SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् ४/२/३०३ इत्यादिरूपा विभक्तिपरिणामात् तया जागरिता-जागरको भवति, अथवा धर्म्मजागरिकां जागरिता-कर्तेति द्रष्टव्यमिति, तथा प्रगता असवः उच्छ्वासादयः प्राणा यस्मात् स प्रासुकोनिर्जीवस्तस्य एष्यते - गवेष्यते उद्गमादिदोषरहिततयेत्येषणीयः कल्प्यस्तस्य उञ्छयतेअल्पाल्पतया गृह्यत इत्युञ्छो भक्तपानादिस्तस्य समुदाने भिक्षणे याञ्चाया भवः सामुदानिकः तस्य नो सम्यग्गवेषयिता - अन्वेष्टा भवति, इत्येवंप्रकारैः - एतैरनन्तरोदितैरित्यादि निगमनम्, एतद्विपर्ययसूत्रं कण्ठ्यं ॥ निर्ग्रन्थप्रस्तावात्तदकृत्यनिषेधाय सूत्रे - मू. (३०४) नो कप्पति निग्गंधाण वा निग्गंधीण वा चउहिं महापाडिवएहिं सज्झायं करेत्तए, तं० - आसाढपाडिवए इंदमहपाडिवए कत्तियपाडिवए सुगिम्हपाडिवए १, नो कप्पइ निग्गंधाण वा निग्गंधीण वा चउहिं संझाहिं सज्झाई करेत्तए, तं०-पढमाते पच्छिमाते मज्जण्हे अड्डरते २ || कप्पइ निग्गंथाण वा निग्गंधीण वा चाउक्कालं सज्झायं करेत्तए, तं०-पुव्वण्हे, अवरण्हे पओसे पसे , ॥१॥ . 'नो कम्पई' त्यादिके कण्ठ्ये, केवलं महोत्सवानन्तरवृत्तित्वेनोत्सवानुवृत्त्या शेषप्रतिपद्धर्मविलक्षणतया महाप्रतिपदस्तासु, इह च देशविशेषरूढ्या पाडिवएहिंति निर्देशः, स्वाध्यायो - नन्द्यादिसूत्रविषयो वाचनादिः, अनुप्रेक्षा तुन निषिध्यते, आषाढस्य पौर्णमास्या अनन्तरा प्रतिपदाषाढप्रतिपदेवमन्यत्रापि, नवरमिन्द्रमहः - अश्वयुक्पौर्णमासी, सुग्रीष्मः चैत्रपौर्णमासीति, इह च यत्र विषये यतोदिवसान्महामहाः प्रवर्त्तन्ते तत्रतद्दिवसात् स्वाध्यायोन विधीयते महसमाप्तिदिनं यावत्, तच पौर्णमास्येव प्रतिपदस्तु क्षणानुवृत्तिसम्भवेन वर्ज्यन्त इति, उक्तं च"आषाढी इंदमहो कत्तिय सुगिम्हए य बोद्धव्वो । एए महामहा खलु सव्वेसिं जाव पाडिवया ” इति, - अकालस्वाध्याये चामी दोषाः “सुयनाणंमि अभत्ती लोगविरुद्धं पमत्तछलणा य । विजासाहणवेगुन्नधम्मया एव मा कुणसु" इति, विद्यासाधनवैगुण्यसाधर्म्येणैवेत्यर्थः, प्रथमा सन्ध्या अनुदिते सूर्ये पश्चिमा-अस्तम-यसमये उक्तविपर्ययसूत्रं कण्ठ्यं, किन्तु 'पुव्वण्हे अवरण्हे' त्ति दिनस्याद्यचरमप्रहरयोः 'पओसे पच्चूसे 'त्ति . रात्रेरिति । स्वाध्यायप्रवृत्तस्य च लोकस्थितिपरिज्ञानं भवतीति तामेव प्रतिपादयन्नाह भू. (३०५) चउव्विहा लोगाट्ठिता पं० तं०-आगासपतिट्ठिए बाते वातपतिट्ठिए उदधी उदधिपतिट्टिया पुढवी पुढविपइट्टिया तसा थावरा पाणा ४ वृ. 'चउव्विहे 'त्यादि, लोकस्य क्षेत्रलक्षणस्य स्थितिः -व्यवस्था लोकस्थितिः, आकाशप्रतिष्ठितो बातो धनवाततनुवातलक्षणः, उदधिः- धनोदधिः, पृथिवी रत्नप्रभादिका, त्रसाहीन्द्रियादयस्ते पुनर्येरलप्रभादिपृथ्वीष्वप्रतिष्ठितास्तेऽपि विमानपर्वतादपृथिवीप्रतिष्ठितत्वात् पृथिवीप्रतिष्ठिता एव, विमानपृथिवीनां चाकाशादिप्रतिष्ठितत्वं यथासम्भवमवसेयम्, अविवक्षा वेह विमानादिगतदेवादित्रसानामिति, स्थवरास्त्विह बादरवनस्पत्यादयो ग्राह्याः, सूक्ष्माणां सकललोकप्रतिष्ठितत्वात्, शेषं सुगममिति । अनन्तरं त्रसाः प्राणा उक्ताः, अधुना त्रसप्राणविशेषस्य - For Private & Personal Use Only www.jainelibrary.org २३२ ॥१॥ Jain Education International
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy