________________
१९०
स्थाना सूत्रम् ३/४/२३२
विचिकित्सेति, परियावजण'त्तिपर्यापदनंपर्यापत्तिरासेवेतियावत्, साऽप्येवमेवेति। 'जाणु'त्ति ज्ञः, सच ज्ञानात्स्यादित्युक्तं, ज्ञानंचातीन्द्रियार्थेषु प्रायः शास्त्रादिति शास्त्रभेदेन तव्दानाह
मू. (२३३) तिविधे अंते पंतं०-लोगंते वेयंते समयंते।
वृ. 'तिविहे अंते इत्यादि, अमनमधिगमनमन्तः-परिच्छेदः, तत्र लोको-लोकशास्त्रं तत्कृतत्वात् तदध्येयत्वाच्चार्थशास्त्रादिः तस्मादन्तो-निर्णयस्तस्य वा परमरहस्यं पर्यन्तो वेति लोकान्तः,एवमितरावपि, नवरंवेदा ऋगादयः४समयाजैनादिसिद्धान्ता इति।अनन्तरंसमयान्त उक्तः,समयश्चजिनकेवल्यर्हच्छब्दवाच्यैरुक्तः सम्यग्भवतीतिजिनादिशब्दवाच्यभेदानभिधातुं त्रिसूत्रीमाह
मू. (२३४) ततो जिना पं० -ओहिनाणजिने मणपञ्जवनाणजिने केवलनाणजिने १, ततो केवली पं० २०-ओहिनाणकेवलीमणपजवनाणकेवली केवलनाणकेवली २, तओ अरहा, पं० २०-ओहिनाणअरहामणपञ्जवनाणअरहा केवलनाणअरहा ३
'तओ जिणे'त्यादि, सुगमा, नवरं रागद्वेषमोहान् जयन्तीति जिना:- सर्वज्ञाः, उक्तंच॥१॥ “रागो द्वेषस्तथा मोहो, जितो येन जिनो ह्यसौ।
अस्त्रीशस्त्राक्षमालत्वादहन्नेवानुमीयते" इति, तथा जिना इव ये वर्तन्ते निश्चयप्रत्यक्षज्ञानतया तेऽपि जिनास्तत्रावधिज्ञानप्रधानो जिनोऽवधिजिनः एवमितरावपि, नवरमाद्यावुपचरित्तावितरो निरुपचारः, उपचारकारणं तु प्रत्यक्षज्ञानित्वमिति, केवलम्-एकमनन्तं पूर्ण वा ज्ञानादि येषामस्ति ते केवलिनः, उक्तंच. ॥१॥ “कसिणं केवलकप्पं लोगं जाणंति तह य पासंति।
केवलचरित्तानाणी तम्हा ते केवली होति" इति, इहापिजिनवव्याख्या, अर्हन्ति देवादिकृतां पूजामित्यर्हन्तः, अथवा नास्ति रहः-प्रच्छन्नं किश्चिदपि येषां प्रत्यक्षज्ञानित्वात्तेअरहसः, शेषं प्राग्वत् ।
एते च सलेश्या अपि भवन्तीति लेश्याप्रकरण-माह
मू. (२३५) ततो लेसाओ दुब्भिगंधाओ पं० तं०-कण्हलेसा नीललेसा काउलेसा १, तओ लेसाओ सुन्भिगंधातो पं० तं०-तेऊ० पम्ह० सुक्कलेसार एवंदोग्गतिगामिणीओ ३ सोगतिगामिणीओ ४ संकिलिट्ठाओ ५ असंकिलिट्ठाओ ६ अमणुनाओ७ मणुनाओ ८ अविसुद्धाओ ९ विसुद्धाओ १० अप्पसत्थाओ ११ पसत्थाओ १२ सीतलुक्खाओ १३ निद्धण्हाओ १४
वृ. 'तओ'इत्यादि सुगम, नवरं 'दुब्मिगंधाओ'त्ति दुरभिगन्धा दुर्गन्धाः, दुरभिगन्धकत्वं च तासां पुद्गलात्मकत्वात, पुद्गलानांच गन्धादीनां अवश्यंभावादीति, आह च॥१॥ “जह गोमडस्स गंधो सुणगमडस्स वजहाअहिमडस्स।
एत्तोवि अनंतगुणो लेसाणं अप्पसत्थाणं" इति, नामानुसारीचासांवर्णः, कपोतवर्णालेश्याकपोतलेश्या, धूम्रवर्णत्यर्थः, सुब्मिगंधाओ'ति सुरभिगन्धयः, आह च॥१॥ "जह सुरभिकुसुमगधो गंधो वासाण पिस्समाणाणं।
एतोवि अनंतगुणो पसत्यलेसाण तिण्डंपि" इति, तेजो-वह्निस्तद्वर्णालेश्यालेहितवर्णेत्यर्थः, तेजोलेश्येति, पद्मगर्भवर्णा लेश्या पीतवर्णेत्यर्थः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org