SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ स्थानं - ३, उद्देशक: -४ १८९ नाप्राप्तप्रार्थनाद्वारेणात्मनोऽशुभभावो भावगौरवमित्यर्थः एवमन्यत्रापि, नवरं रसो- रसनेन्द्रियार्थो मधुरादिः सातं सुखमिति, अथवा ऋद्धयादिषु गौरवमादर इति । अनन्तरं चारित्रर्द्धिरुक्ता, चारित्रं च करणमिति तद्भेदानाह मू. (२३०) तिविधे करणे पं० धम्मिऐ करणे अधम्मिए करणे धम्मिताधम्मिए करणे वृ. 'तिविहे' इत्यादि, कृतिः करणमनुष्ठानं तच्च धार्म्मिकादिस्वामिभेदेन त्रिविधं तत्र धार्मिकस्य-संयमस्येदं धार्मिकमेवमितरे, नवरमधार्मिकः असंयतस्तृतीयो देशसंयतः, अथवा धर्मे भवं धर्म्मो वा प्रयोजनमस्येति धार्मिकं विपर्यस्तमितरत् एवं तृतीयमपीति । धार्मिककरणमनन्तरमुक्तं तच्च धर्म एवेति तद्भेदानाह मू. (२३१) तिविहे भगवता धम्मे पं० तं०-सुअधिज्झिते सुज्झातिते सुतवस्सिते, जया सुअधिज्झितं भवति तदा सुज्झातियं भवति जया सुज्झातियं भवति तदा सुतवस्सियं भवति, से सुअधिज्झिते सुज्झाकतिते सुतवसस्ते सुतक्खाते णं भगवता धम्मे पन्नेत्ते । वृ. 'तिविहे इत्यादि स्पष्टं, केवलं भगवता महावीरेणेत्येवं जगाद सुधर्मास्वामी जम्बूस्वामिनं प्रतीति, सुष्ठु-कालविनयाद्याराधनेनाधीतं गुरुसकाशात् सूत्रतः पठितं स्वधीतं, तथा सुष्ठु विधिना तत एव व्याख्यानेनार्थतः श्रुत्वा ध्यातम् - अनुप्रेक्षितं श्रुतमिति गम्यं सुध्यातम् अनुप्रेक्षणाऽभावे तत्त्वानवगमेनाध्ययनश्रवणयोः प्रायो ऽकृतार्थत्वादिति, अनेन भेदद्वयेन श्रुतधर्म्म उक्तः, तथा सुष्ठु - इहलोकाद्याशंसारहितत्वेन तपस्थितं तपस्यानुष्ठानं, सुतपस्थितमिति च चारित्रधर्म्म उक्त इति, त्रयाणामप्येषामुत्तरोत्तरतोऽविनाभावं दर्शयति- 'जया' इत्यादि व्यक्तं, परं निर्दोषाध्ययनं विना श्रुतार्थाप्रतीतेः सुध्यातं न भवति तदभावे ज्ञानविकलतया सुतपस्थितं न भवतीति भावः, यदेतत्-स्वधीतादित्रयं भगवता वर्द्धमानस्वामिना धर्म्मः प्रज्ञप्तः 'से' त्ति स स्वाख्यातः सुष्छूक्तः सम्यग्ज्ञानक्रियारूपत्वात्, तयोश्चैकान्तिकात्यन्तिकसुखावन्ध्योपायत्वेन निरुपचरितधर्म्मत्वात्, सुगतिधारणाद्धि धर्म्म इति उक्तं च ॥१॥ "नाणं पयासयं सोहओ तवो संजमो य गुत्तिकरो । तिण्sपि समाओगे मोक्खो जिनसासणे भणिओ " इति, णमिति वाक्यालङ्कारे । सुतपस्थितमिति चारित्रमुक्तं तच्च प्राणातिपातादिविनिवृत्तिस्वरूपमिति तस्या भेदानाह मू. (२३२) तिविधा वावत्ती पं० तं०-जाणू अजाणू वितिमिच्छा, एवमज्झोबवजणा परियावज्रणा । वृ. 'तिविहे 'त्यादि, व्यावर्त्तनं व्यावृत्तिः, कुतोऽपि हिंसाद्यवधेर्निवृत्तिरित्यर्थः, सा च या ज्ञस्य-हिंसादेर्हेतुस्वरूपफलविदुषोज्ञानपूर्विका व्यावृत्तिः, सा तदभेदात् जाणुत्ति गदिता, यात्त्वज्ञस्याज्ञानात् सा अजाणू इत्यभिहिता, या तु विचिकित्सातः संशयात् सा निमित्तनिमित्तिनोरभेदाद्विचिकित्सेत्यभिहिता। व्यावृत्तिरित्यनेनानन्तरं चारित्रमुक्तं तद्विपक्षश्चाशुभाध्यवसायानुष्ठाने इति तयोरधुना भेदानतिदेशत आह- 'एवमित्यादि सूत्रे, 'एवं' मिति व्यावृत्तिरिव त्रिधा 'अज्झोववज्रण'त्ति अध्युपपादनं क्वचिदिन्द्रियार्थे अध्युपपत्तिरभिष्वङ्ग इत्यर्थः तत्र जानतो विषयजन्यमनर्थं या तत्राध्युपपत्तिः सा जाणू या त्वजानतः सा अजाणू या तु संशयवतः सा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy