________________
स्थानं ४, उद्देशक: १
-
-
॥७॥
॥८॥
छवीसं कोडीओ पयाण पुव्वे अवंझनामंमि ११ । पाणाउम्मिय कोडी छप्पणलकखेहि अब्महिया १२ नवकोडीओ संखा किरियविसालंमि वन्निया गुरुणा १३ । अद्धत्तेरसलक्खा पायसंखा बिंदुसारम्भि॥ इति,
तेषु गतं प्रविष्टं यत् श्रुतं तत्पूर्वगतं पूर्वाण्येव, अङ्गप्रविष्टमङ्गानि यथेति, योजनं योगः अनुरूपोऽनुकूलो वा सूत्रस्य निजेनाभिधेयेन सह योग इत्यनुयोगः, सचैकस्तीर्थकराणां प्रथमसम्यकत्वावाप्तिपूर्वभवादिगोचरो यः स मूलप्रथमानुयोगोऽभिधीयते यस्तु कुलकरादिव - क्तव्यता गोचरः स गण्डिकानुयोग इति । पूर्वगतमनन्तरमुक्तं, -
मू. (२७७) चउव्विहे पायच्छित्ते पं० तं०-नाणपायच्छित्ते दंसणपायच्छिते चरित्तपायच्छित्ते चियत्तकिखपायच्छित्ते, १ । चउव्विहे पायच्छित्ते पं० तं०-परिसेवणापायच्छित्ते संजोयणापायच्छित्ते आरोअणापायच्छित्ते पलिउंचणापायच्छित्ते २ ।
२१७
वृ. तत्र च प्रायश्चित्तप्ररूपणाऽऽसीदिति प्रायश्चित्तसूत्रद्वयं, तत्र ज्ञानमेव प्रायश्चित्तं, यतस्तदेव पापं छिनत्ति प्रायः चित्तं वा शोधयतीति निरुक्तिवशात् ज्ञानप्रायश्चित्तमिति, एवमन्यत्रापि, वियत्तकिच्चे' ति व्यक्तस्य भावतो गीतार्थस्य कृत्यं करणीयं व्यक्तकृत्यं प्रायश्चित्तमिति, गीतार्थो हि गुरुलाघवपर्यालोचनेन यत् किञ्चन करोति तत्सर्वं पापविशोधकमेव भवतीति, अथवा ज्ञानाद्यतिचारविशुद्धये यानि प्रायश्चित्तान्यालोचनादीनि विशेषतोऽभिहितानि तानि तथा व्यपदिश्यन्ते, 'वियत्ते 'ति विशेषेण अवस्थाद्योचित्येन विशेषानभिहितमपि दत्तंवितीर्णमभ्यनुज्ञातमित्यर्थः, यत्किञ्चिन्मध्यस्थगीतार्थेन कृत्यम्-अनुष्ठानं तद् विदत्तकृत्यं प्रायश्चित्तमेव, 'चियत्तकिच्चे' त्ति पाठान्तरतस्तु प्रीतिकृत्यं वैयावृत्त्यादीति, प्रतिषेवणम्आसेवनमकृत्यस्येति प्रतिषेवणा, सा च द्विधा - परिणामभेदात् प्रतिषेवणीयभेदाद्वा, तत्र परिणामभेदात्, -
॥१॥
119 11
"पडिसेवणा उ भावो सो पुण कुलसोव्व होज्जऽकुसलो वा । कुसलेण होइ कप्पो अकुसलपरिणामओ दप्पो " - प्रतिषेवणीयभेदात्तु - "मूलगुणउत्तरगुणे दुविहा पडिसेवणा समासेणं १ । मूलगुणे पंचविहा पिंडविसोहाइगी इयरा " - तस्यां प्रायश्चित्तमालोचनादि, तच्चेदम्
॥ १ ॥ “ आलोयण १ पडिकमणे २ मीस ३ विवेगे ४ तहा विउस्सग्गे ५ । तव ६ छेय ७ मूल ८ अनवट्टया य ९ पारंचिए १० चेव "
इति प्रतिषेवणाप्रायश्चित्तं १, संयोजनम् - एकजातीयातिचारमीलनं संयोजना यथा शय्यातरपिण्डो गृहीतः सोऽप्युदकार्ब्रहस्तादिना सोऽप्यभ्याहृतः सोऽप्याधाकर्मिकस्तत्र यत् प्रायश्चित्तं तत् संयोजनाप्रायश्चित्तम्, तथा आरोपणमेकापराधप्रायश्चित्ते पुनः पुनरासेवनेन विजातीयप्रायश्चित्ताध्यारोपणमारोपणा, यथा पञ्चरात्रिन्दिवप्रायश्चित्तमापन्नः पुनस्तत्सेवने दशरात्रिन्दिवं पुनः पञ्चदशरात्रिन्दिवमेवं यावत्षण्मासात् ततस्तस्याधिकं तपो देयं न भवति अपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
-