SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २३३ स्थानं-४,- उद्देशकः-२ मू. (३०६) चत्तारिपुरिसजाता पं० तं०-तहे नाममेगे नोतहे नामभेगे सोवत्थी नाममेगे पधाणे नाममेगे ४, चत्तारि पुरिसजाया पं० २०-आयंतकरे नाममेगे नो परंतकरे १ परंतकरे नाममेगे नो आतंतकरे २ एगे आतंतकरेवि परंतकरेवि ३ एगेनो आतंतकरे नो परंतकरे ४, २, चत्तारि पुरिसजाता पं० तं०-आतंतमे नाममेगे नो परंतमे परंतमे नो ४,३, चत्तारि पुरिसजाया पं० तं०-आयंदमे नाममेगे नो परंदमे ४,४।। वृ. 'चत्तारि'त्यादिभिश्चतुर्भिश्चतुर्भङ्गीसूत्रेः स्वरूपं दर्शयति, कण्ठ्यानि चैतानि, केवलं 'तह'त्ति सेवकः सन्यथैवादिश्यते तथैव यः प्रवर्ततेस तथा, अन्यस्तु नो तथैवान्यथापीत्यर्थः, इति नोतथः, तथा स्वस्तीत्याहचरति वा सौवस्तिकःप्राकृतत्वात् ककारलोपेदीर्घत्वे च सोवत्थीमाङ्गलिकाभिधायी मागधादिरन्यः, एतेषामेवाराध्यतया प्रधानः-प्रभुरन्य इति, 'आयंतकरे'त्ति आत्मनोऽन्तम्-अवसानं भवस्य करोतीत्यात्मान्तकरः, नो परस्य भवान्तकरो, धर्मदेशनानासेवकः प्रत्येकबुद्धादिः १, तथा परस्य मवान्तं करोति मार्गप्रवर्तनेन परान्तकरो नात्मान्तकरोऽचरमशरीर आचार्यादिः २, तृतीयस्तु तीर्थकरोऽन्यो वा३, चतुर्थो दुष्षमाचार्यादिः४, अथवाऽऽत्मनोऽन्तं-मरणं करोतीति आत्मान्तकरः, एवं परान्तकरोऽपि, इह प्रथम आत्मवधको द्वितीयः परवधकः तृतीय उभयहन्ता चतुर्थस्त्ववधक इति, अथवाऽऽत्मतन्त्रः सन् कार्याणि करोतीत्यात्मतन्त्रकरः, एवं परतन्त्रकरोऽपि, इह तु प्रथमो जिनो, द्वितीयो भिक्षुः, तृतीय आचार्यादिः, चतुर्थः कार्यविशेषापेक्षया शठ इति, अथवा आत्मतन्त्र-आत्मायत्तं धनगच्छादिकरोतीत्यात्मतन्त्रकर एवमितरापिभङ्गयोजना स्वयमूह्येति। तथा आत्मानं तमयति-खेदयतीत्यात्मतमः-आचार्यादिः, परं-शिष्यादिकं तमयतीति परमतः, सर्वत्र प्राकृतत्वादनुस्वारः, अथवा आत्मनि तमः-अज्ञानं क्रोधो वा यस्य स आत्मतमाः, एवमितरेऽपि, तथा आत्मानं दमयति-शमवन्तं करोति शिक्षयति वेत्यात्मदमः आचार्योsश्वदमकादिर्वा, एवमितरेऽपि, नवरं परः-शिष्योऽश्वादि । 'मू. (३०७) चउविधा गरहा पं० २०-उवसंपज्जामित्तेगा गरहा वितिगिच्छामित्तेगा गरहा जंकिंचिमिच्छामीत्तेगा गरहा एवंपि पन्नत्तेगा गरहा वृ. दमश्च गड़गाँतः स्यादिति गर्हासूत्रं, तत्र गुरुसाक्षिका आत्मनो निन्दा गर्दा, तत्र उपसंपद्ये-आश्रयामि गुरुंस्वदोषनिवेदनार्थं अभ्युपगच्छामि वोचित्तं प्रायश्चित्तं इतीत्येवंप्रकारः परिणाम एका गहेंति, गर्हात्वं चास्योक्तपरिणामस्ये गर्दायाः कारणत्वेन कारणे कार्योपचाराद् गर्दासमनफलत्वाच्च द्रष्टव्यमिति, अभिधीयते हि भगवत्याम् ___निग्गंथे णं गाहावइकुलं पिंडवायपडियाए, पविटेणं अन्नयरे अकिञ्चट्ठाणे पडिसेविए, तस्सणंएवंभवइ-इहेवताव हंएयरस ठाणस्स आलोएमि पडिकमामि निंदामिजावपडिवजामि, तओ पच्छा थेराणं अंतियं आलोइस्सामि० से य संपढ़िए असंपत्ते अप्पणा य पुव्वमेव कालं करेजा से णं भंते ! किं आराहए विराहए? गोयमा! आराहए नो विराहए"त्ति, तथा वितिगिच्छामित्तिवीति-विशेषेण विविधप्रकारैर्वाचिकित्सामि-प्रतिकरोमिनिराकरोमिगर्हणीयान्दोषान् इतीत्येवंविकल्पात्मिकाएकाऽन्या गर्दा, ततएवेति, तथा जंकिंचिमिच्छामीतित्तियत्किञ्चनानुचितं तन्मिथ्या-विपरीतंदुष्ठुमे-ममइत्येवंवासनागर्भवचनरूपाएकाऽन्यागर्हा, एवंस्वरूपत्वादेवगर्हायाः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy