________________
-
-
-
स्थान -४, उद्देशकः-१
१९७ द्रव्यभावेहवर्जितत्वेन परुषः, खूषयति वा कर्ममलमपनयतीतिलूषः, कथमसावेवंसंवृत्तइत्याहयतः “तीरट्ठी" तीरं-पारं भवार्णअवस्यार्थयत इत्येवंशीलस्तीरार्थी तीरस्थायी वा तीरस्थितिरिति वा प्राकृतत्वात् तीरटेत्ति, अत एव उवहाणवंति उपधीयते-उपष्टभ्यते श्रुतमनेनेति उपधानं श्रुतविषयस्तपउपचार इत्यर्थः तद्वान्, अत एव-दुक्खक्खवे'त्तिदुःखम्-असुखंतत्कारणत्वाद्वा कर्मतत्क्षपयतीति दुःखक्षपः,कर्मक्षपणंचतपोहेतुकमित्यत आह-'तवस्सी तितपोऽभ्यन्तरं कर्मेन्धनदहनज्वलनकल्पमनवरतशुभध्यानलक्षणमस्ति यस्य स तपस्वी,
_ 'तस्स णं'ति यश्चैवंविधस्तस्य णं वाक्यालङ्कारे नो तथाप्रकारम्-अत्यन्तघोरं वर्द्धमानजिनस्येव तपः-अनशनादि भवति, तथा नो तथाप्रकारा-अतिधोरैवोपसर्गादिसम्पाद्या वेदना-दुःखासिका भवति, अल्पकर्माप्रत्यायातत्वादिति, ततश्च तत्तथाप्रकारमल्पकर्मप्रत्यायातादिविशेषणकलापोपेतंपुरुषजातं-पुरुषप्रकारो 'दीर्पण' बहुकालेन पर्यायेण प्रव्रज्यालक्षणेन करणभूतेन सिद्धयति-अणिमादियोगेन निष्ठितार्थो वा विशेषतः सिद्धिगमनयोग्यो वा भवति, सकलकर्मनायकमोहनीयघातात्, ततो घातिचतुष्टयघातेन बुध्ध्यते केवलज्ञानभावात् समस्तवस्तूनि, ततोमुच्यतेभवोपग्राहिमकर्मभिः, ततः परिनिर्वातिसकलकर्मकृतविकारन्यतिकरनिराकरणेन शीतीभवतीति, किमुक्तं भवतीत्याह-सर्वदुःखानामन्तं करोति, शारीरमानसानामित्यर्थः, अतथाविधतपोवेदनो दीर्घेणापि पर्यायेण किं कोऽपि सिद्धः ? इति शङ्कापनोदार्थमाह
___ 'जहा से इत्यादि, यथाऽसौ यः प्रथमजिनप्रथमनन्दनो नन्दनशताग्रजन्मा भरतो राजा चत्वारोऽन्ताः-पर्यन्ताः पूर्वदक्षिणपश्चिमसमुद्रहिमवल्लक्षणा यस्याः पृथिव्याः सा चतुरन्ता तस्या अयं स्वामित्वेनेति चातुरन्तः स चासौ चक्रवर्ती चेति स तथा, स हि प्राग्भवे लघूकृतका सर्वार्थसिद्धविमानाच्युत्वा चक्रवर्तितयोत्पद्य राज्यावस्थ एव केवलमुत्पाद्य कृतपूर्वलक्षप्रव्रज्यः अतथाविधतपोवेदन एव सिद्धिमुपगत इति प्रथमान्तक्रियेति १,
__ 'अहावरे ति 'अथ'अनन्तरमपरा पूपिक्षयाऽन्या द्वितीयस्थानेऽभिधानात् द्वितीया महाकर्मभिः-गुरुकर्मभिर्महाकर्मा सन् प्रत्यायातः प्रत्याजातो वा य; स तथा, 'तस्स ण'मिति, तस्य-महाकर्मप्रत्यायातत्वेन तत्क्षपणाय तथाप्रकारं घोरं तपो भवति, एवंवेदनाऽपि, कर्मोदयसम्पाद्यत्वादुपसर्गादीनामिति, निरुद्धेने ति अल्पेन यथाऽसौगजसुकुमारो विष्णुलघुभ्राता, स हि भगवतोऽरिष्ठनेमिजिननाथस्यान्तिके प्रव्रज्यांप्रतिपद्य श्मशाने कृतकायोत्सर्गलक्षणमहातपाः शिरोनिहितजाज्वल्यमानाङ्गारजनितात्यन्तवेदनोऽल्पेनैव पर्यायेण सिद्धवानिति,शेषंकण्ठ्यम्
'अहावरे' त्यादिकण्ठ्यं, यथाऽसीसनत्कुमार इतिचतुर्थचक्रवर्ती, सहि महातपामहावेदनश्च सरोगत्वात् दीर्घतरपर्यायेण सिद्धः, तद्मवे सिद्धभावेन भवान्तरे सेत्स्यमानत्वादिति ३,
'अहावरे' त्यादि कण्ठ्यं, यथाऽसौ मरुदेवी प्रथमजिनजननी, सा हि स्थावरत्वेऽपि क्षीणप्राय- कर्मत्वेनाल्पकर्मा अविद्यमानतपोवेदना च सिद्धा, गजवरारूढाया एवायुःसमाप्ती सिद्धत्वादिति४,
एतेषांच दृष्टान्तदान्तिकानामर्थानांनसर्वथासाधम्यमन्वेषणीयम्, देशहटान्तत्वादेषां,यतो मरुदेव्या 'मुण्डे भवित्ते'त्यादिविशेषणानि कानिचिन्न घटन्ते, अथवा फलतः सर्वसाधर्म्यमपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org