमतोऽन्यत्र वाऽऽयतने वासुमुपैतीतिरात्रौ वसति ३ यावती यत्परिमाणा कथा-मनुष्योऽयं देवदत्तादिर्वाऽयमिति व्यपदेशलक्षणा यावत्कथा तया यावज्जीवमित्यर्थः, तिष्ठति वसति इत्ययं ध्ष्टान्तः ४, 'एवमेव'त्यादि दान्तिकः, श्रमणान् साधूनुपास्ते इति श्रमणोपासकः - श्रावकस्तस्य सावद्यव्यापारभाराक्रान्तस्य आश्वासाः तद्विमोचनेन विश्रामाः चित्तस्याश्वासनानि -स्वास्थ्यानि इदं मे परलोकभीतस्य त्राणमित्येवंरूपाणीति, स हि जिनागमसङ्गमावदातबुद्धितया आरम्भपरिग्रही दुःखपरम्पराकारिसंसारकान्तारकारणभूततया परित्याज्यावित्याकलयन् करणभटवशतया तयोः प्रवर्त्तमानो महान्तं खेदसन्तापं भयं चोद्वहति, भावयति चैवं 11911 "हियए जिणाण आणा चरियं मह एरिसं अउन्नस्स । एवं आलप्पालं अव्वो दूरं विसंवयइ ॥ हयमम्हाणं नाणं हयमम्हाणं मणुस्समाहप्पं । जे किल लद्धविवेया विचेट्टिमो वालबालव्व ॥” त्ति, यत्रावसरे शीलानि समाधानविशेषाः ब्रह्मचर्यविशेषा वा व्रतानि-स्थूलप्राणातिपातविरमणादीनि अन्यत्र तु शीलानि - अणुव्रतानि व्रतानि सप्त शिक्षाव्रतानि तदिह न व्याख्यातं, गुणव्रतादीनां साक्षादेवोपादानादिति, गुणव्रते-दिग्व्रतोपभोगपरिभोगव्रतलक्षणे विरमणानिअनर्थदण्डविरतिप्रकारा रागादिविरतयो वा प्रत्याख्यानानि - नमस्कारसहितादीनि पोषध:पर्वदिनमष्टम्यादि तत्रोपवसनम् - अभक्तार्थः पोषधोपवासः, एतेषां द्वन्द्वस्तान प्रतिपद्यतेअभ्युपगच्छति तत्रापि च 'से' तस्यैक आश्वासः प्रज्ञप्तो १, यत्रापि च सामायिकं सावद्ययोगपरिवर्जननिरवद्ययोगप्रतिसेवनलक्षणं यद्-व्यवस्थितः श्राद्धः श्रमणभूतो भवति, तथा देशे - दिग्व्रतगृहीतस्य दिक्खपरिमाणस्य विभागे अवकाश:अवस्थानमवतरो विषयो यस्य तद्देशावकाशं तदेव देशावकाशिकं दिव्रतगृहीतस्य दिक्परिमाणस्य प्रतिदिनं सङ्क्षेपकरणलक्षणं सर्वव्रतसङ्क्षेपकरणलक्षणं वा अनुपालयति प्रतिपत्त्यनन्तरमखण्डमासेवत इति, तत्रापि च तस्यैक आश्वासः प्रज्ञप्त इति २, उद्दिष्टेत्यमावास्या परिपूर्णमिति - अहोरात्रं यावत् आहारशरीरसत्कारत्यागब्रह्मचर्याव्यापारलक्षणभेदोपेतमिति ३, यत्रापिच पश्चिमैवामङ्गलपरिहारार्थमपश्चिमा सा चासौ मरणमेवान्तो मरणान्तस्तत्र भवा For Private & Personal Use Only ॥२॥ - Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy