SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ स्थानं ४, - उद्देशक: २ - २२७ पुरुषोऽप्येवं भावनीयः, उत्तरसूत्राणि तु चत्वारि सदार्थन्तिकानि, भद्रादिपदानि चत्वारि तदधः क्रमेण चत्वार्येव भद्रमनः प्रभृतीनि च विन्यस्य "भद्दे नामं एगे भद्रमणे" इत्यादिना क्रमेण समवसेयानि, तत्र भद्रो जात्याकाराभ्यां प्रशस्तस्तथा भद्रं मनो यस्याथवा भद्रस्येव मनो यस्य स तथा धीर इत्यर्थः, मन्दं मन्दस्येव वा मनो यस्य स तथा नात्यन्तधीरः, एवं मृगमना भीरुरित्यर्थः, सङ्कीर्णमना भद्रादिचित्रलक्षणोपेतमना विचित्रचित्त इत्यर्थः, पुरषास्तु वक्ष्यमाणभद्रादिलक्षणानुसारेण प्रशस्तप्रशस्तस्वरूपा मन्तव्या इति, भद्रादिलक्षणमिदम्- पू. (२९६) मधुगुलियपिंगलक्खो अनुपुव्वसुजायदीहणंगूलो । पुरओ उदग्गधीरो सव्वंगसमाधितो भद्दो । वृ. 'महु' गाथा माधुगुटिकेव-क्षौद्रवटिकेव पिङ्गले पिङ्गे अक्षिणी - लोचने यस्य स तथा, अनुपूर्वेण परिपाठ्या सुष्ठु जातः उत्पन्नो यः सोऽनुपूर्वसुजातः, स्वजात्युचितकालक्रमजातो हि बलरूपादिगुणयुक्तो भवति स चासौ दीर्घलाङ्गुलश्च दीर्घपुच्छ इति स तथा, अनुपूर्व्येण वा स्थूलसूक्ष्मसूक्ष्मतरलक्षणेन सुजातं दीर्घं लाङ्गूलं यस्य स तथेति, पुरतः अग्रभागे उदग्रः उन्नतः तथा धीरः - अक्षोभः तथा सर्वाण्यङ्गानि सम्यक्-प्रमाणलक्षणोपेतत्वेन आहितानि व्यवस्थितानि यस्य स सर्वाङ्गसमाहितो भद्रो नाम गजविशेषो भवतीति । मू. (२९७) चलबहलविसमचम्मो धूलसिरो थूलएण पेएण । थूलणहदंतवाली हरिपिंगललोयणो मंदे खृ. 'चल' गाहा, चलं-श्लथं बहलं स्थूलं विषमं वलियुक्तं चर्म्म यस्य स तथा, स्थूलशिराः, स्थूलकेन 'पेएण' त्ति पेचकेन पुच्छमूलेन युक्तः स्थूलनखदन्तवालो, हरिपिङ्गललोचनः - सिंहवत् पिङ्गाक्षो मन्दो गजविशेषो भवतीति । मू. (२९८) तणुओ तणुतग्गीवो तणुयततो तणुयदंतणहवालो । भीरू तत्युव्विगो तासी य भवे मिते नामं घृ. 'तणु’गाहा, तनुकः-कृशः तनुग्रीवः तनुत्वक्-तनुचर्म्मा तनुकदन्तनखवालः, भीरु:भयशीलः स्वभावतस्तो भयकारणवशात् स्तब्धकर्णकरणादिलक्षणोपेतो भीत एव उद्विग्नः कष्टविहारादावुद्वेगवान् स्वयं त्रस्तः परानपि त्रासयतीति नासी च भवेन्मृगो नाम गजभेद इति । एतेसिं हत्थीणं थोवं थोवं तु जो हरति इत्थी । रूवेण व सीलेण व सो संकिन्नोत्ति नायव्वो पू. (२९९) वृ. 'एएसिं गाहा' (स्पष्टा) सू. (३००) 119 11 भद्दो भज्जइ सरए मंदो उण मज्जते वसंतंमि । मिउ मज्जति हेमंते संकिन्ने सव्वकालंमि । वृ. 'भद्दो गाहा' कण्ठ्या । तथा दंतेहिं हणइ भद्दी मंदो हत्थेण आहाणइ हत्थी । गत्ताघरेहि य मिओ, संकिनो सव्वओ हाइ ?? इति, अनन्तरं संकीर्णः सङ्गीर्णमना इत्यत्र मनः स्वरूपमुक्तमथ वाचः स्वरूपभणनाय विकथाकथाप्रकरणमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy