SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ स्थानं ४, - उद्देशकः - १ - पर्यायभूतस्य परिणामस्य तदाह मू. (२७९) चउव्विहे पोग्गलपरिणामे पन्नत्ते तं०-वन्नपरिणामे गंधपरिणामे रसपरिणामे फासपरिणामे । -- बृ. 'चउव्विहे' इत्यादि, परिणामः अवस्थातोऽवस्थान्तरगमनम् उक्तं च119 11 “परिणामो ह्यर्थान्तरगमनं न तु सर्वथा व्यवस्थानम् । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः " इति, २१९ तत्र वर्णस्य-कालोदेः परिणामः अन्यथा भवनं वर्णेन वा कालादिनेतरत्यागेन पुद्गलस्य परिणामो वर्णपरिणामः एवमन्येऽपि । अजीवद्रव्यपरिणाम उक्तोऽधुना तु जीवद्रव्यस्य परिणाम विचित्रा सूत्रप्रपञ्चेनाभिधीयन्ते तत्र च - मू. (२८०) भरहेरवएसुणं वासेसु पुरिमपच्छिमवज्जा मज्झिमगा बावीसं अरहंता भगवंता चाउनामं धम्मं पनवेति, तं० सव्यातो पाणातिवायाओ वेरमणं, एवं मुसावायाओ वेरमणं, सब्बातो अदिन्नादाणाओ वेरमणं सव्वाओ बहिद्धादाणा [परिग्गहा] ओ वेरमणं १, सव्वेषु णं महाविदेहेसु अरहंता भगवंतो चाउज्जामं धम्मं पण्णवयंति, तं०-सव्वाती पाणातिवायाओ वेरमणं, जाव सव्वातो बहिद्धादाणाओ वेरमणं । ॥२॥ वृ. 'भरते' त्यादिसूत्रद्वयं व्यक्तमेव, किन्तु पूर्वपश्चिमवर्जाः, किमुक्तं भवति ? -मध्यमका इति, ते चाष्टादयोऽपि भवन्तीत्युच्यते-द्वाविंशतिरिति, चत्वारो यमा एव यामा निवृत्तयो यस्मिन् स तथा 'बहिद्धादाणाओ 'त्ति बहिर्द्धा मैथुनं परिग्रहविशेषः आदानं च परिग्रहस्तयोर्द्वन्द्वैकत्वमथवा आदीयत इत्यादानं परिग्राह्यं वस्तु तच्च धर्मोपकरणमपि भवतीत्यत आह-बहिस्तात्-धर्मोपकरणाद् बहिर्यदिति, इह च मैथुनं परिग्रहेऽन्तर्भवति, न ह्यपरिगृहीता योषिद् भुज्यत इति प्रत्याख्येयस्य प्राणातिपातादेश्चतुर्विधत्वात् चतुर्यामता धर्म्मस्येति, इयं चेह भावना-मध्यमतीर्थकराणां विदेहकानां च चतुर्यामधर्मस्य पूर्वपश्चिमतीर्थकरयोश्च पञ्चयामधर्म्मस्य प्ररूपणा शिष्यापेक्षा, परमार्थतस्तु पञ्चयामस्यैवोभयेषामप्यसौ, यतः प्रथमपश्चिमतीर्थकरतीर्थसाधव ऋजुजडा वक्रजडाश्चेति, तत्त्वादेव परिग्रहो वर्जनीय इत्युपदिष्टे मैथुनवर्जनमवबोद्धुं पालयितुं च न क्षमाःस, मध्यमविदेहजतीर्थकरतीर्थसाधवस्तु ऋजुप्रज्ञत्वात् तद्बोद्धुं वर्जयितुं च क्षमा इति, भवतश्चात्र श्लोकी“पुरिमा उज्जुजड्डाउ, वक्कजड्डा य पच्छिमा । मज्झिमा उज्जुपन्ना उ, तेण धम्मे दुहा कए पुरिमाणं दुव्विसोज्झो उ, चरिमाणं दुरनुपालए । कप्पो मज्झिमगाणं तु, सुविसुज्झे सुपालए " इति । 11911 अनन्तरोक्तेभ्यः प्राणातिपातादिभ्योऽनुपरतोपरतानां दुर्गतिसुगती भवतः, तद्वन्तश्च ते दुर्गतेतरा भवन्तीति दुर्गतिसुगत्यात्मकपरिणामयोर्दुर्गतसुगतानां च भेदान् सूत्रचतुष्टयेनाहमू. (२८१) चत्तारि दुग्गतीतो पं० तं०-नेरइयदुग्गती तिरिक्खजोणियदुग्गती मणुस्सदुग्गती देवदुग्गत 9, चत्तारि सोग्गई ओपं० तं०-सिद्धसोंगती देवसोग्गती मणुयसोग्गती सुकुलपञ्चायाति २, चत्तारि दुग्गती पं० तं०-नेरइयदुग्गता तिरिक्खजोणियदुग्गता मणुयदुग्गता देवदुग्गता ३, चत्तारि सुग्गता पं० तं० - सिद्धसुगता जाव सुकुलपच्चायाया ४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy