________________
स्थानं - ४, - उद्देशकः -२
च प्राकृतत्वादिति, प्रकृतिविषयमल्पबहुत्वं बन्धाद्यपेक्षया, यथा सर्वस्तोकप्रकृतिबन्धक उपशान्तमोहादिः, एकविधबन्धकत्वाद्, बहुतरबन्धक उपशमकादिसूक्ष्मसम्परायः, षड्विधबन्धकत्वात्, बहुतरबन्धकः सप्तविधबन्धकस्ततोऽष्टविधबन्धक इति, स्थितिविषयमल्पबहुत्वं यथा- "सव्वत्थोवो संजयस्स जहन्नओ ठिइबंधो, एगेदियबायरपज्जत्तगस्स जहन्नओ ठिइबंधो असंखेज्जगुणो" इत्यादि, अनुभागं प्रत्यल्पबहुत्वं यथा, - " सव्वत्थोवाई अनंतगुणवुड्डिठाणाणि असंखेज्जगुणवुड्डिठाणाणि असंखेज्जगुणाणि जाव अनंतभागवुड्डिठाणाणि असंखेज्जगुणाणि " प्रदेशाल्पबहुत्वं यथा“अट्ठविहबंधगस्स आउयभागो थोवो नामगोयाणं तुल्लो विसेसाहिओ नाणदंसणावरणंतरायाणं तुल्लो विसेसाहिओ मोहस्स विसेसाहिओ वेयणीयस्स विसेसाहिओ" इति, यां प्रकृतिं बध्नाति जीवः तदनुभावेन प्रकृत्यन्तरस्थं दलिकं वीर्यविशेषेण यत्परिणमयति स सङक्रमः, उक्तं च119 11 " सो संकमोत्ति भन्नइ जब्बंधणपरिणओ पओगेणं । पययंतरत्थदलियं परिणामइ तदनुभावे जं" इति,
॥१॥
तत्र प्रकृतिसङ्क्रमः सामान्यलक्षणावगम्य एवेति, मूलप्रकृतीनामुत्तरप्रकृतीनां वा स्थितेर्यदुत्कर्षणं अपकर्षणं वा प्रकृत्यन्तरस्थितौ वा नयनं स स्थितिसङ्क्रम इति उक्तं च"टिइसंकमोत्ति वुच्चइ मूलुत्तरपगईओ उ जा हि ठिई । उव्वट्टिया व ओवट्टिया व पगई निया वऽन्नं " इति, -- अनुभागसंक्रमोऽप्येवमेव, यदाह - "तत्यट्ठपयं उव्वट्टिया व ओवट्टिया व अविभागा । अनुभागको एस अन्नपगई निया वावि " इति,
119 11
२४१
अट्ठपयंति- अनुभागसङक्रमस्वरूपनिर्द्धारणं, 'अविभाग' त्ति अनुभागाः 'निय'त्ति नीता इति । यत्कर्म्मद्रव्यमन्यप्रकृतिस्वभावेन परिणाम्यते स प्रदेशसङ्क्रमः, उक्तञ्च
"जं दलियमन्नपगई निज्जइ सो संकमो पएसस्स" इति, निधानं निहितं वा निधत्तं, भावे कर्म्मणि वा क्तप्रत्यये निपातनात्, उद्वर्त्तनापवर्त्तनावर्जितानां शेषकरणानामयोग्यत्वेन कर्म्मणोऽवस्थापनमुच्यते नितरां काचनं बन्धनंनिकाचितं कर्म्मणः सर्वकरणानामयोग्यत्वेनावस्थापनं, उक्तञ्चोभयसंवादि - "संकमणंपि निहत्तीए नत्थि सेसाणि वत्ति इयरस्स” इति, निकाचनाकरणस्येति, अथवा पूर्वबद्धस्य कर्म्मणस्तप्तसंमीलितलोहशलाकासम्बन्धसमानं निधत्तं, तप्तमिलितसंकुट्टितलोहशलाकासम्बन्धसमानंनिकाचितमिति, प्रकृत्यादिविशेषस्तूभयत्रापि सामान्यलक्षणानुसारेण नेय इति, विशेषतोबन्धादिस्व- रूपजिज्ञासुना कर्मप्रकृतिसङ्ग्रहणिरनुसरणीयेति ।
इहानन्तरमल्पबहुत्वमुक्तं, तत्रात्यन्तमल्पमेकं शेषं त्वपेक्षया बहु इत्यल्पबहुत्वाभिधायिन एककतिसर्वशब्दान् चतुः स्थानकेऽवतारयन् 'चत्तारी' त्यादि सूत्रत्रयमाह,
मू. (३१६) चत्तारि एक्का पं० तं०-दविए एक्कते माउ उक्कते पज्जते इक्कते संगहे इक्कते बृ. एकसङ्घयोपेतानि द्रव्यादीनि स्वार्थिककप्रत्ययोपादानादेककानि, तत्र द्रव्यमेवैककं द्रव्यैककं सचित्तादिभेदात् त्रिविधमिति, 'माउपएक्कए' त्ति मातृकापदैककम् एकं मातृकापदं, तद्यथा- उपपन्ने इवेत्यादि, इह प्रवचने दृष्टिवादे समस्तनयवादबीजभूतानि मातृकापदानि भवन्ति, तद्यथा-उप्पन्ने इ वा विगए इ वा धुवे इ वत्ति, अमूनि च मातृकापदानीव अ आ इत्येवमादीनि
316
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org