________________
स्थानं -४,-उद्देशकः-१
२२३
॥४॥ दवगुलपिंडगुला दो मज्जं पुण कट्टपिट्ठनिष्फनं ।
मच्छियकोत्तियभामरमेयं च तिहामहं होइ॥ जलथलखहयरमंसंचम्मं वस सोणियं तिहेयंपि।
आइल्ल तिनि चलचल ओगाहिमगंच विगईओ।
-आदिमानि त्रीणि चलचलेत्येवं पक्कानि विकृतिरित्यर्थः॥१॥ “सेसा न होति विगई अजोगवाहीण ते उ कप्पंती।
परिभुजंति न पायंजं निच्छयओ न नजंति ॥२॥ एगेण चेव तवओ पूरिज्जति पूयएण जो ताओ।
बीओवि स पुण कपइ निविगई लेवडो नवरं" इत्यादि । अचेतनान्तराधिकारादेव गृहविशेषान्तरं दृष्टान्ततयाऽभिधित्सुः पुरुषस्त्रियोश्चान्तरं दार्शन्तिकतया अभिधातुकामः सूत्रचतुष्टयमाह
मू. (२८९) चत्तारि कूडागारा पं० २०-गुत्ते नाम एगे गुत्ते गुत्ते नाम एगे अगुत्ते अगुत्ते नाम एगे गुत्ते अगुत्ते नाम एगे अगुत्ते, एवामेव चत्तारि पुरिसजाता पं०-गुत्ते नाममेगे गुत्ते ४, चत्तारि कूडागारसालाओ पं० तं०-गुत्ता नाममेगा गुत्तदुवारा गुत्तानाममेगा अगुत्तदुवारा अगुत्ता नाममेगागुत्तदुवारा अगुत्ता नाममेगाअगुत्तदुवारा, एवामेव चत्तारित्थीओपं० त०-गुत्ता नाममेगा गुतिंदिता गुत्ता नाममेगा अगुतिंदिआ ४।।
वृ. 'चत्तारि कूड़े' त्यादि, कूटानि शिखराणि स्तूपिकास्तद्वन्त्यगाराणि-गेहानि-अथवा कूटं-सत्त्वबन्धस्थानं तद्वदगाराणि कूटागाराणिं, तत्र गुप्तं प्राकारादिवृतं भूमिगृहादि वा पुनर्गुप्तं स्थगितद्वारतया पूर्वकालापरकालापेक्षया वेति, एवमन्येऽपि त्रयो भङ्गा बोद्धव्याः, पुरुषस्तु गुप्तो नेपथ्यादिनाऽन्तर्हितत्वेन पुनर्गुप्तो गुप्तेन्द्रियत्वेन, अथवा गुप्तः पूर्वं पुनर्गुप्तोऽधुनापीति, विपर्यय ऊह्यः, तथा कूटस्येव आकारो यस्याः शालाया-गृहविशेषस्य सा तथा, अयं च स्त्रीलिङ्गदृष्टान्तः स्त्रीलक्षणदार्थन्तिकार्थसाधर्म्यवशात्, तत्र गुप्ता-परिवारावृता गृहान्तर्गता वस्त्राच्छादिताङ्गा गूढस्वभावा वा गुप्तेन्द्रियस्तु निगृहीतानौचित्यप्रवृत्तेन्द्रियाः एवं शेषभङ्गा ऊह्याः ।
म. (२९०) चउविहा ओगाहणा पं० २०-दव्योगाहणा खेत्तोगाहणा कालोगाहणा भावोगाहणा।
वृ. अनन्तरं गुप्तेन्द्रियत्वमुक्तमिन्द्रियाणि चावगाहनाश्रयाणीत्यावगाहनानिरूपणसूत्रं, अवगाहन्ते-आसते यस्यां आश्रयन्ति वा यां जीवाः साऽवगाहना-शरीरं द्रव्यतोऽवगाहना द्रव्यावगाहना, एवंसर्वत्र, तत्र द्रव्यतोऽनन्तद्रव्या क्षेत्रतोऽसङ्ख्त्येयप्रदेशावगाढा, कालतोऽसद्धयेयसमयस्थितिका, भावतो वर्णाधनन्तगुणेति, अथवाऽवगाहना विवक्षितद्रव्यस्याधारभूता आकाशप्रदेशाः, तत्र द्रव्याणामवगाहना द्रव्यावगाहना, क्षेत्रमेवावगाहना क्षेत्रावगाहना, कालस्यावगाहना समयक्षेत्रलक्षणा कालावगाहना, भाववतां द्रव्याणामवगाहनाभाववागाहना, भावप्राधान्यादिति, आश्रयणमात्रं वा अवगाहना, तत्र द्रव्यस्य पर्यायैरवगाहना-आश्रयणं द्रव्यावगाहना, एवं क्षेत्रस्य कालस्य, भावानां द्रव्येणेति, अन्यथा वोपयुज्य व्याख्येयमिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org