SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ २०२ स्थानाङ्ग सूत्रम् ४/१/२५७ तयखातसमाणे तवे प०, छल्लिक्खायसमाणस्स णं भिक्खागस्स कट्टक्खायसमाणे तवे प० वृ. 'त्वचं-बाह्यवल्कं खादतीति त्वक्खादः, एवं शेषा अपि, नवरं 'छल्लि'त्ति अभ्यन्तरं वल्कं काष्ठं-प्रतीतंसारः-काष्ठमध्यमिति दृष्टान्तः, एवमेवे त्याद्युपनयसूत्रं, भिक्षणशीला भिक्षणधर्माणो भिक्षणे साधवो वा भिक्षाकाः, त्वक्खादेन घुणेन समानोऽत्यन्तं सन्तोषितया आयामाम्लादिप्रान्ताहारभक्षकत्वात् त्वक्खादसमानः, एवं छली खादसमानोऽलेपाहारकत्वात् काष्ठखादसमानो निर्विकृतिकाहारतया सारखादसमानः सर्वकामगुणाहारत्वादिति, एतेषां चतुर्णामपि भिक्षाकाणां तपोविशेषाभिधानसूत्रं 'तयक्खाये'त्यादि, सुगमं, केवलमयं भावार्थ:त्वकल्पासाराहारभ्यवहर्तुनिरभिष्वङ्गत्वात् कर्मभेदमङ्गीकृत्य वज्रसारंतपोभवतीत्यतोऽपदिश्यते - 'सारक्खायसमाणे तवे'त्ति, सारखादधुणस्य सारखादत्वादेव समर्थत्वात् वज्रतुण्डत्वाच्चेति, सारखादसमानस्योक्तलक्षणस्य साभिष्वङ्गतयात्वक्खादसमा कर्मसारभेदंप्रत्यसमर्थतपःस्यात्, त्वक्खादकधुणस्य हि तत्त्वादेवसारभेदनंप्रत्यसमर्थत्वादिति, तथाछल्लीखादघुणसमानस्य भिक्षाकस्य त्वक्खादधुणसमानापेक्षया किञ्चिद्विशिष्टभोजित्वेन किश्चित्साभिष्वङ्गत्वात् सारस्वादकाष्ठखादघुणसमानापेक्षया त्वसारभोजित्वेन निरभिष्वङ्गित्वाच्च कर्मभेदं प्रति काष्ठखादघुणसमानंतपःप्रज्ञप्तं, नातितीव्र, सारस्वादघुणवत्, नाप्यतिमन्दादि, त्वक्छल्लीखादघुणवदिति भावः, तथा काष्ठखादघुणसमानस्य साधोः सारखादघुणसमानापेक्षया असारभोजित्वेन निरभिष्वङ्गत्वात् त्वक्छल्लीखादघुणसमानापेक्षया सारतरोभोजित्वेन साभिष्वङ्गत्वाच्च छल्लीखादघुणसमानंतपः प्रज्ञप्तं, कर्मभेदं प्रतिनसारखादकाष्ठखादघुणवदतिसमर्थादिनापि त्वखादधुणवदतिमन्दमिति भावः, प्रथमविकल्पे प्रधानतरं तपो द्वितीयेऽप्रधानतरं, तृतीये प्रधानं, चतुर्थेऽप्रधानमिति।।अनन्तरंवनस्पत्यवयवखादकाघुणाः प्ररूपिता इतिवनस्पतिमेव प्ररूपयन्नाह मू. (२५८) चउबिहा तणवणस्सतिकातिता पं० तं० - अग्गबीया मूलबीया पोरबीया खंधबीया। वृ. 'चउब्विहे'त्यादि, वनस्पतिः प्रतीतः स एव कायः-शरीरं येषां ते वनस्पतिकायाः त एव वनस्पतिकायिकाः, तृणप्रकारा वनस्पतिकायिकास्तृणवनस्पतिकायिका बादरा इत्यर्थः, अग्रं बीजं येषां ते अग्रबीजाः-कोरिण्टकादयः, अग्रेवा बीजं येषां तेऽग्रबीजाः-व्रीह्यादयः, मूलमेघ बीजं येषां तेमूलबीजाः-उत्पलकन्दादयः, एवं पर्वबीजा-इक्ष्वादयः, स्कन्धबीजाः-सल्लक्यादयः, स्कन्धः थुडमिति, एतानि च सूत्राणि नान्यव्यवच्छेदनपराणि, तेन बीजरुहसम्मूर्च्छनजादीनां नाभावोमन्तव्यः, सूत्रान्तरविरोधादिति ।अनन्तरंवनस्पतिजीवानांचतुःस्थानकमुक्तम्, अधुना जीवसाधरान्नारकजीवानाश्रित्य तदाह - मू. (२५९) चउहि ठाणेहिं अहुणोववन्ने नेरइए नेरइयलोगंसि इच्छेजा माणुसं लोगं हब्वमागछित्तते, नोचेवणं संचातेइ हब्वमागच्छित्तते, अहुणोववन्ने नेरइएनिरयलोगंसि समुब्भूयं वेयणं वेयमाणे इच्छेजा माणुसं लोगं हव्वमागच्छित्तते ना चेवणं संचातेति हव्वमागच्छित्तते १, अहुणोववन्ने नेरइए निरतलोगंसि निरयपालेहिं भुओ २ अहिडिजमाणे इच्छेजा माणुसं लोगं हव्वमागच्छित्तते, नो वेवणं संचातेति हब्वमागछित्तते २, अहुणोववन्ने नेरइए निरतवेयणिजंसि कम्मंसि अक्खीणंसि अवेतितंसि अनिजिनसि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy