SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २४० स्थानाम सूत्रम् ४/२/३१५ व्यामोहकरः, एवं कर्मप्रकृतिः काचिज्ज्ञानमावृणोति काचिद्दर्शनं काचित् सुखदुःखादिवेदनमुत्पादयतीति, तथा तस्यैव मदकस्य यथाऽविनाशभावेन कालनियमरूपा स्थितिभवति, एवञ्च कर्मणोऽपि तद्भावेन नियतकालावस्थान स्थितिबन्धः, तथा तस्यैव मोदकस्य यथा स्निग्धमधुरादिरेकगुणद्विगुणादिभावेन रसो भवति, एवं कर्मणोऽपि देशसर्वघातिशुभाशुभतीव्रमन्दादिरनुभागबन्धः, तथा तस्यैवमोदकस्य यथा कणिक्कादिद्रव्याणांपरिमाणवत्त्वं एवं कर्मणोऽपि पुद्गलानां प्रतिनियतप्रमाणता प्रदेशबन्ध इति। उपक्रम्यते-क्रियतेऽनेनेत्युपक्रमः-कर्मणो बद्धत्वोदीरितत्वादिना परिणमनहेतुर्जीवस्य शक्तिविशेषोयोऽन्यत्र करणमिति रूढः, उपक्रमणं वोपक्रमो-बन्धनादीनामारम्भः, स्यादारम्भ उपक्रम इति वचनादिति, तत्र बन्धनं-कर्मपुद्गलानांजीवप्रदेशानांचपरस्परंसम्बन्धनं, इदंच सूत्रामात्रबद्धलोहशलाकासम्बन्धोपममवगन्तव्यं तस्योपक्रमः-उक्तार्थो बन्धनोपक्रमः, आसकलितावस्थस्य वा कर्मणो बद्धावस्थीकरणं बन्धनं तदेवोपक्रमो-वस्तुपरिकर्मरूपो बन्धनोपक्रमो, वस्तुपरिकर्मवस्तुविनाशरूपस्याप्युपक्रमस्याभिहितत्वादिति, एवमन्यत्रापि, नवरमप्राप्तकालफलानां कर्मणामुदये प्रवेशनमुदीरणा, उक्तंच॥१॥ “जं करणेणोकष्टिय उदए दिज्जइ उदीरणा एसा । पगईठिइअनुभागप्पएसमूलुतरविभागा।" तथा उदयोदीरणानिधत्तनिकाचनाकरणानामयोग्यत्वेन कर्मणोऽवस्थापनमुपशमनेति, उक्तंच-“ओवट्टणउववट्टण संकमणाइंच तिन्नि करणाई" इति, उपशमनायां सन्तीति प्रक्रमः, तथा विविधैः प्रकारैः कर्मणां सत्तोदयक्षयक्षयोपशमोद्वर्तनापवर्तनादिभिरेतद्रूपतयेत्यर्थःगिरिसरिदुपलन्यायेन द्रव्यक्षेत्रादिभिर्वा करणविशेषेण वाऽवस्थान्तरापादनं विपरिणामना, इह च विपरिणामना बन्धनादिषु तदन्येष्वप्युदयादिष्वस्तीति सामान्यरूपत्वाद् भेदेनोक्तेति। बन्धनोपक्रमो-बन्धनकरणंचतुर्द्धा, तत्रप्रकृतिबन्धनस्योपक्रमोजीवपरिणामोयोगरूपः, तस्य प्रकृतिबन्धहेतुत्वादिति, स्थितिबन्धनस्यापि स एव, नवरं, कषायरूपः, स्थितेः कषायहेतुकत्वादिति, अनुभागबन्धनोपक्रमोऽपि परिणाम एव, नवरं कषायरूपः, प्रदेशाबन्धनोपक्रमस्तु स एव योगरूप इति, यत उक्तम्-“जोगा पयडिपएसं ठिइअणुभागं कसायओ कुणइ" इति, प्रकृत्यादिबन्धनानामारम्मा वा उपक्रमा इति, एवमन्यत्रापि। ___ यन्मूलप्रकृतीनामुत्तरप्रकृतीनांवादलिकंवीर्यविशेषेणाकृष्योदये दीयतेसाप्रकृत्युदीरणेति, वीदिव चाप्राप्तोदययास्थित्या सहाप्राप्तोदया स्थितिरनुभूयतेसास्थित्युदीरणेति, तथैव प्राप्तोदयेन रसेन सहाप्राप्तोदयोरसोयोवेद्यतेसाऽनुभागोदीरणेति,तथाप्राप्तोयदयैर्नियतपरिमाणकर्मप्रदेशः सहाप्राप्तोदयानां नियतपरिमाणानां कर्मप्रदेशानां यद्वेदनं सा प्रदेशोदीकरणेति, इहापि कषाययोगरूपः परिणाम आरम्मो वोपक्रमार्थः, प्रकृत्युपशमनोपक्रमादयश्चत्वारोऽपि सामान्योपशम-नोपक्रमानुसारेणावगन्तव्याः, प्रकृतिविपरिणामनोपक्रमादयोऽपिसामान्यविपरिणामनोपक्रमल-क्षणानुसारेणावबोद्धव्याः, उपक्रमस्तुप्रकृत्यादित्वेनपुद्गलानांपरिणमनसमर्थ जीववीयमिति। 'अपाबहुए त्तिअल्पंच-स्तोकंबहुच-प्रभूतमल्पबहुतद्मावोऽस्पबहुत्वं, दीर्घत्वासंयुक्तत्वे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy