________________
स्थानं - ३ - उद्देशकः -४
44
पद्मलेश्या, शुक्ला प्रतीता, एवंकरणात्प्रथमसूत्रवत् । 'तओ' इत्याद्यभिलापेन शेषसूत्राण्यध्येयानीति, तत्र दुर्गतिं नरकतिर्यग्रूपांगमयन्ति प्राणिनमिति दुर्गतिगामिन्यः, सुगतिः- मनुष्यदेवगतिरूपा, सङ्क्लिष्टाः सङ्क्लेिशहेतुत्वादिति, विपर्ययः सर्वत्र सुज्ञानः, अमनोज्ञाः “ अमनोज्ञरसोपेतपुद्गलमयत्वात्, अविशुद्धा वर्णतः, अप्रशस्ताः- अश्रेयस्योऽनादेया इत्यर्थः, शीतरूक्षाः स्पर्शतः आद्याः, द्वितीयास्तु स्निग्धोष्णाः स्पर्शत एवेति । अनन्तरंलेश्या उक्ता, अधुना तद्विशेषितमरणनिरूपणायाह
मू. (२३६) तिविहे मरणे पं० तं०- बालमरणे पंडियमरणे बालपंडियभरणे, बालमरणे तिविहे पं० तं०-ठितलेसे संकिलिट्ठलेसे पज्जवजातलेसे, पंडियमरणे तिविहे पं० तं०-ठितलेसे असंकिलिट्टलेसे पज्जवजातलेसे ३, बालपंडितमरणे तिविधे पं० तं०-ठितलेस्से असंकिलिट्ठलेसे अपजवजातलेसे ४
१९१
तथा
बृ. 'तिविहे' इत्यादि सूत्रचतुष्टयं, बालः- अज्ञस्तद्वद् यो वर्त्तते विरतिसाधकविवेकविकलत्वात् स बालः-असंयतस्तस्य मरणं बालमरणम्, एवमितरे, केवलं - पडिधातोर्गत्यर्थत्वेन ज्ञानार्थत्वाद्विरतिफलेन फलवद्विज्ञानसंयुक्तत्वात् पण्डितो बुद्धतत्त्वः संयत इत्यर्थः, अविरतत्वेन बालत्वाद्विरतत्वेन च पण्डितत्वाद् बालपण्डितः संयतासंयत इति, स्थिता - अवस्थिता अविशुध्यन्त्यसङ्किलश्यमाना च लेश्या कृष्णादिर्यस्मिन् तत्स्थितलेश्यः, सङ्किलष्टा - सङ्किलश्यमाना सङ्कसलेशमागच्छन्तीत्यर्थः, सा लेश्या यस्मिंस्तत्तथा, तथा पर्यवा: पारिशेष्याद्वशुद्धिविशेषाः प्रतिसमयं जाता यस्यां सा तथा, विशुद्धा वर्द्धमानेत्यर्थः, सा लेश्या यस्मिंस्तत्तथेति, अत्र प्रथमं कृष्णादिलेश्यः सन् यदा कृष्णादिलेश्येष्वेव नारकादिषूत्पद्यते तदा प्रथमं भवति, यदा तु नीलादिलेश्यः सन् कृष्णादिलेश्येषूत्पद्यते तदा द्वितीयं, यदा पुनः कृष्णलेश्यादिः सन् नीलकापोतले श्येषूत्पद्यते तदा तृतीयम्, उक्तं चान्त्यद्वयसंवादि भगवत्याम् यदुत
"से नूनं भंते ! कण्हलेसे नीललेसे जाव सुक्कलेसे भवित्ता काउलेसेसु नेरइएसु उववज्जइ ? हंता, गोयमा, से केणद्वेणं भंते! एवं वुच्छइ ?, गोयमा ! लेसाठाणेसु संकिलिस्समाणेसु वा विसुज्झमाणेसु वा काउलेसं परिणमइ २ काउलेसेसु नेरइएसु उववज्जइ "त्ति, एतदनुसारेणोत्तरसूत्रयोरपि स्थितलेश्यादिविभागो नेय इति ।
पण्डितमरणे सङ्क्लिश्यमानता लेश्याया नास्ति संयतत्वादेवेत्ययं बालमरणाद्विशेषः, बालपण्डितमरणे तु सङ्क्लिश्यमानता विशुद्धमानता च लेश्याया नास्ति, मिश्रत्वादेवेत्ययं विशेष इति । एवं च पण्डितमरणं वस्तुतो द्विविधमेव, सङ्क्लिश्यमानलेश्यानिषेधे अवस्थितवर्द्धमानलेश्यत्वात् तस्य, त्रिविधत्वं तु व्यपदेशमात्रादेव, बालपण्डितमरणं त्वेकविधमेव, सङ्क्लिश्यमानपर्यवजातलेश्यानिषेधे अवस्थितलेश्यात्वात् तस्येति, त्रैविध्यं त्वस्येतरव्यावृत्तितो व्यपदेशत्रयप्रवृत्तेरिति । मरणमनन्तरमुक्तं, मृतस्य तु जन्मान्तरे यथाविधस्य यद्वस्तुत्रयं यस्मै सम्पद्यते तस्य तत्तस्मै दर्शयितुमाह
मू. (२३७) ततो ठाणा अव्यवसितस्स अहिताते असुभाते अखमाते अनिस्सेसा अनानुगामियत्ताते भवति, तं०-से णं मुंडे भवित्ता अगारातो अनगारियं पव्व तिते निग्गंथे पावयणे संकिते कंखिते वितिगिच्छिते भेदसमावत्रे कलुससमावत्रे निग्गंधं पावयणं नो सद्दहति नो पत्तियति नो रोएति तं परिस्सहा अभिजुंजिय २ अभिभवंति, नो से परिस्सहे अभिजुंजिय २ अभिभवइ 9,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org