SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ स्थानं ४, - उद्देशक: w २०३ इच्छेखा ० नो चेव णं संचाइए ३, एवं निरयाउअंसि कम्मंसि अक्खीणसि जाव नो चेव णं संचातेति हव्वमागच्छित्तते ४, इच्चेतेहिं चउहिं ठाणेहिं अहुणोववन्ने नेरतिते जाव नो चेव णं संचातेति हव्वमागच्छित्तए ४ वृ. 'चउही 'त्यादि सुगमं, केवलं 'ठाणेहिं' ति कारणैः 'अहुणोववत्रे' त्ति अधुनोपपन्नःअचिरोपपन्नः, निर्गतमयं - शुभमस्मादिति निरयो - नरकस्तत्र भवो नैरयिकः, तस्य चानन्योत्पत्तिस्थानतां दर्शयितुमाह-निरयलोके, तस्मादिच्छेन्मानुषाणामयं मानुषस्तं लोकं क्षेत्रविशेषं 'हव्वं' शीघ्रमागन्तुं 'नो चेव' त्ति नैव, णं वाक्यालङ्कारे, 'संचाइए' सम्यक् शक्नोति आगन्तुं, 'समुब्भूयं ति समुद्भूताम्- अतिप्रबलतयोत्पन्नां पाठान्तरेण 'सन्मुखभूताम्' एकहेलोत्पन्नां पाठान्तरेणामहतो महतो भवनं महद्भूतम् तेन सह या सा समहद्भूता तां सुमहद्भूतां वा वेदनां दुःखरूपां वेदयमानःअनुभवन् इच्छेदिति मनुष्यलोकागमनेच्छायाः कारणम् १, एतदेव चाशकनस्य, तीव्रवेदनाभिभूतो हि न शक्त आगन्तुमिति, तथा निरयपालैः -अम्बादिभिः भूयो भूयः पुनः पुनरधिष्ठीयमानःसमाक्रम्यमाणः आगन्तुमिच्छेदित्यागमनेच्छाकारणमेतदेव चागमनाशक्तिकारणं, तैरत्यन्ताक्रान्तस्यागन्तुमशक्तत्वादिति २, -9 तथा निरये वेद्यते - अनुभूयते यत् निरययोग्यं वा यद्वेदनीयं तन्निरयवेदनीयं -अत्यन्ताशुभनामकर्म्मादि असातवेदनीयं वा तत्र कर्म्मणिअक्षीणे स्थित्या अवेदिते अननुभूतानुभागतया अनिर्जीर्णे जीवप्रदेशेभ्योऽपरिशटिते इच्छेत् मानुषं लोकमागन्तुं न च शक्नोति, अवश्यवेद्यकर्म्मनिगडनियन्त्रितत्वादित्यागमनाशकन एव कारणमिति ३, तथा 'एव' मिति 'अहुणोववन्ने' इत्याद्यभिलापसंसूचनार्थं निरयायुष्के कर्म्मणि अक्षीणे यावतकरणात् अवेइए इत्यादि ६श्यमिति ४, निगमयन्नाह 'इच्चेएहिं 'ति, इति एवंप्रकारैरेतैःप्रत्यक्षैरनन्तरोक्तत्वादिति । अनन्तरं नारकस्वरूपमुक्तं, ते चासंयमोपष्टम्भकपरिग्रहादुत्पद्यन्त इति तद्विपक्षभूतं परिग्रहविशेषं चतुःस्थानकेऽवतारयन्नाह मू. (२६०) कप्पंति निग्गंथीणं चत्तारि संघाडीओ धारितए वा परिहरिततते वा, तं० - एगं दुहत्यवित्थारं, दो तिहत्थवित्थारा एगं चउहत्थवित्थारं वृ. 'कप्पंती' त्यादि, कल्पन्ते - युज्यन्ते निर्गता ग्रन्थाद्-बन्धहेतोर्हिरण्यादेर्मिथ्यात्वादेश्चेति निर्ग्रन्थ्य:- साध्व्यस्तासां सङ्घाट्यः - उत्तरीयविशेषारूपा धारयितुं वा परिग्रहे परिहर्तु वा परिभोक्तुमिति, द्वौ हस्तौ विस्तारः - पृथुत्वं यस्याः सा तथा, कल्पन्त इति क्रियापेक्षया कर्तृत्वात् संघटीनां, 'एगं' दुहत्यवित्वारं, एगं चउहत्थंवित्थारं' ति प्रथमा स्यात्तदर्थेच प्राकृतत्वात् द्वितीयोक्ता, धारायन्ति परिभुञ्जते चेति, प्रत्ययपरिणामेन बेति क्रियानुस्मृतेः द्वितीयैव तत्र प्रथमा उपाश्रये भोग्या त्रिहस्तविस्तारयोरेका भिक्षागमने द्वितीया विचारभूमिगमने चतुर्थी समवसरणे, उक्तं च "संघाडीओ चउरो तत्थ दुहत्था उवसयंमि ॥ 11911 दुनि तित्थायामा भिक्खट्टा एग एग उच्चारे । ओसरणे चउहत्था निसन्नपच्छायणी मसिणा ॥” इति, नारकत्वं ध्यानविशेषाद्, ध्यानविशेषार्थमेव च संघाट्यादिपरिग्रह इति ध्यानं प्रकरणत आह Jain Education International -- For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy