________________
२५०
स्थानाग सूत्रम् ४/२/३२७
वृ.सूत्रसिद्धश्चायं, ॥१॥ केवलं-जम्बू १ लवणे धायइ २ कालोए पुक्खराइ ३ जुयलाई।
वारुणि ४ खीर ५ घय ६ इक्खू ७ नंदीसर ८ अरुण ९ दीवुदही ति
गणनयाऽष्टमो नन्दीश्वरः स एव वरः २, अमनुष्यद्वीपापेक्षया बहुतरजिनभवनादिसद्भावेन तस्य वरत्वादिति, तस्य चक्रवाल-विष्कम्भस्य प्रमाणं १६३८४०००००, उक्तंच॥१॥ "तेवढे कोडिसयंचउरासीइंच सयसहस्साई।
नंदीसरवरदीवे विक्खंभोचक्कवालेणं ।।" इति, मध्यश्चासौ देशभागश्च-देशावयवोमध्यदेशभागः,सचनात्यन्तिक इति बहुमध्यदेशभागो नप्रदेशादिपरिगणनयानिष्टङ्कितः,अपितुप्राय इति, अथवाअत्यन्तंमध्यदेशभागोबहुमध्यदेशभाग इति, तत्रइहाञ्जनकाः मूले दशयोजनसहस्राणि विष्कम्भेणेत्युक्तम्, द्वीपसागरप्रज्ञप्तिसङग्रहिण्यां तूक्तम्॥१॥ "चुलसीति सहस्साई उविद्धा ओगया सहस्समहे ।
धरणितले विच्छिन्ना यऊणगा ते दससहस्सा ॥ ॥२॥ नव चेव सहस्साई पंचेव य होंतिजोयणसयाई।
अंजनगपव्वयाणं मूलंमि उ होइ विक्खंभो ।।" ॥३॥ नवचेव सहस्साइंचत्तारिय होति जोयणसयाई ।
अंजनगपब्बयाणं धरणियले होइ विखंभो॥" इति, तदिदं मतान्तरमित्यवसेयमेवमन्यत्रापि, मतान्तरबीजानि तु केवलिगम्यानीति, 'गोपुच्छसंठाण'त्ति गोपुच्छो ह्यादौ स्थूलोऽन्ते सूक्ष्मस्तद्वत्तेऽपीति, 'सव्वंजणमय'त्ति अअनंकृष्णरत्नविशेषः तन्मयाः सर्व एवानन्यमयत्वेन सर्वथैवाचनमयाः सर्वाअनमयाः, परमकृष्णा इति भावः, उक्तंच-- ॥१॥ "भिंगंगरुइलकज्जलअंजणधाउसरिसा विरायंति।
गगनतलमनुलिहंता अंजनगा पव्वया रम्मा ।।" इति, अच्छाः आकाशस्फटिकवत्, सहा-लक्षणपरमाणुस्कन्धनिष्पन्नाः, श्लक्ष्णदलनिष्पन्नपटवत्, लण्हा-लक्ष्णमसृणा इत्यर्थः, घुण्टिवपटवत्, तथा घृष्टा इव घृष्टाः, खरशानया पाषाणप्रतिमावत्, मृष्टा इव मृष्टाः सुकुमारशानया पाषाणप्रतिमेव शोधिता वा प्रमार्जनिकयेव अत एव नीरजसः रजोरहितत्वात् निर्मलाः कठिनमलाभावात् धौतवस्त्रवद्वा निष्पका आर्द्रमलाभावात् अकलङ्कत्वाद्वा निकंकडच्छाया' निष्कङ्कटा निष्कवचा निरावरणेत्यर्थः छाया-शोभा येषां ते तथा अकलशोभा वा सप्रभा देवानन्दकत्वादिप्रभावयुक्ताः अथवा स्वेन आत्मना प्रभान्ति न परत इति स्वप्रभाः यतः “समिरीया' सहमरीचिभिः-किरणैर्येते तथा, अतएव सउज्जोया' सहोद्योतेनवस्तुप्रभासनेन वर्तन्ते येते तथा पासाईय'त्तिप्रासादीयाः-मनःप्रसादकराः दर्शनीयास्तांश्चक्षुषा पश्यन्नपि न श्रमं गच्छतीत्यर्थः अभिरूपाः-कमनीयाः प्रतिरूपाः द्रष्टारं द्रष्टारं प्रति रमणीया इति यावत्-शब्दसङ्ग्रहः, बहुसमाः-अत्यन्तसमा रमणीयाश्च येते
तथा सिद्धानि-शाश्वतानि सिद्धानां वा-शाश्वतीनामर्हप्रतिमानामायतनानि-स्थानानि सिद्धायतनानि, उक्तंच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org