________________
२३८
स्थानाङ्ग सूत्रम् ४/२/३१२
नुबन्ध्यप्ररत्याख्यानप्रत्याख्यानावरणसजवलनरूपा क्रमेण ज्ञेया, प्रत्येकमित्यन्ये, तेनैवानन्तानुबन्धिन्याउदयेऽपि देवत्वादिनविरुध्यते, एवंमानादयोऽपि, वाचनान्तरेतुपूर्वक्रोधमानसूत्राणि ततो मायासूत्राणि, तत्र क्रोधसूत्राणि चत्तारिराइओपन्नत्ताओ, तं०-पव्वयराई पुढविराईरेणुराई जलराई, एवामेव चउबिहे कोहे' इत्यादि भायासूत्राणीवाधीतानीति, फलसूत्रे अनुप्रविष्टाःतदुदयवर्तीति,
शिलाविकारः शैलः स चासौ स्तम्भश्च-स्थाणुः शैलस्तम्भः, एवमन्येऽपि, नवरं, अस्थि दारुच प्रतीतं, तिनिशो-वृक्षविशेषस्तस्य लता-कम्बातिनिशलता, साचात्यन्तमृद्वीति, मानस्यापि शैलस्तम्भादिसमानतातद्वतो नमनाभावविशेषातज्ञेयेति, मानोऽप्यनन्तानुबन्ध्यादिरूपः क्रमेण श्यः, तत्फलसूत्रं व्यक्तं,
मिरागेवृद्धसम्प्रदायोऽयं मनुष्यादीनांरुधिरंगृहीत्वाकेनापियोगेनयुक्तंभाजनेस्थाप्यते, ततस्तत्र कृमय उत्पद्यन्ते, तेच वाताभिलाषिणः छिद्रनिर्गताआसन्ना भ्रमन्तो निहरिलाला मुञ्चन्ति ताः कृमिसूत्रं भण्यते, तधस्वपरिणामरागरञ्जितमेव भवति, अन्येभणन्ति-येरुधिरेकृमयउत्पद्यन्ते तान्तत्रैवमृदित्वा कचवरमुत्तार्यतद्रसेकञ्चिद्योगंप्रक्षिप्य पट्टसूत्रं रजयन्ति,सचरसः कृमिरागो भण्यते अनुत्तारिति, तत्र कृमीणांरागो-रअकरसः कृमिरागस्तेन रक्तं कृमिरागरक्तम्, एवं सर्वत्र, नवरं कईमो-गोवाटादीनां खञ्जनं-दीपादीनां हरिद्रा प्रतीतैवेति, कृमिरागादिरक्तवस्त्रसमानता च लोभस्य अनन्तानुबन्ध्यादित दवतां जीवानां क्रमेण ढहीनहीनतरहीनतमानुबन्धत्वात्, तथाहि-कृमिरागरक्तं वस्त्रं दग्धमपि न रागानुबन्धं मुञ्चति, तद्भस्मनोऽपि रक्तत्वाद्, एवं यो मृतोऽपि लोभानुबन्धं न मुञ्चति तस्याभिधीयते लोभः कृमिरागरक्तवस्त्रसमानोऽनन्तानुबन्धी चेति, एवं सर्वत्र भावना कार्येति, फलसूत्रं स्पष्टम्, इह कषायप्ररूपणागाथाः॥१॥ “जलरेणुपुढविपव्वयराईसरिसो चउबिहो कोहो ।
तिणिसलयाकमुट्ठियसेलत्यंभोवमो मानो ॥२॥ मायाऽवलेहिगोमुत्तिमेंढसिंगधनवंसिमूलसमा।
लोभो हलिद्दखंजणकद्दमकिमिरागसारिच्छो ॥३॥ पक्वचउमासवच्छरजावञ्जीवाणुगामिणो कमसो।
देवनरतिरियनारयगइसाहणहेयवो भणिया" इति ॥ अनन्तरंकषायाः प्ररूपिताः, कषायैश्च संसारो भवतीति संसारस्वरूपमाह
मू (३१३) चउबिहे संसारे पं० २०-नेरतियसंसारे जाव देवसंसारे चउब्बिहे आउते पं० तं०-नेरतिआउते जाव देवाउते । चउबिहे भवे पं० त०-नेरतिययभवेजाव देवभवे।
घ. 'चउब्दिहे' इत्यादि व्यक्तं, किन्तु संसरणं संसार:-मनुष्यादिपर्यायान्नारकादिपर्यायगमनमिति, नैरयिकप्रायोग्येष्वायुर्नामगोत्रादिषु कर्मसूदयगतेषु जीवो नैरयिक इति व्यपदिश्यते, उक्तं च-"नेरइए णं भंते ! नेरइएसु उववनइ अनेरइए नेरइएसु उववञ्जइ ?, गोयमा !, नेरइए नेरइएसु उववजइ नो अनेरइए नेरइएसु उववजई" इति, ततो नैरयिकस्य संसरणम्-उत्पत्तिदेशगमनमपरापरावस्थागमनं वा नैरयिकसंसारः, अथवा संसरन्ति जीवा यस्मिन्नसौ संसारो - गतिचतुष्टयं, तत्र नैरयिकस्यानुभूयमानगतिलक्षणः परम्परया धतुर्गतिको
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org