________________
स्थानं-४, - उद्देशकः -२ ॥१॥ "आयपरमोहुदीरणं उड्डाहो सुत्तमाइपरिहाणी।
बंभवयस्स अगुत्ती पसंगदोसाय गमणादी" उनिष्क्रमणादय इत्यर्थः, तथा शाकघृतादीन्येतावन्ति तस्यां रसवत्यामुपजुयज्यन्त इत्येवंरूपाकथा आवापकथा, एतावन्तस्तत्रपक्वापक्वान्नभेदा व्यञ्जनभेदा वेति निर्वापकथेति, तित्तिरादीनामियतांतत्रोपयोग इत्यारम्भकथा, एतावत् द्रविणंतत्रोपयुज्यत इति निष्ठानकथेति, उक्तश्च
“सागघयादावादो पक्वापक्वो य होइ निव्वावो । आरंभ तित्तिराई निट्ठाणंजा सयसहस्सं"
- इति, इह चामी दोषाः॥२॥ "आहारमन्तरेणवि गेहीओ जायए सइंगालं !
अजिइंदिय ओदरियावाओ उ अणुनदोसाय" इति, तथा देशे मगधादौ विधिः- विरचना भोजनमणिभूमिकादीनां भुज्यते वा यद्यत्र प्रथमतयेति देशविधिस्तत्कथा देशविधिकथा, एवमन्यत्रापि, नवरं, विकल्पः-सस्यनिष्पत्तिः वप्रकूपादिदेवकुलभवनादिविशेषश्चेति, छन्दो गम्यागम्यविभागो यथा लाटदेशे मातुलभगिनी गम्या अन्यत्रागम्येति, नेपथ्यं-स्त्रीपुरुषाणां वेशः स्वाभाविको विभूषाप्रत्ययश्चेति, इह दोषाः॥१॥ “रागद्दोसुप्पत्ती सपक्खपरपक्खओ य अहिगरणं।
बहुगुण इमोत्ति देसो सोउंगमणं च अन्नेसिं " इति,
तथा अतियानं-नगरादौ प्रवेशस्तत्कथा अतियानकथा, यथा॥१॥
"सियसिंधुरखंधगओ सियचमरो सेयछत्तछन्नणहो। जणणयणकिरणसेओ एसो पविसइ पुरे राया" इति,
एवं सर्वत्र, नवरं निर्याण-निर्गमः, तत्कथा यथा॥१॥ "वजंताउज्जममंदबंदिसदं मिलंतसामंतं ।
संखुद्धसेन्नमुटुंयचिंधं नयरा निवो नियइ"
- बलं हस्त्यादि वाहनं-वेगसरादि, तत्कथा यथा॥१॥ "हेसंतहयं गअंतमयगलं घनघनंतरहलक्खं ।
कस्सऽन्नस्सवि सेनं निन्नासियसत्तुसिन भो!" - कोशो-भाण्डागारं कोष्ठागारं-धान्यागारमिति, तत्कथा यथा-- ॥१॥ 'पुरिसपरंपरत्तेण भरियविस्संभरेण कोसेणं। निजियवेसमणेणं तेन समो को निवो अन्नो?" इति,
-इह चैते दोषाः॥१॥ "चारिय चोरा १ भिमरे २ हिय १ मारिय २ संक काउकामा वा ।
मुत्ताभुत्तोहाणे करेज वा आससपओगं" भुक्तभोगोऽभुक्तभोगोवाअवधावनं कुर्यादित्यर्थः ।आक्षिप्यते-मोहात्तत्त्वंप्रत्याकृष्यते श्रोताऽनयेत्याक्षेपणी, तथा विक्षिप्यते सन्मार्गातकुमार्गकुमार्गाद्वासन्मार्गे श्रोताऽनयेतिविक्षेपणी,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org