SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २३० स्थानाङ्ग सूत्रम् ४/२/३०१ संवेगयति संवेगं करोतीति संवेद्यते वा संबोध्यते संवेज्यते वा संवेगं ग्राह्यते श्रोताऽनयेति संवेदनी संवेजनी वेति, निर्विद्यते संसारादेर्भिर्व्विण्णः क्रियते अनयेति निर्वेदनीति, आचारोलोचास्नानादिस्तत्प्रकाशनेन आक्षेपणी आचाराक्षेपणीति, एवमन्यत्रापि, नवरं व्यवहारःकथञ्चिदापन्नदोषव्यपोहाय प्रायश्चित्तलक्षणः, प्रज्ञप्तिः संशयापन्नस्य श्रोतुर्मधुरवचनैः प्रज्ञापनं, दृष्टिवादः श्रोत्रपेक्षया नयानुसारेण सूक्ष्मजीवादिभावकथम्, अन्ये त्वभिदधति - आचारादयो ग्रन्था एव परिगृह्यन्ते, आचाराद्यभिधानादिति, अस्याश्चायं रसः - ॥१ ॥ “विजाचरणं च तवो पुरिसक्कारो य समिइगुत्तीओ । उवइस्सइ खलु जं सो कहाए अक्खेवणीइ रसो " इति, स्वसमयं स्वसिद्धान्तं कथयति, तद्गुणानुद्दीपयति पूर्वं ततस्तं कथयित्वा पररसमयं कथयति, तद्दोषान् दर्शयतीत्येका, एवं परसमयकथनपूर्वकं स्वसमयं स्थापयिता स्वसमयगुणानां स्थापको भवतीति द्वितीया, 'सम्मावाय' मित्यादि, अस्यायमर्थः - परसमयेष्वपि घुणाक्षरन्यायेन यो यावान् जिनागमतत्त्वादसध्शतया सम्यग्-अविपरीततत्त्वानां वादः सम्यग्वादः तं कथयति, तं कथयित्वा तेष्वेव यो जिनप्रणीततत्त्वात् विरुद्धत्वान्मिथ्यावादस्तं दोषदर्शनतः कथयतीति तृतीया, परसमयेष्वेव मिथ्यावादं कथयित्वा सम्यग्वदं स्थापयिता भवतीति चतुर्थी, अथवा सम्यग्वादः - अस्तित्वं, मिथ्यावादो- नास्तित्वं, तत्र आस्तिकवादिष्टीरुक्त्वा नास्तिकवादिदृष्टीर्भणतीति तृतीया, एतद्विपर्यया चतुर्थीति, इहलोको - मनुष्यजन्म तत्स्वरूपकथनेन संवेगनी इहलोकसंवेगनी, सर्वमिदं मानुषत्वमसारमध्ध्रुवं कदलीस्तम्भसमानमित्यादिरूपा, एवं परलोकसंवेदनी देवादिभवस्वभावकथनरूपादेवा अपीष्याविषादभयवियोगादिदुः खैरभिभूताः, किं पुनस्तिर्यगादय इति, आत्मशरीरसंवेगनी यदेतदस्मदीयं शरीरमेतदशुचि अशुचिकारणजातमशुचिद्वारविनिर्गतमिति न प्रतिबन्धस्थानमित्यादिकथनरूपा, एवं परशरीरसंवेगनी, अथवा परशरीरं-मृतकशरीरमिति, इहलोके दुश्चीर्णानि - चौर्यादीनि कर्माणि क्रिया इहलोके दुःखमेव कर्म्मद्रुमजन्यत्वात् फलं दुःखफलं तस्य विपाकः अनुभवो दुःखफलविपाकस्तेन संयुक्तानि दुःखफलविपाकसंयुक्तानि भवन्ति चौरादीनामिवेत्येका, एवं नारकाणामिवेति द्वितीया, आ गर्भात् व्याधिदारिद्याभिभूतानामिवेति तृतीया, प्राक्कृताशुभकर्मोत्पन्नानां नरकप्रायोग्यं बध्नतां काकगृधादीनामिव चतुर्थीति, 'इहलोए सुचित्रे' त्यादि चतुर्भङ्गी तीर्थकरदानदातृ १ सुसाधु २ तीर्थकर ३ देवभवस्थतीर्थकरादीना ४ मिव भावनीयेति । उक्तो वाग्विशेषोऽधुना पुरुषजातप्रधानतया कायविशेषमाह मू. (३०२) तहेव चत्तारि पुरिसजाया पं० तं०- किसे नाममेगे किसे किसे नाममेगे दढे दढे नाममेगे किसे दढे नाममेगे दढे, चत्तारि पुरिसजाया पं० तं०-किसे नाममेगे किससरीरे किसे नाममेगे दढसरीरे दढे नाममेगे किससरीरे दढे नाममेगे दढसरीरे ४ । चत्तारि पुरिसजाया पं० तं० - किससरीरस्स नामेगस्स नाणदंसणे समुप्पञ्जति नो दढसरीरस्स दढसरीरस्स नाम एगस्स नाणदंसणे समुप्पज्जति नो किससरीरस्स एगस्स किससरीरस्सवि नाणदंसणे समुपज्जति दढसरीरस्सवि एगस्स नो किससरीरस्स नाणदंसणे समुप्पञ्जति नो दढसरीरस्स। For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy