SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ २१८ तु शेषतपांसि तत्रैवान्तर्भावनीयानि, इह तीर्थे षण्मासान्तत्वात् तपस इति, उक्तं च“पंचाईयारोवण नेयव्वा जाव होंति छम्मासा । 119 11 तेण पर मासियाणं छण्हुवरिं जोसणं कुजा " इति, स्थानाङ्ग सूत्रम् ४/१/२७७ आरोपणया प्रायश्चित्तमारोपणाप्रायश्चित्तमिति तथा परिकुञ्चनम् अपराधस्य द्रव्यक्षेत्रकालभावानां गोपायनमन्यथा सतामन्यथा भणनं परिकुञ्चना परिवञ्चना वा, उक्तं च"दव्वे खेत्ते काले भावे पलिउंचणा चउवियप्प" त्ति, तथाहि ॥ १ ॥ सच्चित्ते अचित्तं 9 जणवयपडिसेवियं च अद्धाणे २ । सुभिक्खे यदुभिक्खे ३ हट्टेण तहा गिलाणेणं " इति, तस्याः प्रायश्चित्तं परिकुञ्चनाप्रायश्चित्तं, विशेषोऽत्र व्यवहारपीढादवसेय इति । प्रायश्चित्तं च कालापेक्षया दीयत इति कालनिरूपणासूत्रम् मू. (२७८) चउव्विहे काले पं० तं० पमाणकाले अहाउयनिव्वत्तिकाले मरणकाले अद्धाकाले । वृ. तत्र प्रमीयते - परिच्छिद्यते येन वर्षशतपल्योपमादि तत्प्रमाणं तदेव कालः प्रमाणकालः, स च अद्धाकालविशेष एव दिवसादिलक्षणो मनुष्यक्षेत्रान्तर्वर्तीति, उक्तं च"दुविहो पमाणकालो दिवसपमाणं च होइ राई य । चउपोरिसिओ दिवसो राई चउपोरिसी चेव" इति, ॥ १ ॥ यथा-यत्प्रकारं नारकादिभेदेनायुः कर्म्मविशेषो यथायुस्तस्य रौद्रादिध्यानादिना निर्वृतिःबन्धनं तस्याः सकाशाद्य; कालो - नारकादित्वेन स्थितिर्जीवानां स यथायुर्निर्वृतिकालः, अथवा यथाऽऽयुषो निर्वृतिस्तथा यः कालो - नारकादिभवेऽवस्थानं स तथेति, अयमप्यद्धाकाल एवायुष्ककर्मानुभवविशिष्टः, सर्वसंसारिजीवानां वर्त्तनादिरूप इति उक्तं च ॥१॥ “आउयमेत्तविसिठ्ठो स एव जीवाण वत्तणादिमओ । भन्नइ अहाउकालो वत्तइ जो जच्चिरं जेणं " इति, मरणस्य-मृत्योः कालः समयो मरणकालः, अयमप्यद्धासमयविशेष एव, मरणविशिष्टो मरणमेव वा कालो, मरणपर्यायत्वादिति, उक्तं च ॥ १ ॥ "कालोत्ति मयं मरणं जह मरणं गओत्ति कालगओ । तम्हास कालकालो जो जस्स मओ मरणकालो " इति, तथा अद्धैव कालः अद्धाकालः, कालशब्दो हि वर्णप्रमाणकालादिष्वपि वर्त्तते, ततोऽद्धाशब्देन विशिष्यत इति, अयं च सूर्यक्रियावलिशिष्टो मनुष्यक्षेत्रान्तर्वर्त्ती समयादिरूपयोऽवसेयः, उक्तं च- 119 11 “सूरकिरियाविसिट्टो गोदोहाइकिरियासु निरवेक्खो । अद्धाकालो भन्नइ समयक्खेत्तंमि समयाइ समयावलियमुहुत्ता दिवसमहोरत्तपक्खमासा य । संवच्छरजुगपलिया सागरओसप्पिरियट्टा" इति । द्रव्यपर्यायभूतस्य कालस्य चतुःस्थानकमुक्तम्, इदानीं पर्यायाधिकारात् पुद्गलानां For Private & Personal Use Only www.jainelibrary.org ॥२॥ Jain Education International
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy